________________
ज्ञानमीमांसा
५२९ विषयाधिगतिखभावत्वादिति सन्देहः विशेषहेत्वभावात् साधकतमत्वे च सिद्धे तत्प्रामाण्यावगतिः। अथ विषयाधिगतिस्वभावत्वेनैव निर्णयस्य विषयाधिगत्यभिमानो न साधकतमत्वेनेति भवतोऽपि विशेषहेत्वभावः, न; अबोधस्वभावानामप्यर्थोपलम्भनिमित्तानां भावे विषयाधिगतिसिद्धेः तथा च 'धमाज ज्ञातोऽग्निः' इति व्यपदिशंल्लोक उपलभ्यते नाग्निज्ञानादिति एवं चक्षुषः प्रदीपादेश्चान्धकारे विषयाधिगतिनिमित्तताव्यपदेशो लोकप्रसिद्ध इति परिच्छेदेऽबोधस्वभावस्य तजनकस्य साधकतम-५ त्वान्नार्थज्ञानस्य प्रमाणता । अथापि स्यात् साधकतमज्ञानजनकत्वेनापि धूमादीनां तोव्यपदेशः संभवीति न तेषां ततः साधकतमत्वसिद्धिः तथा च धूमसद्भावेऽपि विषयाधिगतिरित्यभिमानाभावात् सति त्वर्थशाने प्रत्येकशस्तेषामांवेऽपि भावाद विषयाधिगत्यँभिमाने अनन्तरवृत्तमर्थज्ञानमेव साधकतमम् न विषयाधिगतौ ज्ञानस्य साधकतमता विषयाधिगतिखरूपत्वात् तस्य न च किश्चिद्वस्तु स्वरूपे साधकतमं तद्विशेषाभिधानं च प्रमाणपदम् अथ स्वविषये सव्यापारप्रतीततामुपादाय फलस्यैव १० प्रमाणतोपचारः। उक्तं च"सव्यापारप्रतीतत्वात् प्रमाणं फलमेव सत"।।
] तथा, "सव्यापारमिवाभाति व्यापारेण स्वकर्मणि"।[
] इति चेत्, न; मुख्यसद्भावे उपचारपरिकल्पनात् । बौद्धपक्षे तु न मुख्यं साधकतमत्वं क्वचिदपि सिद्धमिति नोपचारः अस्मन्मते तु धूमादीनां साधकतमत्वं विशिष्टावगतिहेतुत्वात् ज्ञानस्य तु न तद् युक्तं तस्य १५ तत्वभावत्वात् अभिमानवशात् तस्य साधकतमत्वे प्रमाण-फलयोर्भेदः प्रसज्यते स च भवतोऽनिष्टः। यञ्च 'धूमादिभावेऽपि विषयाधिगतेरभावात् तद्भावे च भावात्' इत्युक्तम्, तदसंगतम् यतो नैव ज्ञानसद्भावे काचित् तज्जन्या विषयाधिगतिः धूमादिसद्भावे तु तस्याः सद्भावोऽनन्तरमुपलभ्यत एव अतो धूमाद्येव साधकतमम् अभिमानस्तु ज्ञानानन्तरमुपजायमानो धूमादिभावेऽप्यनुपजायमानो ज्ञानस्य न साधकतमत्वं प्रकाशयति अपि त्वर्थाधिगमस्वरूपताम् । तथाहि-अर्थाधिगतावर्थोऽधिगत २० इत्यभिमानः प्रभवति न तु धूमादिभावे । अतो विषयाधिगत्यभिमानस्यानेन प्रकारेण भावान्न तव. गतौ साधकतमत्वं ज्ञानस्येति निर्णयेऽध्यक्षताप्रसक्तिप्रेरणा तदवस्थैव । किञ्च, सुप्तावस्थोत्तरकालं घटादिज्ञानोत्पत्तौ यद्यबोधरूपं तजनकं प्रमाणं नेष्यते तदा प्रागपरज्ञानस्याभावात् कस्य तत् फलं भवेत् ? घटत्वसामान्यज्ञानस्य घटज्ञानं फलमिति चेत् ननु घटत्वज्ञाने किं प्रमाणम् ? तदेवेति चेत् एकस्य प्रमाण-फलताप्रसक्तिः । अभ्युपगम्यत एवेति चेत् न, विशेष्यज्ञानेऽपि तत्प्रसङ्गात् । न च २५ विशेष्यज्ञानोत्पत्तौ विशेषणज्ञानस्य प्रमाणत्वं दृष्टमिति ततस्तद्भिन्नमभ्युपगम्यत इति वक्तव्यम् इन्द्रियार्थसन्निकर्षानन्तरं घटत्वादिसामान्यज्ञानस्य दर्शनात् तत्र सन्निकर्षस्य प्रमाणत्वप्रसक्तेः । अज्ञानत्वान्नेति चेत् न, विशेषणज्ञानं विशेष्यज्ञानोत्पत्तौ ज्ञानत्वाद विशेष्यविषयत्वेन प्रमाणं स्यात् न च तदिष्यते विशेषणविशेष्यालम्बनभिन्नज्ञानवादिभिः अतो यथा विशेषणज्ञानस्य विशेष्यज्ञानोत्पत्ती प्रामाण्यं तथा सन्निकर्षस्यापि विशेषणज्ञानोत्पत्तौ तदभ्युपगन्तव्यम् । तथाहि-सन्निकर्षः प्रमाणं३० विशिष्टज्ञानोत्पत्तौ कारणत्वात् विशेषणज्ञानवत् । ज्ञानत्वात् प्रमाणत्वाभ्युपगमेऽकारकाणां निर्णयादीनां प्रमाणत्वं स्यात् न च स्वसंवेद्यत्वेन तेषामजनकानामपि प्रमाणत्वम् अर्थान्तरफलवादित्वहानिप्रसङ्गात् । न च नैयायिकैरनर्थान्तरभूतं बौद्धैरिव फलमभ्युपगम्यते तदभ्युपगमे वा तत्पक्षनिरासादयमपि निरस्त एव अतो ज्ञानप्रमाणवादिनः सुषुप्तावस्थोत्तरकालं घटत्वादिज्ञानाभावप्रसक्तेर्घटादिज्ञानस्याप्यभावप्रसङ्ग इत्यशेषस्य जगत आन्ध्यापत्तिः । न च सुषुप्तावस्थायां ज्ञान-३५ सद्भावान्नायं दोषः असंवेद्यमानस्य तदवस्थायां तस्य सद्भावासिद्धेः । न च जाग्रत्प्रत्ययेन तत्सद्भावोऽवसीयते तस्य तत्प्रतिबन्धासिद्धेः। तत्कार्यत्वात् तत्प्रतिबन्ध इति चेत् न, वैशेषिकैः सर्वस्य शानस्य
१-ति भाव-बृ. ल. वा. बा. विना। २-गते सि-बृ०। ३ "विषयाधिगतिनिमित्ततारूपः"-बृ. ल. टि.। ४-भवतीति बृ० आ० हा०वि०। ५ सन्निकर्षज्ञाने वा० बा० विना । ६-भावेपि भावेपि भावा० बा०। ७-त्यभिधाने आ० हा०वि०। ८ "ज्ञानस्य"-बु. ल.टि.। ९ "साधकतम"-बृ. ल. टि.। १. “प्रत्यक्षज्ञानस्य"-बृ. ल.टि.। ११ न्यायमन. आ० २ पृ. ७० पं० १६। १२ “अवगतिखभाव-" बृ. ल.टि.। १३ अत्र 'तत्पदं यदि धूमादिपरं तदा तदभावे च' इति पाठः संभाव्यते, यदि च 'तत् पदमर्थज्ञानपरं तदा यथाश्रुतमेव सम्यक् । १४ “विषयाधिगमरूपः"-बृ. ल.टि.। १५ सुषुप्ता-भां. मां ।
६८ स० त०