________________
॥श्री भक्तामरस्तोत्रम् ॥
-
राहुवदनं तस्य 'तत्पुरुषः'। दुर्वादिवादस्यागोचरमित्यर्थः। तथा मुखाब्जमपूर्व० (किंभूतम्?) 'वारिदानां' वारि ददतीति वारिदास्तेषां 'तत्पुरुषः', मेघवद् दुष्टाष्टकर्मणां न गम्यं न वशम्। तानि जिनमुखेक्षणात् क्षयं यान्ति। चन्द्रबिम्बं राहोर्मेघानां च गम्यं स्यात् इति। पुनः किंभूतं मुखाब्जमपूर्व०? 'अनल्पकान्ति' गुरुतरद्युति। न अल्पा अनल्पा 'तत्पुरुषः', अनल्पा कान्तिर्यस्य तद् ‘बहुव्रीहिः'। कृष्णपक्षे क्षीणतेजस्तस्मादल्पप्रभं चन्द्रबिम्बम्। मुखाब्जमपूर्व० किं कुर्वत्? 'विद्योतयत्' प्रकाश यत्। किं कर्मतापन्नम्? 'जगत्' विश्वम्। शशिबिम्बं तु खण्डेऽप्यसमर्थम्। अथ नित्यं-सदा उल्लसत् अयः - शुभभाग्यं यस्य तन्नित्योदयं 'बहुव्रीहिः', सदोल्लसच्छुभभागधेयमित्यर्थः। अतश्चन्द्रमण्डलादत्यद्भुतं भवद्वक्त्रम्। इत्यष्टादशवृत्तार्थः ।।१८।।
या
रात्रौ चन्द्रस्य दिवा रवेर्भगवतो मुखचन्द्रे सति निरर्थकत्वं वर्णयति -किमित्यादि
व्याख्या - हे नाथ ! शर्वरीषु - रजनीषु शशिना-चन्द्रेण, शशोऽस्यास्तीति शशी तेन ('तत्पुरुषः') वा- अथवा अह्नि-दिवसे विवस्वतासूर्येण किं कार्यं भवति? अपि तु न किमपि। केषु सत्सु? 'तमस्सु' अन्धकारेषु सत्सु। कथंभूतेषु तमस्सु? 'युष्मन्मुखेन्दुदलितेषु' भवद्वदनचन्द्रविनाशितेषु। मुखमेवेन्दुः मुखेन्दुः ‘कर्मधारयः', युष्माकं मुखेन्दुः युष्मन्मुखेन्दुः ‘तत्पुरुषः', युष्मन्मुखेन्दुना दलितानि युष्मन्मुखेन्दुदलितानि तेषु 'तत्पुरुषः'। अत्र दृष्टान्तमाह-'जीवलोके' भूपीठे। जीवानां लोको जीवलोकस्तस्मिन् 'तत्पुरुषः'। जीवलोके कथंभूते? 'निष्पन्नशालिवनशालिनि' निष्पनैः-पाकं प्राप्तैः शालिवनैः-कलमादिकेदारैः शालतेशोभते इत्येवंशीलस्तस्मिन्। शालीनां वनानि शालिवनानि ‘तत्पुरुषः',
का ८३ ला