________________
॥श्री भक्तामरस्तोत्रम् ।।
शिखाः 'तत्पुरुषः', मणिमयूखशिखाभिर्विचित्रं तस्मिन् “तत्पुरुषः'। दृष्टान्तमाह इव-यथा सहस्ररश्मेः, सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तस्य ‘बहुव्रीहिः' सूर्यस्य बिम्बं मण्डलं विभ्राजते। कस्मिन्? “तुङ्गोदयाद्रिशिरसि' उन्नतपूर्वाचलशृङ्गे। उदयस्य अद्रिः उदयाद्रिः 'तत्पुरुषः', तुङ्गश्चासावुदयाद्रिश्च तुङ्गोदयाद्रिः ‘कर्मधारयः', तुङ्गोदयाद्रेः शिरः तुङ्गोदयाद्रिशिरस्तस्मिन् 'तत्पुरुषः'। बिम्बं कथंभूतम्? 'वियद्विलसदंशुलतावितानं' वियति-आकाशे विलसन्तो-द्योतमाना येऽशवःकरास्त एव लतावितानं-वल्लिविस्तारो यस्य तद्। विलसन्तश्चं तेंऽशवश्च विलसदंशवः ‘कर्मधारयः', लतानां वितानं लतावितानं 'तत्पुरुषः', विलसदंशव एव लतावितानं विलसदंशुलतावितानं 'कर्मधारयः', वियति विलसदंशुलतावितानं यस्य तद् ‘बहुव्रीहिः'। इत्येकोनत्रिंशत्तमवृत्तार्थः ॥२९॥
* * * कुन्देत्यादि ___ व्याख्या - हे पारगत ! तव-भवतो वपुः-शरीरं विभ्राजते-चकास्ते। वपुः किंलक्षणम्? 'कलधौतकान्तं' चामीकररुचिरम्। कलधौतवत् कान्तं कलधौतकान्तं तत्पुरुषः'। पुनः किंविशिष्टं वपुः? 'कुन्दावदातचलचामरचारुशोभम्। चलानि च तानि चामराणि च चलचामराणि 'कर्मधारयः', कुन्दवदवदातानि कुन्दावदातानि ‘कर्मधारयः', कुन्दावदातानि च तानि चलचामराणि च कुन्दावदातचलचामराणि “कर्मधारयः', कुन्दावदातचलचामरैश्चार्वी कुन्दावदातचलचामरचार्वी 'तत्पुरुषः', कुन्दावदातचलचामरचार्वी शोभा यस्य तद् ‘बहुव्रीहिः'। कुन्दावदातानि-कुन्दवद् विशदानि चलचामराणि-चपलवालव्यजनानि तैः चारुशोभं-मनोज्ञशोभम्। दृष्टान्तमाह-इव-यथा सुरगिरेः, सुराणां गिरिः सुरगिरिस्तस्य 'तत्पुरुषः'
ना ९१