SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ॥श्री भक्तामरस्तोत्रम् ॥ दैरावणसमम्। ऐरावतवदाभा यस्य स एरावताभस्तं ‘बहुव्रीहिः'। पुनः किंलक्षणमिभम्? 'उद्धतम्' अविनीतम्। इभं किं कुर्वन्तम्? 'आपतन्तं सन्मुखमागच्छन्तम्। पुनः किंलक्षणमिभम्? 'थ्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भमरनादविवृद्धकोपं' गण्डौ नेत्रे करो मेद् गुदमिति सप्तसु स्थानेषु श्च्योतता-क्षरता मदेनाविलाः कलुषा विलोलाः चञ्चलाः कपोलमूले-गण्डप्रदेशे मत्ता:-क्षीबाः सन्तो 'मतवाला' इति लोकप्रसिद्धिः (द्धाः?) (भ्रमन्तः-) भ्रमणशीला ये भ्रमरास्तेषां नादेनकठोरध्वनिना विवृद्ध:- पुष्टिं गतः कोपः क्रोधो यस्य स तम्। श्योतंश्चासौ मदश्च श्श्योतन्मदः ‘कर्मधारयः', श्योतन्मदेनाविलाः श्योतन्मदाविलाः 'तत्पुरुषः', कपोलयोर्मूले कपोलमूले 'तत्पुरुषः', कपोलमूलयोर्मत्ताः कपोलमूलमत्ताः 'तत्पुरुषः', भ्रमन्तश्च ते भ्रमराश्च भ्रमद्भमराः 'कर्मधारयः', कपोलमूलमत्ताश्च ते भ्रमद्धराश्च कपोलमूलमत्तभ्रमद्धमराः 'कर्मधारयः', विलोलाश्च ते कपोलमूलमत्तभ्रमभ्रमराश्च विलोलकपोलमूलमत्तभ्रमद्भमराः 'कर्मधारयः', श्योतन्मदाविलाश्च ते विलोलकपोलमूलमत्तभ्रमभ्रमराश्च श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमराः 'कर्मधारयः', श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भमराणां नादः श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भमरनादः 'तत्पुरुषः', थ्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादेन विवृद्धः श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्ध ः 'तत्पुरुषः', श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धः कोपो यस्य सः श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भमरनादविवृद्धकोपस्तं 'बहुव्रीहिः'। इति चतुस्त्रिंशत्तमवृत्तार्थः ॥३४॥ अथ सिंहभयहरं जिनं स्तौति - भिन्नेभेत्यादि व्याख्या - हे पुरुषसिंह ! ‘हरिणाधिपोऽपि' हरिणानामधिपो हरिणा का ९५ |
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy