________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
अथ वृत्तचतुष्टयेन प्रातिहार्यचतुष्कमाह -- उच्चैरशोकेत्यादि __व्याख्या - हे सेवकजनकल्पवृक्ष ! भवतः-तव रूपमाभाति-शोभते। कथम्? 'उच्चैः' अतिशयेन। रूपं किंलक्षणम्? 'अशोकतरुसंश्रितम्'। न विद्यते शोको यत्र सोऽशोकः ‘बहुव्रीहिः', अशोकश्चासौ तरुश्चाशोकतरुः ‘कर्मधारयः', अशोकतरौ संश्रितं अशोकतरुसंश्रितं 'तत्पुरुषः'। पुनः किंलक्षणं रूपम्? 'उन्मयूखम्'। (उद्-) ऊर्ध्वं मयूखा- किरणा यस्य तद् ‘बहुव्रीहिः'। रूपं किंभूतम्? 'अमलं' निर्मलं मलस्वेदादिरहितम्। न विद्यते मलो यत्र तदमलं 'बहुव्रीहिः'। कथम्? 'नितान्तं' निरन्तरम्। दृष्टान्तमाह-इव यथा रवेः-सूर्यस्य बिम्ब-मण्डलमाभाति। बिम्बं किंलक्षणम्? “पयोधरपार्श्ववर्ति' मेघसमीपस्थम्। पयो धरतीति पयोधरः 'तत्पुरुषः', पयोधरस्य पार्श्व 'तत्पुरुषः', पयोधरपार्श्व वर्तते इत्येवंशीलं पयोधरपार्श्ववर्ति 'तत्पुरुषः। बिम्बं कथंभूतम्? 'स्पष्टोल्लसत्किरणं' प्रकटोद्यत्प्रभम्। उल्लसन्तश्च ते किरणाश्च उल्लसत्किरणाः ‘कर्मधारयः', स्पष्टा उल्लसत्किरणा यस्मिन् तद् ‘बहुव्रीहिः'। बिम्बं किंलक्षणम्? 'अस्ततमोवितानं' ध्वस्तान्धकारप्रकरम्। तमसो वितानं तमोवितानं 'तत्पुरुषः', ध्वस्तं तमोवितानं येन तद् ‘बहुव्रीहिः'। सूरमण्डलसमानं भगवद्रूपं, मेघतुल्यो नीलदलोऽशोकः। इत्यष्टाविंशतितमवृत्तार्थः ॥२८।।
* * * सिंहेत्यादि
व्याख्या - हे तीर्थनाथ ! तव-भवतो वपुः-देहो विभ्राजते-शोभते। वपुः किंलक्षणम्? 'कनकावदातं', कनकवदवदातं कनकावदातं 'तत्पुरुषः', हेमगौरम्। कस्मिन्? 'सिंहासने' सुवर्णनिष्पन्नासने। सिंहासने किंविशिष्टे? 'मणिमयूखशिखाविचित्रे' रत्नकान्तिचूलाचारुणि। मणीनां मयूखाः मणिमयूखाः 'तत्पुरुषः', मणिमयूखानां शिखाः मणिमयूख
ना ९०