________________
॥श्री भक्तामरस्तोत्रम् ।।
भगवदवस्थानभूमौ बाहुबलिना श्रेयांसेन कारितं पीठं सूचितम् । बुद्ध्या इत्यत्र विनायोगे तृतीया। सम्-सम्यक् प्रकारेण उद्यता मतिर्यस्य सः, तथा विशेषेण गता विगता 'नाम्नश्च० (सा० सू० ५३९) इति तत्पुरुषः, विगता त्रपा यस्य स विगतत्रपः। जले संस्थितं जलसंस्थितम्। इन्दोर्बिम्बं इन्दुबिम्बं तत्, कर्मणि द्वितीया। ग्रहीतुमित्यत्र ‘ईटो ग्रहाम्' (सा० सू० ८२१) इति दीर्घः।। इति तृतीयकाव्यार्थः ॥३॥
અર્થ :- જેમના પગ મૂકવાના આસનની પણ દેવોએ પૂજા કરેલી છે એવા હે જિનેન્દ્ર ! લજ્જારહિત એવો હું બુદ્ધિ વિના પણ સ્તવન કરવા માટે સજ્જ મતિ (તૈયાર) થયો છું ! ખરેખર, પાણીમાં પડેલા ચન્દ્રના પ્રતિબિંબને એકદમ ગ્રહણ કરવા માટે બાળકને છોડીને બીજો ક્યો માણસ ઇચ્છે?
अथ पूर्वोक्तमेव भङ्गयन्तरेण समर्थयति - __वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान्
कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या? । कल्पान्तकालपवनोद्धतनक्रचक्रं __ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्?॥४॥
दण्डान्वयः - हे गुणसमुद्र ! बुद्ध्या सुरगुरुप्रतिमः अपि कः शशाङ्ककान्तान् ते गुणान् वक्तुम् क्षमः?, वा कः भुजाभ्याम् कल्पान्तकालपवनोद्धतनक्रचक्रम् अम्बुनिधिम् तरीतुम् अलम्। __हे गुणसमुद्र ! ते-तव गुणान् वक्तुं कः पुरुषः क्षमः स्यात्? इत्यन्वयः।
क्षमः-समर्थो भवेत् इत्यर्थः। ___ 'स्यात्' इति क्रियापदम्। कः कर्ताः? 'कः' पुरुषः। किं कर्तुम्? 'वक्तुं' वाङ्मात्रेण पठितुम्। कान् कर्मतापन्नान्? "गुणान्'। कस्य? 'ते' तव। कथंभूतान् तान् गुणान्? 'शशाङ्ककान्तान्' चन्द्रवन्मनोहरान्। कथंभूतः कः
न
७
0