________________
॥ श्री ऋषभनाथाय नमः ॥
॥श्री मानदेवसूरिगुरुभ्यो नमः ॥ ॥ श्री आत्मकमल-वीर-दान-प्रेम-रामचन्द्रसूरिगुरुभ्यो नमः ।।
श्रीमन्मानतुङ्गसूरिवर्यविरचितं महोपाध्यायश्रीमेघविजयकृतवृत्तिविभूषितम्
॥भक्तामरस्तोत्रम् ॥ अथ कविराद्यवृत्तद्वयेन सम्बन्धमाह - भक्तामरप्रणतमौलिमणिप्रभाणा
मुद्द्योतकं दलितपापतमोवितानम्। सम्यक् प्रणम्य जिनपादयुगं युगादावालम्बनं भवजले पततां जनानाम्॥
- वसन्ततिलका यः संस्तुतः सकलवाङ्मयतत्त्वबोधा
दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः। स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ १-२॥
-युग्मम् ___ दण्डान्वय :- भक्तामरप्रणतमौलिमणिप्रभाणाम् उद्द्योतकं दलितपापतमोवितानम् भवजले पतताम् जनानाम् युगादौ आलम्बनम् जिनपादयुगम् सम्यक् प्रणम्य सकलवाङ्मयतत्त्वबोधात् उद्भूतबुद्धिपटुभिः सुरलोकनाथैः जगत्रितयचित्तहरैः उदारैः स्तोत्रैः यः संस्तुतः तम् प्रथमम् जिनेन्द्रम् किल अहम् अपि स्तोष्ये ॥१-२॥
श्रीशद्वेश्वरपार्श्व, नत्वा भक्तामर(स्तव)स्यार्थम् । श्रीविजयप्रभसूरे-लिखामि वचनात् सुशिष्यार्थम् ॥१॥ - आर्या
का १
का