________________
॥श्री भक्तामरस्तोत्रम् ॥
“परमेश्वराय'। परमश्चासावीश्वरश्च परमेश्वरः तस्मै ‘कर्मधारयः'। कस्य? 'त्रिजगतः'। त्रयाणां जगतां समाहारस्त्रिजगत् तस्य 'द्विगुः'। त्रैलोक्यप्रकृष्टनाथायेत्यर्थः। हे जिन ! तुभ्यं नमोऽस्तु। तुभ्यं किंलक्षणाय? 'भवोदधिशोषणाय' भव एवोदधिर्भवोदधिः ‘कर्मधारयः', भवोदधेः शोषणं यस्मिन् स भवोदधिशोषणस्तस्मै ‘बहुव्रीहिः'। संसारसागरसन्तापनाय। इति षड्विंशतितमवृत्तार्थः ॥२६॥
पुनर्युक्त्या गुणान् स्तौति - को विस्मयोऽत्रेत्यादि ___ व्याख्या - हे 'मुनीश !' मुनीनां ईशो मुनीशस्तस्य सम्बोधनं 'तत्पुरुषः'। नामेति कोमलामन्त्रणे। यदि निरवकाशतया-सर्वाङ्गव्यापक तया, निर्गतोऽवकाशो यस्मादिति निरवकाशः ('बहुव्रीहिः'), निरवकाशस्य भावो निरवकाशता तया, अशेषैः-सर्वैः, न विद्यते शेषो येषु ते अशेषास्तैः ‘बहुव्रीहिः', गुणैस्त्वं संश्रितः-आश्रितः । अत्रार्थे को विस्मयः? किं कौतुकमस्ति? अन्यच्च दोषैः- दूषणैः स्वप्नान्तरेऽपि -स्वप्नावस्थायामपि। एकस्मात् स्वप्नादन्यः स्वप्नः स्वप्नान्तरं तस्मिन् 'तत्पुरुषः', कदाचिदपि-कस्मिंश्चिदपि क्षणे नेक्षितोऽसि-न विलोकितोऽसि। अत्रापि को विस्मयः? - किमाश्चर्यम्?। यतो गरुडदर्शनाद् भुजगा इव सूर्येक्षणात् तमश्चया इव दूरे नश्यन्ति, तथा त्वत्तो दोषा नेशुः। किंभूतैर्दोषैः? ‘उपात्तविविधाश्रयजातगर्वैः' विविधाश्च ते आश्रयाश्च विविधाश्रयाः, उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः उभयत्र “कर्मधारयः', उपात्तविविधाश्रयैर्जातः उपात्तविविधाश्रयजातः ('तत्पुरुषः'), उपात्तविविधाश्रयजायतो गर्वो येषां ते उपात्तविविधाश्रयजातगस्तैिः 'बहुव्रीहिः'। उपात्ताः- प्राप्ता ये विविधा-नानारूपा आश्रया-निलयास्तैर्जात-उत्पन्नो गर्वो येषां तें तैः। वयं सर्वजनप्रियाः, गुणास्तु स्तोकजनाश्रया एवेति रूपो दर्पो येषाम्। इति सप्तविंशतितमवृत्तार्थः ॥२७॥
न ८९