________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
दन्डान्वयः- हे विबुधार्चितपादपीठ ! विगतत्रपः अहम् बुद्ध्या विना अपि स्तोतुम् समुद्यतमतिः (अस्मि), जलसंस्थितम् इन्दुबिम्बम् सहसा ग्रहीतुम् बालम् विहाय अन्यः कः जनः इच्छति।
हे विबुधार्चितपादपीठ ! अहं त्वां स्तोतुं समुद्यतमतिरस्मि इत्यन्वयः। कर्चुक्तिः। हे देवपूजितचरणन्यासस्थान ! हे भगवन् ! अहं - स्तोत्रकर्ता त्वां वर्णयितुं तत्परमना वर्ते इत्यर्थः ।
'अस्मि' इति क्रियापदम् । कः कर्ता? 'अहम्'। अकर्मको धातुः। किं कर्तुम्? 'स्तोतुम्' । कं कर्मतापन्नम्? 'त्वाम्'। कथम्? विनाऽपि'। कया? बुद्ध्या ' मत्या। कथंभूतः? 'विगतत्रपः' लज्जारहितः । अत्रायं हेतुहेतुमद्भावः-यतोऽहं विगतत्रपः, अतस्त्वां बुद्ध्या विनाऽपि स्तोतुं समुद्यतमतिरस्मि, बुद्धिहीनो देवार्चनीयं भगवन्तं कथं स्तोष्ये इति भावः।
उक्तार्थे अर्थान्तरन्यासमाह - अन्यः को जनो जलसंस्थितं इन्दुबिम्बं सहसा ग्रहीतुं इच्छति-वाच्छति इत्यन्वयः। . 'इच्छति' इति क्रियापदम्। कः कर्ता? 'अन्यो जनः' अपरो लोकः। किं कर्मतापन्नम्? इन्दुबिम्बं' चन्द्रमण्डलम्। किं कर्तुम्? 'ग्रहीतुं' लातुम्। कथम्? 'सहसा'। कथंभूतं इन्दुबिम्बम्? 'जलसंस्थितं' जले प्रतिबिम्बितम्। किं कृत्वा? 'बालं विहाय' कुमारं अव्यक्तं त्यक्त्वा। बालो हि कदाचिज्जले प्रतिबिम्बितं चन्द्रमण्डलं दृष्ट्वा लातुं करं प्रसारयति, न पुनर्व्यक्तज्ञानवान् पुरुषः, प्रतिबिम्बे छायामात्रस्यैव भावात्, कदाचिदाकाशगतं चन्द्रमण्डलं देवादिप्रयोगाद् ग्रहीतुं शक्यते, न पुनः प्रतिबिम्बगतमित्यनेन स्वस्य बालविलसितता भगवत्स्तोत्रस्याशक्यकार्यता च उक्ता भवति। अत्र इषेः कर्तुर्जहतेश्च कर्तुवैकत्वं, तथापि विहायेतिल्यबन्तरूपो निपातो विनार्थे द्रष्टव्यः, 'बलात्कारे प्रसह्य' इति वत्। तद्योगे च ततोऽन्यत्रापि दृश्यत इति द्वितीया । ___ अथ समासा : - पादयोः पीठं पादपीठं, विबुधैः अर्चितं पादपीठं यस्य स तत्संबोधने हे विबुधार्चितपादपीठ ! अनेन तक्षशिलापुर्यां तथा हस्तिनागपुरे
का ६ व