________________
॥ श्री भक्तामरस्तोत्रम् ॥
44
मनौ मित्रे भयौ भृत्या- वुदासीनौ जतौ स्मृतौ ।
>
रसावरी नीचसंज्ञौ द्वौ द्वावेतौ मनीषिभिः ॥ १ ॥ " - अनु० मित्रगणात् द्वितीये मित्रगणे चापरमिति, तथा उदासीनाद् भृत्यगणे द्वितीये परे सति शुभजयश्च, अन्येषु सर्वगणयोगेषु न शुभमित्युक्तत्वात्, वर्णशुद्धावपि भामटवचनाद् भकारस्य संयुक्तस्यैव निषेधेन केवलस्य भगवद्वाचकत्वाच्च न दोषः, अयं च विमर्शो वृत्तरत्नाकरवृत्तौ नारायणभट्टकृतायां बोध्यः । तथा मरेत्यपशब्दे दोषो न चिन्त्यः, आं इति मन्त्रबीजस्य आदावन्ते च काव्यस्य प्रक्षेपणेन स्तोत्रसंहितोद्भावनकारित्वात्, अ इत्यक्षरं चक्रेश्वरीमन्त्रबीजमित्याम्नायिका, अत एव रघुवंशादिकालिदासकृतौ एतद् बीजमेवाङ्कः । छन्दस्त्वत्र वसन्ततिलका। तल्लक्षणं च-" उक्ता वसन्ततिलका तभजा जगौ गः " ॥ इति काव्यद्वयार्थः ।। १-२॥
અર્થ :- ભક્ત એવા દેવોના નમેલા મુગુટના મણિઓની પ્રભાને પ્રકાશિત કરનાર, પાપરૂપી અંધકારના સમૂહનો નાશ કરનાર, ભવ સાગરમાં પડતા પ્રાણીઓના યુગની શરૂઆતમાં આધારભૂત એવા જિનેશ્વરના ચરણ યુગલને સારી રીતે નમીને, સર્વશાસ્ત્રોના રહસ્યનો બોધ થવાથી ઉત્પન્ન થયેલ બુદ્ધિની પટુતાવાળા ઇન્દ્રો દ્વારા ત્રણે જગતના ચિત્તને આકર્ષિત કરનારા, ઉદાર સ્તોત્રો વડે જે જિનેશ્વર સ્તુતિ કરાયા છે તે પ્રથમ જિનેન્દ્રને (શ્રી ઋષભદેવને) હું પણ જરૂર स्तवीश.
***
अथ कविना किलेति संभावनाविधानेन जिनस्तवनकरणेऽसामर्थ्यं व्यञ्जितं तर्हि कथं स्तुतौ प्रवृत्त इत्याह -
,
बुद्ध्या विनाऽपि विबुधार्चितपादपीठ ! स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्बमन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ ३ ॥
५