________________
॥श्री भक्तामरस्तोत्रम् ।।
रचनाविशेषेण विवृद्धा-वृद्धि प्राप्ता शोभा-प्रभा यस्य तत्। छत्रत्रयं किं कुर्वत्?. 'प्रख्यापयत्' निवेदयत्। किं कर्मतापन्नम्? 'परमेश्वरत्वं' प्रकृष्टप्रभुत्वम्। परमश्चासावीश्वरश्च परमेश्वरः ‘कर्मधारयः', परमेश्वरस्य भावः परमेश्वरत्वं तत्। कस्य? 'त्रिजगतः' त्रिभुवनस्य। त्रयाणां जगतां समाहारस्त्रिजगत् तस्य 'द्विगुः'। इत्येकत्रिंशत्तमवृत्तार्थः।।३१।।
* * * अथातिशयद्वारेण जिनं स्तौति - उन्निद्रेत्यादि ___ व्याख्या - हे 'जिनेन्द्र !' जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः'। तव भवतः पादौ-चरणौ यत्र भूमौ पदानि-गमने अवस्थानरूपाणि धत्ते-बिभ्रते। 'डु धाञ् धारणपोषणयोः' (पा. धा. १०९२) इति धातुः। तत्र-धरापीठे विबुधा-देवाः पद्मानि-कमलानि परिकल्पयन्तिनिर्मापयन्तीत्यर्थः । कथंभूतौ पादौ? 'उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ' उन्निद्राणि-विकस्वराणि हेम्नः - सुवर्णस्य नवानि-नूतनानि नवसंख्याकानि वा पङ्कजानि-कमलानि तेषां पुञ्जःसमूहस्तस्य कान्तिः- द्युतिस्तया पर्युल्लसन्ती-समन्तादुल्लसन्ती या नखानां मयूखशिखाः- किरणचूलास्ताभिरभिरामौ-रुचिरौ। नवानि च तानि पङ्कजानि च नवपङ्कजानि ‘कर्मधारयः', हेम्नो नवपङ्कजानि हेमनवपङ्कजानि 'तत्पुरुषः', उन्निद्राणि च तानि हेमनवपङ्कजानि च उन्निद्रहेमनवपङ्कजानि 'कर्मधारयः', उन्निद्रहेमनवपङ्कजानां पुञ्जः उन्निद्रहेमनवपङ्कजपुञ्जः 'तत्पुरुषः', उन्निद्रहेमनवपङ्कजपुञ्जस्य कान्तिरुन्निद्रहेमनवपङ्कजपुञ्जकान्तिः ‘तत्पुरुषः', नखानां मयूखा नटायूखाः ‘तत्पुरुषः', नखमयूखानां शिखा नखमयूखशिखाः 'तत्पुरुषः', पर्युल्लसन्तश्च ता नखमयूखशिखाश्च पर्युल्लसन्नखमयूखशिखाः ‘कर्मधारयः', उन्निद्रहे
का ९३ ]