SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥श्री मानतुगसूरिविरचितम् ॥ __इह हि भगवान् श्रीमानतुङ्गसूरिः श्रीमज्जिनशासनसू(भू)रिप्रभावनाभावनयाऽनेकलोकानैहिकामुष्मिकदुःखेभ्यो रिरक्षिषुः सप्रभावं श्रीप्रथमप्रभुस्तोत्रं कुर्वन् प्रथमं मङ्गलार्थमाह-भक्तामरप्रणतेति, (यः संस्तुतेति) युग्मम्। ___अनयोः संहितादिक्रमेण सुखावबोधाय व्याख्या -- ___ “किल' इति संभावनायाम्। अहमपि तं प्रथमं जिनेन्द्रं स्तोष्ये' इत्यन्वयः। कर्तरि उक्तिः । 'अहं' मानतुङ्गनामा आचार्यः, 'अपि' इति असामर्थ्य द्योतने, "तं प्रथमं जिनेन्द्रं' वृषभजिनं 'स्तोष्ये' स्तवनविषयीकरिष्य इत्यर्थः। असमर्थस्य तादृक्प्रभोः स्तवनकरणे उद्यममात्रमेव, न तु सामर्थ्यम्, तेन स्तवनं भविष्यति न वेति हीनकोटिसंशयस्वरूपा सम्भावना भाव्या ।। ___'स्तोष्ये' इति क्रियापदम्। कः कर्ता? 'अहम्'। कं कर्मतापन्नम्? 'तं जिनेन्द्रं'। किंविशिष्टम्? 'प्रथमम्'। तच्छब्दो यच्छब्दमपेक्षते। तं कम्? 'यः सुरलोकनाथैः संस्तुतः' यो भगवान् इन्द्रैः स्तुतिविषयीकृत इत्यर्थः । देवाधिदेव इति भावः। ___ 'संस्तुतः' इति क्रियापदम्। कैः कर्तृभिः? 'सुरलोकनाथैः'। कः कर्मता पन्नः? 'यः'। कर्मणि उक्तिः । कैः करणैः? 'स्तोत्रैः'। किंविशिष्टैः? 'जगत्त्रितयचित्तहरैः' आधारे आधेयस्य ग्रामश्चलित इत्यादिवदुपचारात् जगत्त्रितयस्थजीवानां चित्तस्य-मनसः अभिरञ्जकैः। पुनः किं.? 'उदारैः' प्रधानैः विविधार्थयुक्तैः। किंविशिष्टैः सुरलोकनाथैः? उद्भूतबुद्धिपटुभिः'। कस्मात्? 'सकलवाङ्मयतत्त्वबोधात्' सर्वशास्त्राणां तत्त्वं-रहस्यं भावार्थः तस्य ज्ञानात् प्रादुर्भूता या बुद्धिस्तया पटवो-विदग्धा इत्यर्थः। "विज्ञवैज्ञानिकाः पटुः छेको विदग्धेइति हैमकोषः (का. ३, श्लो. ७)। किं कृत्वा स्तोष्ये? 'प्रणम्य' भक्तिश्रद्धातिशयलक्षणः प्रकर्षस्तेन नत्वा। कथम्? 'सम्यक्’ मनोवाक्कायोचितप्रकारेण। क्रियाविशेषणमेतत्। किं कर्मतापन्नम्? 'जिनपादयुगं' जिनस्य अत्र प्रस्तुतत्वात् प्रथमार्हतश्चरणयुगलं, श्री सिद्धाचले राजादनतरोस्तले स्थापनारूपं तदिति सम्प्रदायः । किंविशिष्टं जिनपादयुगम्? 'भक्तामरप्रणतमौलिमणिप्रभाणां उद्द्योतकं' भक्ता-भक्तिभाजो का २
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy