________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
पुरुषः? 'बुद्ध्या सुरगुरुप्रतिमः' बृहस्पतिप्रतिबिम्बः। कथमपि।
अत्राप्यर्थान्तरं न्यस्यति - वा - अथवा अम्बुनिधिं भुजाभ्यां तरीतुं कः पुरुषः अलं-समर्थः स्यात्? इत्यन्वयः । ‘स्यात्' इति क्रियापदम्। कः कर्ता ? 'कः' पुरुषः। कथंभूतः कः 'अलं' समर्थः। किं कर्तुम्? 'तरीतुं' पारं प्राप्तुम्। कं कर्मतापन्नम्? 'अम्बुनिधिं' समुद्रम् । काभ्याम् ? 'भुजाभ्याम्' । कथंभूतं अम्बुनिधिम्? 'कल्पान्तकालपवनोद्धतनक्रचक्रं' युगान्तसमयवायुना उद्धताअत्यन्तभीषणा उच्छलन्तो नक्रा-मत्स्याः चक्राः - चक्राकारजीवविशेषा यस्मिन् स तथाभूतं, यद्वा नक्राणां चक्राणि-समूहा यस्मिन्नित्यपि योज्यम्।
यथा समुद्रो भुजाभ्यां तरीतुं दुष्करस्तथा तव गुणा अप्यपारत्वाद् वर्णयितुं दुःशकाः, अत एव गुणसमुद्र इति संबोधनं युक्तमिति भावः।। . अथ समासा : - गुणानां समुद्र इव समुद्रो गुणसमुद्रः, तत्संबोधनं हे गुणसमुद्र ! कर्मधारयः उपमितसमासः। शशः अङ्के-उत्सङ्गे यस्य स शशाङ्कः, कविप्रसिद्धिरियं, शशाङ्कवत् कान्ताः शशाङ्ककान्तास्तान्, मध्यपदलोपी समासः। सुराणां गुरुः सुरगुरुः, सुरगुरोः प्रतिमेव सुरगुरुप्रतिमः। कल्पस्य अन्तः कल्पान्तः, कल्पान्तश्चासौ कालश्च कल्पान्तकालः, कल्पान्तकालस्य पवनः कल्पान्तकालपवनः, कल्पान्तकालपवनेन उद्धताः कल्पान्तकालपवनोद्धताः, नक्राश्च चक्राश्च नक्रचक्राः कल्पान्तकालपवनोद्धता नक्रचक्रा यत्र स तम्। अलमित्यव्ययं सामर्थ्ये। अम्बूनि नितरां धीयन्ते अस्मिन्निति अम्बुनिधिस्तं, 'नाम्नश्च.'(सा. सू. ५३९) इति समासः। भुजाभ्यामित्यत्र करणे तृतीया। प्रवहणादिना अम्बुनिधिः सुतरः, न पुनर्भुजाभ्यां इत्यतिशयालंकारः। तरीतुमित्यत्र 'ईटो ग्रहाम्' (सा. सू. ८२१) इति दीर्घः।। इति चतुर्थ काव्यार्थः ।।४।।
અર્થ: હે ગુણ સમુદ્ર!ચન્દ્ર જેવા ઉજ્જવલ આપના ગુણોને બુદ્ધિ વડે બૃહસ્પતિ જેવો પણ બોલવા માટે કોણ સમર્થ થાય? અથવા કલ્પાન્તકાળના પવનથી ઉછળતા મગરના સમૂહવાળા સાગરને બે હાથ વડે તરવા માટે કોણ સમર્થ થાય?
* * * का ८ |