________________
॥ श्री मानतुगसूरिविरचितम् ॥
राहुगम्यः, राहोर्गम्यो राहुगम्यः 'तत्पुरुषः' नासि। रविर्ग्रहणकाले राहुगम्यो भवति, न त्वम्। तथा त्वं सहसा - सद्यो युगपद्-एककालं जगन्ति-त्रीणि भुवनानि स्पष्टीकरोषि-प्रकाशयसि। अस्पष्टं स्पष्टं करोषीति स्पष्टीकरोषि। रविः पुनः भुवनैकदेशं क्रमेण प्रकाशयति। तथा त्वं अम्भोधरोदरनिरुद्धमहाप्रभावो नासि। अम्भोधरा-मेघास्तेषामुदरं-कुक्षिस्तेन निरुद्धः-अपनीतो महान् प्रभावः- प्रतापो यस्य सः। अम्भो धरन्तीत्यम्मोधराः 'तत्पुरुषः', अम्भोधराणां उदरं अम्भोधरोदरं 'तत्पुरुषः', अम्भोधरोदरेण निरुद्धोऽम्भोधरनिरुद्धः 'तत्पुरुषः', महांश्चासौ प्रभावश्च महाप्रभावः ‘कर्मधारयः', अम्भोधरोदरनिरुद्धो महाप्रभावो यस्य स “बहुव्रीहिः'। रविस्तद्विपरीतो भवति, अतः सूर्यातिशायिमहिमा त्वमसि। इति सप्तदशमवृत्तार्थः ॥१७॥
* * * अथेन्दोरुपमाननिरासमाह -नित्योदयमित्यादि
व्याख्या - हे देववृन्दवन्द्य ! तव मुखाब्जं-वदनकमलं, मुखमेवाब्जं मुखाब्जे ‘कर्मधारयः', अपूर्वशशाङ्कबिम्बं, शशोऽङ्के यस्य स शशाङ्क: 'बहुव्रीहिः', शशाङ्कस्य बिम्बं शशाङ्कबिम्बं 'तत्पुरुषः', अपूर्वं च तत् शशाङ्कबिम्बं चापूर्वशशाङ्कबिम्बं 'कर्मधारयः', तव मुखकमलेन्दुमण्डलं विभ्राजते-भाति । किंभूतं मुखाब्जमपूर्वशशाङ्कबिम्बम्? 'नित्योदयं' शाश्वतशोभोल्लासम्। चन्द्रबिम्बं तु प्रातरस्तमेति। नित्यमुदयो यस्य तन्नित्योदयं ‘बहुव्रीहिः'। पुनः किंभूतं मुखाब्जमपूर्व०? 'दलितमोहमहान्धकारं' दलितं-ध्वस्तं मोहः-अज्ञानं मोहनीयकर्म वा स एव महान्धकारं-महातमो येन (तत्)। महच्च तदन्धकारं च महान्धकारं 'कर्मधारयः', दलितं मोहमहान्धकारं येन तद् ‘बहुव्रीहिः'। पुनः मुखाब्जमपूर्व० किंलक्षणम्? 'न गम्यं न वशम्। कस्य ? 'राहुवदनस्य'। राहोर्वदनं
का ८२ व