________________
॥ श्री मानतुङ्गसूरिविरचितम् ॥
मनवपङ्कजपुञ्जकान्त्या पर्युल्लसन्नखमयूखशिखाः उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाः 'तत्पुरुषः', उन्निद्र हेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरभिरामौ उन्निद्र हेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ 'तत्पुरुषः । इति द्वात्रिंशत्तमवृत्तार्थः ॥ ३२ ॥
अथ संक्षिपति - इत्थमित्यादि
***
व्याख्या हे 'जिनेन्द्र !' जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं ‘तत्पुरुषः’। इत्थं पूर्वोक्तप्रकारेण यथा धर्मोपदेशनविधौ-धर्मव्याख्याक्षणे, धर्मस्योपदेशनं धर्मोपदेशनं 'तत्पुरुषः ', धर्मोपदेशनस्य विधिर्धर्मोपदेशनविधिस्तस्मिन् 'तत्पुरुषः ', तव विभूतिः - अतिशयरूपा समृद्धिरभूत्जाता तद्वत् अपरस्य - ब्रह्मादिसुरस्य नाभूत् । अत्र दृष्टान्तमाह दिनकृतः सूर्यस्य, दिनं करोतीति दिनकृत् तस्य 'तत्पुरुषः', प्रहतान्धकाराध्वस्तध्वान्ता, प्रहतमन्धकारं यया सा प्रहतान्धकारा 'बहुव्रीहिः', यादृग् - यादृशी प्रभा - द्युतिर्वर्तते 'विकाशिनोऽपि' विकाशोऽस्यास्तीति विकाशी तस्य उदितोद्योतस्यापि 'ग्रहगणस्य' ग्रहाणां गणो ग्रहगणस्तस्य 'तत्पुरुषः', भौमादेस्तादृक्-तादृशी प्रभा कुतः कस्माद् भवति ? । अपि तु नैव । इति त्रयस्त्रिंशत्तमवृत्तार्थः ॥ ३३ ॥
* * *
W
अथ गजभयहरं जिनं स्तौति – श्च्योतन्मदेत्यादि
-
व्याख्या - हे गजपतिगते ! भवदाश्रितानां - त्वच्चरणस्थितानां भवन्तमाश्रिता भवदाश्रितास्तेषां 'तत्पुरुषः', एवंविधानां नराणामिति शेषः, भयं-भीतिर्नो भवति न स्यात् । किं कृत्वा ? 'दृष्ट्वा' वीक्ष्य। कं कर्मतापन्नम् ? | 'इभं' गजम्। किंभूतमिभम् ? 'ऐरावताभं' महाकायत्वा
-
९४