SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ॥श्री भक्तामरस्तोत्रम् ॥ ला राजहंसकुमारः सकलकलापारीण: शास्त्राभ्यासप्रवीणश्च। अथ दैवाद् विमलायां विपन्नायां कमला नाम पट्टराज्ञी जाता। सा राजहंसे द्वेषं धत्ते । अस्मिन् सपत्नीभवे राजवल्लभे सति मत्सुतस्य कथं राज्यम्?। अतः तन्मृतये छलं पश्यति । साऽन्यदा राशि देशजयाय प्रस्थिते पश्चात् पुरस्थस्य राजहंसस्य बहुगदकरमगदमदापयत् । कुमारदेहे ज्वरजलोदरादयो रोगा: प्रादुरभूवन् । कुमारेण सपत्नीमातुश्चेष्टितमिति मान्त्रिकात् ज्ञातम् । अत्रस्थस्य मे मृत्युरेव (ग्रंथाग्रं १४००) उक्तं च - "दुष्टा भार्या शठं मित्रं, भृत्याश्चान्तरदायकाः। ससर्पगृहवासच, मृत्युरेव न संशयः ॥१॥"- अनु. "शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः। प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥१॥"- पृथ्वी नृपाङ्गणगते खले कथं जीव्यते इति ध्यात्वा जीवरक्षणायैकक एव निःसृतः पुरात् । कृच्छेण गतो 'हस्तिनापुरम्'। सायं प्रतोल्यां स्थितः। तत्र मानगिरि म राजा। तत्पुत्री कलावती। सा जैनार्यिकाणां पार्श्वे "श्रीतीर्थेशस्य पूजा गुरुचरणयुगाराधनं जीवरक्षा सत्पात्रे दानवृत्तिविषयविरमणं सद्विवेकस्तपश्च । श्रीमत्सङ्घस्य पूजा जिनपतिवचसा लेखनं पुस्तकेषु सोपानश्रेणिरेषा भवतु तनुभृतां सिद्धिसौधाधिरोहे ॥१॥"- स्रग्धरा इति श्रुत्वा जैनधर्ममग्रहीत् । भक्तामरस्तोत्रं शुद्धं पपाठ। चतुःषष्ठिकलापारगा जाता । अन्यदा कुमार्या सभागतायां राजाऽहंयुः सभ्यसामन्तानुवाच । भो ! भवद्भिः कस्य कर्मणा भुज्यते राज्यलक्ष्मी:? त ऊचु:देवकर्मणेति। साऽन्तर्जहास। राजाऽऽह-वत्से ! किमिति हसितम्? सा आह-सेवका: स्वामिरुचितं जानन्तोऽपि कुर्वन्ति। उक्तं च मा १९० का
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy