________________
द्वितीये काण्डेज्ञानपूर्वकत्वानभ्युपगमात् विशेष्यज्ञानादीनामेव विशेषणशानादिपूर्वकत्वं नान्येषां प्रतिबन्धाभावात्। बोधरूपता प्रतिबन्ध इति चेत् न, अवोधस्वभावादपि बोधस्योत्पत्त्यविरोधादन्यथा अधूमस्वभावादग्नधूमोत्पत्तिर्न भवेत् । तस्य तजननवभावत्वाददोष इति चेत् न, इतरत्राप्यस्य समानत्वात् । तथाहि-अबोधात्मिका कारणसामग्री वोधजननस्वभावत्वात् तं जनयिष्यतीति न प्रतिबन्धः । ५तस्मादबोधात्मकस्यापि प्रमाणत्वमभ्युपगन्तव्यमित्यव्यापकत्वं लक्षणदोषः । तन्न स्वरूपविशेषणपक्षोऽपि युक्तिसंगतः।
_नापि सामग्रीविशेषणपक्षः तत्रास्यौपचारिकत्वात् । तथाहि-सामग्रीविशेषणपक्षे इन्द्रियार्थसन्निकर्षोत्पन्नमित्युपपन्नमिति व्याख्येयम् तच्चायुक्तम् उत्पत्तिशब्दस्य स्वरूपनिष्पत्तौ प्रसिद्धत्वात् ।
तथा ज्ञानशब्दोऽपि सामग्रीविशेषणपक्षे ज्ञानजनकत्वात् 'सामग्र्यं ज्ञानम्' इति व्याख्येयम् एवम१० व्यभिचारि व्यवसायात्मकं च सामग्र्यम् तथाविधफलजनकत्वात् अव्यपदेश्यमपि तच्छब्देन सहा
व्यापारात् । तदेवं सूत्रोपात्तविशेषणयोगित्वं सामन्यस्य तथाविधफलजनकत्वेन न खत इति न युक्तस्तत्पक्षोऽपि।
[नैयायिकैः फलविशेषणपक्षाश्रयेण प्रतिक्षेपमुदस्य प्रत्यक्षसूत्रोक्तलक्षणस्य समर्थनम् ]
तीनर्थकं सूत्रम्, न; फलविशेषणपक्षस्योपपत्तेः । ननु तत्रापि 'यतः' इत्यध्याहारोऽस्त्येव दोषः, १५न; तावन्मात्रेण सकलदोषविकलाभिमतपक्षसिद्धः। अतस्तथाविधं शानं यतो भवति तत् प्रत्यक्षमिति
सकलदोषविकलं प्रत्यक्षलक्षणं सिद्धम् । नन्वेतस्मिन्नपि पक्षे ज्ञानस्य प्रामाण्यं न लभ्यते इष्टं च तस्य प्रामाण्यम्-“यदा ज्ञानं प्रमाणं तदा हानादिवुद्धयः फलम्" [१-१-३ वात्स्या०भा०] इति वचनात्, नैष दोषः; ज्ञानस्याप्येवंविधफलजनकत्वेन प्रमाणत्वात् । तथा चानुभवज्ञानवंशजायाः स्मृतेः 'तथा
१ "इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेशमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्-[ न्यायद० १-१-४ ]
प्रत्यक्षमिति लक्ष्यनिर्देशः इतरल्लक्षणम् । समानासमानजातीयव्यवच्छेदो लक्षणार्थः । समानजातीयं प्रमाणतया अनुमानादि, विजातीयं प्रमेयादि ततो व्यवच्छिन्नं प्रत्यक्षस्य लक्षणमनेन सूत्रेणोपपाद्यते।
अत्र चोदयन्ति-इन्द्रियार्थसन्निकर्फत्पन्नवादिविशेषणैः खरूपं वा विशिष्यते, सामग्री वा, फलं वा? तत्र खरूपविशेषणपक्षे यद् एवंखरूपं ज्ञानं तत् प्रत्यक्षमिति तत्स्वरूपस्य विशेषितत्वात् फलविशेषणानुपादानाच्च लक्षणमव्याप्ति-अतिव्याप्तिभ्यामुपहृतं स्यात् । अव्याप्तिस्तावद् अतथाविधस्वरूपस्य बोधस्य इन्द्रियादेश्च निर्मलफलजनकतया लब्धप्रमाणभावस्यापि प्रामाण्यं नोक्तं भवेत् । अतिव्याप्तिश्च तथाविधखरूपस्यापि ज्ञानस्याकारकस्य वा संस्कारकारिणो वा स्मृतिं जनयतो वा संशयमादधानस्य वा विपर्ययमुत्पादयतो वा प्रमाणवं प्राप्नोति फलस्याविशेषितत्वात् । तद्विशेषणाभिधाने पुनरश्रुतसूत्रान्तराध्याहारप्रसक्तिः अव्याप्तिश्च तदवस्थेति न खरूपविशेषणपक्षः"-न्यायमञ्ज० आ० २ पृ. ६५५० ४- २ "नापि सामग्रीविशेषणपक्षः तत्र हीन्द्रियार्थसन्निकर्पोत्पन्नमिति इन्द्रियार्थसन्निकर्षोपपन्नं सामग्र्यमिति व्याख्यातव्यम् । अव्यपदेशमव्यभिचारि व्यवसायात्मकं ज्ञानमिति च तजनकत्वादुपचारेण तथा साकल्यं वर्णनीयमिति क्लिष्टकल्पना" ।-न्यायमा० आ० २ पृ० ६५५० १७-। ३-न स्व-बृ. ल.।
४"फलविशेषणपक्षोऽपि न संगच्छते ज्ञान-प्रत्यक्षयोः फल-करणवाचिनोः सामानाधिकरण्यप्रसङ्गात् । प्रमाणलक्षणप्रस्तावात् प्रत्यक्षं प्रमाणमुच्यते तच करणमिति वर्णितम् । ज्ञानं तु तदुपजनितं फलमिति कथमैकाधिकरण्यं तस्मात् पक्षत्रयस्यापि अयुक्तियुक्तखात् पक्षान्तरस्यापि असंभवादयुक्तं सूत्रमिति । अत्रोच्यते-खरूप-सामग्रीविशेषणपक्षौ तावद् यथोक्तदोषोपहतवान्नाभ्युपगम्यते । फलविशेषणपक्षमेव संमन्यामहे । तत्र च यद् वैयधिकरण्यं चोदितं तद् 'यतः'शब्दाध्याहारेण परिहरिष्यामः । यत एवं यद् विशेषणविशिष्टं ज्ञानाख्यं फलं भवति तत् प्रत्यक्षमिति सूत्रार्थः । इत्थं च न क्वचिद् अव्याप्तिरतिव्याप्तिर्वा न काचित् क्लिष्टकल्पना 'यतः'शब्दाध्याहारमात्रेण निरवद्यलक्षणोपवर्णनसमर्थसूत्रपदसंगतिसंभवात् । ननु समानाधिकरणे एव ज्ञान-प्रत्यक्षपदे कथं न व्याख्यायेते कि 'यतः'शब्दाध्याहारेण ? उक्तमत्र करणस्य प्रमाणवाद् ज्ञानस्य च तत्फलखात् फल-करणयोश्च खरूपभेदस्य सिद्धत्वात् । तदत्र
प्रमाणतायां सामग्यास्तज्ज्ञानं फलमिष्यते । तस्य प्रमाणभावे तु फल(लं) हानादिबुद्धयः॥" इत्यादि-न्यायमज. आ. २ पृ. ६५ पं० २१- ५ज्ञानं न य-बृ०।
६ “यदा सनिकर्षस्तदा ज्ञानं प्रमितिः यदा ज्ञानम् तदा हानोपादानोपेक्षाबुद्धयः फलम्"-वात्स्या० भा०पृ० १७५०२१। "सर्वच प्रमाणं खविषयं प्रति भावसाधनं प्रमितिः प्रमाणमिति । विषयान्तरं प्रति करणसाधनं प्रमीयते अनेनेति