SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ।। मेरोः शातकौम्भं, शातकुम्भस्येदं शातकौम्भं-सौवर्णं तटं -शिखरं विभ्राजते। कथम्? 'उच्चैः' अतिशयेन । पुनः किंलक्षणं तटम्? 'उद्यच्छशाङ्कशुचिनिझरवारिधारम्'। निर्झराणां वारीणि निर्झरवारीणि 'तत्पुरुषः', निर्झरवारीणां धारा निर्झरवारिधाराः 'तत्पुरुषः', शशोङ्के यस्य स शशाङ्कः ‘बहुव्रीहिः', उद्यच्चासौ शशाङ्कश्चोद्यच्छशाङ्कः, ‘कर्मधारयः', उद्यच्छशाङ्कवत् शुचयः उद्यच्छशाङ्कशुचयः उद्यच्छशाङ्कशुचयो निर्झरवारिधारा यत्र तद् ‘बहुव्रीहिः'। उद्यत्-उद्गच्छन् यः शशाङ्कः-चन्द्रस्तद्वत् शुचयो-धवला निर्झरवारिधारा-निर्झरजलधारा यत्र। अत्र मेरुतटसमं श्रीनाभेयशरीरं, निर्झरजलधारासमा चामरश्रेणिः। इति त्रिंशत्तमवृत्तार्थः।।३०॥ * * * छत्रेत्यादि व्याख्या - हे पवित्रचारित्र ! तव-भवतः छत्रत्रयं, छत्राणां त्रयं छत्रत्रयं 'तत्पुरुषः' आतपवारणत्रितयं विभाति-चकास्ते। छत्रत्रयं किंलक्षणम्? 'शशाङ्ककान्तं' चन्द्रमनोहरम्। शशोऽङ्के यस्य स शशाङ्कः 'बहुव्रीहिः', शशाङ्कवत् कान्तं शशाङ्ककान्तं 'तत्पुरुषः'। छत्रत्रयं पुनः किंलक्षणम्? 'स्थितं' निविष्टम्। कथम्? 'उच्चैः' ऊवं, मुर्जि स्थितमित्यर्थः। छत्रत्रयं पुनः किंलक्षणम्? 'स्थगितभानुकरप्रतापम्' आच्छादितसूर्यकरानुभावम्। भानोः करा भानुकराः 'तत्पुरुषः', भानुकराणां प्रतापो भानुकरप्रतापः 'तत्पुरुषः', स्थगितो भानुकरप्रतापो येन तद् ‘बहुव्रीहिः'। पुनः किंविशिष्टं छत्रत्रयम्? 'मुक्ताफलप्रकरजालविवृद्धशोभम्'। मुक्ताफलानां प्रकरो मुक्ताफलप्रकरः 'तत्पुरुषः', मुक्ताफलप्रकरस्य जालं मुक्ताफलप्रकरजालं 'तत्पुरुषः' मुक्ताफलप्रकरजालेन विवृद्धा मुक्ताफ लप्रकरजालविवृद्धाः 'तत्पुरुषः', मुक्ताफलप्रकरजालविवृद्धा शोभा यस्य तद् ‘बहुव्रीहिः'। मुक्ताफलप्रकरस्य-मुक्ताफलसमूहस्य जालेन मग ९२ ना - -
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy