________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
"प्रणमत्युन्नतिहेतो- र्जीवितहेतोर्विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः, को मूर्खः सेवकादन्यः ॥१॥"- आर्या किञ्च
मौनान्मूकः प्रवचनपटुर्जल्पको वातलो वा धृष्टः पार्थे भवति च तथा दूरतश्चाप्रगल्भः! क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः॥१॥"- मन्दाक्रान्ता इति त्वत्कर्णामृतमनृतं ब्रुवतेऽमी । अतो हास:। राजा-शठे ! त्वं कथं जीवसि? सा स्वकर्मणेत्युवाच ।
"नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः फलं कर्मायत्तं यदि किममरैः? किं च विधिना? नमस्तत् कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥१॥"- शिखरिणी
___-( नीतिशतके श्लो. ९१) " देवेनासृजता स्वयं जगति यद् यस्य प्रमाणीकृतं तत् तस्योपनयेन्मनागपि महान् नैवाश्रयः कारणम्। सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥२॥" शार्दूल० इत्युक्ते रुष्टो राजा रोगग्रस्तरङ्कनरानयनाय दुष्टभटानाजिज्ञपत् । ते लघुभूतकरचरणं मलव्याप्तकरणं ज्वरिणं दु:खदारिद्र्यशरणं राजहंसं गोपुरादानिन्युः सभाम् । राजा सर्वालङ्कारांस्त्याजयित्वा दण्डीखण्डचीवरान् परिधाप्य तमनिच्छन्तं तां पर्यणाययत् । असमसकृद् राजेति मन्त्रिसामन्तादयः शुशुचुः, इत्यचिन्तयंश्च -
"सच्छंदं जंपिज्जइ, कत्थइ जं जं मणस्स पडिहाइ। अयसस्स न वीहिज्जइ, पहुत्तणं तेण रमणीयम् ॥१॥" - आर्या
१ अहङ्कारी ।
र १९१ ना