SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ॥ श्री भक्तामरस्तोत्रम् ॥ ये अमरा-देवास्तेषां प्रणता-विनयेन अवनता ये मौलयः-शिरो मुकुटानि तेषु मणयः-चन्द्रकान्ताद्याः सामान्येन रत्नानि च तेषां प्रभाःकान्तयः तासां उद्दीप(द्योत)कं उद्द्योतकारकम्। यथा सूर्यकिरणैः सूर्यकान्ततेजांसि प्रोद्भाव्यन्ते तथा जिनपादयुगं प्रकाशकं मणिप्रभाणाम्, ततोऽधिकतेजस्त्वमत्र व्यङ्ग्यम्। पुनः किं? 'दलितपापतमोवितानम्' क्षिप्तपापरूपान्धकारजालम्। पुनः किं? 'आलम्बनं' अवष्टम्भरूपम् । केषाम्? ‘जनानां' लोकानाम्। किं कुर्वतां जनानाम्? 'पततां' बुडताम्। क्व? 'भवजले' संसाररूपे जले, दुस्तरत्वात्, लक्षणया जलधौ। आलम्बनं, कस्मिन् काले? 'युगादौ' एतदवसर्पिणीतृतीयारकपर्यन्ते, चतुर्थारकस्यादौ इति।। अथ समासाः - भक्ताश्च ते अमराश्च भक्तामराः पुंलिङ्गकर्मधारयः, प्रणताश्च ते मौलयश्च प्रणतमौलयः कर्मधारयः, भक्तामराणां प्रणतमौलयः भक्तामरप्रणतमौलयः षष्ठीतत्पुरुषः, भक्तामरप्रणतमौलिषु मणयः भक्तामरप्रणतमौलिमणयः सप्तमीतत्पुरुषः, भक्तामरप्रणतमौलिमणीनां प्रभाः भक्तामरप्रणतमौलिमणिप्रभाः षष्ठीतत्पुरुषः, तासां भक्तामरप्रणतमौलिमणिप्रभाणाम्। उद्योतयतीति उद्द्योतकम्। पापान्येव तमांसि पापतमांसि, 'समासश्चान्वये नाम्नाम्' (सा. सू. ४६६) इति समासः, रूपी तत्पुरुषोऽयमिति प्रसिद्धिः, तमांसीव तमांसि, पापानि च तानि तमांसि पापतमांसि, 'उपमेयं व्याघाद्यैः० (अ. ३, पा. १, सू. १०२) इति हैमवचनात् उपमितसमास इति वृद्धाः, पापतमसां वितानं पापतमोवितानं, षष्ठीतत्पुरुषः, दलितं पापतमोवितानं येन तत्, पुनर्द्वितीयाज्ञापनाय तदिति वक्तव्यं, तृतीयाबहुव्रीहिः। सम्-सम्यग् अञ्चतीति सम्यक्, 'सम्’ इत्यव्ययस्य 'सहादेः (सा० सू० ५०६) इति सूत्रेण समित्यादेशः। प्रकर्षेण नत्वा प्रणम्य, 'समासे क्यप्' (सा० सू० १४८३), 'क्त्वाद्यन्तं च' (सा० सू० ३५८) इत्यव्ययत्वाद् विभक्तिलोपः। जयति रागादीन् जिनः, पादयोर्युगं - पादयुगं षष्ठीतत्पुरुषः, जिनस्य पादयुगं जिनपादयुगं षष्ठीतत्पुरुषः, कर्मणि द्वितीया। युगस्य आदिः युगादिः, तस्मिन् युगादौ। आलम्बयतीति आलम्बनम्। बहुलत्वात् साधुः। भव एव जलं भवजलं, तस्मिन् भवजले, 'समासञ्च.(सा० सू० ४६६) इति समासः। पतन्तीति पतन्तस्तेषाम्। संस्तूयते स्म संस्तुतः। सह मा ३ व
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy