________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
इदानीं बुद्धमहेशविधातृविष्णुरूपपुरुषचतुष्टयस्वरूपं भगवतोऽवदर्शयति बुद्धेत्यादि
व्याख्या - हे 'विबुधार्चित !' हे शक्रमहित !। विबुधैरर्चितो विबुधार्चितस्तस्य सम्बोधनं 'तत्पुरुषः'। त्वमेव बुद्धोऽसि। कस्मात्? पदार्थेषु 'बुद्धिबोधात्' मतिप्रकाशात्। बुद्धेर्बोधो बुद्धिबोधस्तस्मात् 'तत्पुरुषः'। 'त्वं शङ्करोऽसि' शिवो भवसि। शं करोतीति शङ्करः ‘तत्पुरुषः'। कस्मात्? 'भुवनत्रयशङ्करत्वात्' जगत्रयसुखोत्पादकत्वात्। भुवनानां त्रयं भुवनत्रयं 'तत्पुरुषः', शङ्करस्य भावः शङ्करत्वं, भुवनत्रयस्य शङ्करत्वं भुवनत्रयशङ्करत्वं तस्मात् 'तत्पुरुषः'। हे धीर! त्वं धाताऽसि-स्रष्टा भवसि। कस्मात्? 'विधानात्' निष्पादनात् । कस्य? 'शिवमार्गविधे:' मोक्षमार्गविधेः। शिवस्य मार्ग: शिवमार्गः 'तत्पुरुषः', शिवमार्गस्य विधिः शिवमार्गविधिस्तस्य तत्पुरुषः हे ! भगवन् ! व्यक्तं-प्रकटं त्वमेव पुरुषोत्तमोऽसि-पुरुषोत्कृष्टो भवसि। पुरुषेषूत्तमः पुरुषोत्तमः 'तत्पुरुषः' इति पञ्चविंशतितमवृत्तार्थः ॥२५॥
* * * तुभ्यमित्यादि
व्याख्या - हे नाथ ! तुभ्यं - भवते नमोऽस्तु । तुभ्यं किंभूताय? 'त्रिभुवनार्तिहराय' विश्वत्रयीपीडानाशकाय। त्रयाणां भुवनानां समाहारस्त्रिभुवनं 'द्विगुः' त्रिभुवनस्य आति: त्रिभुवनार्ति: 'तत्पुरुषः', त्रिभुवनार्ति हरतीति त्रिभुवनार्तिहरस्तस्मै ‘तत्पुरुषः'। तुभ्यं कथंभूताय? 'क्षितितलामलभूषणाय' क्षितितलस्य-भूपीठस्यामल-भूषणाय - निर्मलालङ्काराय। क्षितेस्तलं क्षितितलं 'तत्पुरुषः', न विद्यते मलो यत्र तदमलं ('बहुव्रीहिः'), अमलं च तद् भूषणं चामलभूषणं ‘कर्मधारयः', क्षितितलस्यामलभूषणं क्षितितलामलभूषणं तस्मै ‘तत्पुरुषः'। तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय?
न ८८