________________
॥ श्री भक्तामरस्तोत्रम् ॥
किंवि भवन्तम्? 'अनिमेषविलोकनीयं' निमेषो-नेत्रमीलनं तदभावः अनिमेषस्तेन विलोकयितुं योग्यस्तम्। दर्शने निमेषस्याप्यन्तराये महद्वैरस्याद् उत्फुल्लनेत्रतया जनैर्वीक्षणीय इति भावः, यद्वा अनिमेषाः-देवास्तेषामप्यतिशायिरुपत्वाद् वीक्षणयोग्यः, अत एव त्वां दृष्ट्वा नान्यत्र चक्षुर्विश्राम्यति। अर्थान्तरन्यासमाह-दुग्धसिन्धोः पयः पीत्वा जलनिधेः क्षारं जलं रसितुं अशितुं वा क इच्छेत्? अपि तु न कोऽपीत्यन्वयः। __ 'इच्छेत्' इति क्रियापदम्। अभिलषेदित्यर्थः। कः कर्ता? 'जनः'। किं कर्तुम्? रसितुं' अशितुं-उपभोक्तुं पातुमितियावत्। किं कर्मतापन्नम्? 'जलम्'। कस्य? 'जलनिधेः' लवणसमुद्रस्य। किंवि. जलम्? 'क्षारम्'। क्षारपदसन्निधानादेव जलनिधिसामान्यपदेन लवणसमुद्रो गृह्यते। किं कृत्वा? 'पीत्वा'। किं कर्मतापन्नम्? ‘पयः' दुग्धम्। कस्य? 'दुग्धसिन्धोः' क्षीरसमुद्रस्य। रसाधिक्यार्थमिदम्। किंवि. पयः? 'शशिकरद्युति' चन्द्रकिरणोज्ज्वलम्। पयःशब्देनात्र दुग्धमेव व्याख्येयं, न जलं, विशेषादान्तर्यध्वननात्।।
अथ समासा:- न निमेषः अनिमेषः- निमेषाभावः। क्वचित् प्रसज्यप्रतिषेधे नसमासः' इति भाष्यकारः। अनिमेषेण विलोकनीयः अनिमेषविलोकनीयस्तम्। शशः अस्मिन्नस्तीति शशी। आधारार्थे लौकिकप्रसिद्धिः सम्बन्धे ज्योतिः शास्त्रप्रतीतिः। यदुक्तं - 'अश्वः १शशक २ वराही ३ श्येनो ४
घूक ५ स्तथा च मण्डूकः ६। हुण्डु ७ घूक ८ कच्छपाः ९
स्यू रव्यादेर्वाहनानि पुनः॥१॥' शशिनः कराः शशिकराः, शशिकरवद् द्युतिर्यस्य तत् शशिकरद्युति। दुग्धस्य सिन्धुः दुग्धसिन्धुः, तस्य दुग्धसिन्धोः। जलं नितरां धीयते अत्र जलनिधिः, तस्य जलनिधेः। 'रस रसने' धातोः रसितुमिति। 'अशश्(?) भोजने' इत्यस्य अशितुमिति वा ।। इति एकादशवृत्तस्यार्थः ।। ११ ।। અર્થ નિમેષ રહિત જોવા લાયક એવા આપને જોઇને મનુષ્યની આંખ બીજે
का १९ |