________________
॥श्री मानतुङ्गसूरिविरचितम् ।
निष्पन्नानि च तानि शालिवनानि च निष्पन्नशालिवनानि 'कर्मधारयः', निष्पन्नशालिवनैः शालते इत्येवंशीलो निष्पन्नशालिवनशाली तस्मिन् 'तत्पुरुषः'। (जलधरैः किंभूतैः?) 'जलभारनप्रैः' सलिलभारनमनशीलैः। जलस्य भारो जलभार ः 'तत्पुरुषः', जलभारेण नम्राः जलभारनम्रास्तैः 'तत्पुरुषः'। एवंविधैर्जलधरैः - मेघैः, जलं धरन्तीति जलधरास्तैः 'तत्पुरुषः', कियत् कार्यं स्यात्? न किमपीत्यर्थः। यथा तृणवल्लीधान्यादिषु निष्पन्नेषु मेघाः केवलं क्लेशहेतुत्वान्निष्फला एव, तथा त्वन्मुखेन्दुना ध्वस्तदुरिततिमिरत्वात् शैत्यसन्तापपीडापहारित्वाच्च चन्द्रसूर्याभ्यां न कोऽप्यर्थः। आगमेऽप्येवो (वमु) क्तम्
'चंदाइच्चगहाणं, पहा पयासेइ परिमियं खित्तं । ___ केवलिअं पुण नाणं, लोआलोअं पयासेइ ॥१॥' - आर्या इत्येकोनविंशतितमवृत्तार्थः ॥१९॥
* * * अथ भगवद्ज्ञानेनान्यदेवान् क्षिपति - ज्ञानमित्यादि
व्याख्या - हे लोकालोकप्रकाश ! ज्ञानं यथा-येन प्रकारेण त्वयिभवति विभाति। ज्ञानं-यथावस्थितार्थपरिच्छेदको बोधः। 'विभाति' शोभते। ज्ञानं कीदृशम्? 'कृतावकाशं' कृतोऽवकाशो येन तत् कृतावकाशं 'बहुव्रीहिः', विहितप्रकाशं धर्माधर्मादीनां, नैवं (नैव) तथा-तेन प्रकारेण ज्ञानं विभाति। केषु? 'हरिहरादिषु' नारायणमहेशादिषु। हरिश्च हरश्च हरिहरौ 'द्वन्द्वः', हरिहरावादौ येषां ते हरिहरादयस्तेषु 'बहुव्रीहिः'। हरिहरादिषु किंभूतेषु? 'नायकेषु' लोकैर्देवत्वेन स्थापितेषु। अत्रार्थेऽर्थान्तरन्यासमाह - तेजोधाम यथा-येन प्रकारेण महत्त्वं - महिमानं यातिप्राप्नोति। केषु? 'स्फुरन्मणिषु' महारत्नेषु इन्द्रनीलादिषु। स्फुरन्तश्च ते मणयश्च स्फुरन्मणयस्तेषु ‘कर्मधारयः'। तथा च काचशकले-काचखण्डे,
ना ८४ |