________________
५२८
द्वितीये काण्डेस्मृतिजनके प्रसङ्गः। तन्निवृत्त्यर्थमर्थोपलब्धिजनकत्वाध्याहारे विपर्ययज्ञानजनके प्रसङ्गः। विपर्ययशानं हि सारूप्यज्ञानादुपजायते यथोक्तविशेषणविशेषितात् तस्य चार्थोपलब्धित्वमिन्द्रियार्थसन्निकर्षजत्वप्रतिपादनात् सूत्रकारस्याभीष्टमेव । अथ तव्यावृत्तये अव्यभिचारिविशिष्टोपलब्धिजनकत्वाध्याहारस्तथापि संशयज्ञानजनके प्रत्यक्षत्वप्रसक्तिः । अथ तन्निवृत्तये व्यवसायात्मकार्थोपलब्धि५ जनकत्वाध्याहारस्तथाप्यनुमाने प्रसङ्गः यस्मात् प्राक् प्रतिपादिताशेषविशेषणाध्यासितं विशिष्टोपलब्धिजनकं च परामर्शज्ञानमध्ययनादिभिरभ्युपगम्यत इति तस्यानुमितिफलजनकस्याध्यक्षताप्रसक्तिः । अथेन्द्रियार्थसन्निकर्पजोपलब्धिजनकस्येत्यध्याहारस्तथाप्युभयजज्ञानजनकस्य प्रत्यक्षताप्रसक्तिः यस्मादिन्द्रियजखरूपज्ञानात् केनचिद 'देवदत्तोऽयम्' इति शब्द उच्चारिते इन्द्रियशब्द
व्यापाराद् 'देवदत्तोऽयम्' इति सङ्केतग्रहणसमये ज्ञानमुत्पद्यते यथोक्तविशेषणविशिष्टमिति तज्जन१० कस्य स्वरूपज्ञानस्य प्रत्यक्षताप्रसक्तिः । तन्निवृत्त्यर्थमव्यपदेशपदाध्याहार इति चेत् तहश्रुतस्य द्वितीयसूत्रस्य कल्पनाप्रसक्तिः । सत्यामप्यश्रुतसूत्रकल्पनायामव्याप्त्यतिव्याप्त्योरनिवृत्तिः तुलासुवर्णादीनामबोधरूपाणामप्रत्यक्षत्वप्राप्तेः सन्निकर्षेन्द्रियादीनां च । न च सन्निकर्षस्य प्रामाण्यं सूत्रकृता नेष्टं “सन्निकर्षविशेषात् तद्ब्रहणम्" [
] इति वचनात् ग्रहणहेतोश्च प्रामाण्यम् । न च कर्म-कर्तृरूपता तैस्येति कर्म-कर्तृविलक्षणस्य ज्ञानजनकत्वात् कथं न तस्य १५प्रामाण्यम् ? एवमिन्द्रियाणामपि प्रमाणत्वं सूत्रकृतोऽभिमतम् “इन्द्रियाणि अतीन्द्रियाणि स्वविषयग्रहणलक्षणानि" [
] इति वचनात् । न च प्रमाणसहकारित्वात् तेषां प्रमाणत्वम् अन्यस्येन्द्रियात् प्रागुपग्राहकस्योपग्राहिणोऽभावात् भावेऽप्यज्ञानरूपत्वात् तस्य न प्रमाणता भवेदित्यव्याप्तिस्तदवस्थैव । प्रदीपादीनां चाज्ञानात्मकत्वेऽपि प्रमाणत्वं प्रसिद्ध लोके तथा सुवर्णादेः-"प्रमेया
च तुलाप्रामाण्यवत्" [ न्यायद० २-१-१६] इति-प्रामाण्यं प्रतिपादितं सूत्रकृता । सूत्रस्य चार्थः२० यथा सुवर्णादि परिच्छिद्यते तदा तुला प्रमाणम् प्रमाणं चानुमानमागमपूर्वकम् दशपलादिज्ञानस्यानिन्द्रियार्थसन्निकर्षपूर्वकत्वात् तदभावश्च वस्त्रादिव्यवहितेऽपि भावात् तथा प्रमेयं च यदा सुवर्णादिना तुलान्तरंमितेनानुमीयते तदा सुवर्णादिद्रव्यं प्रत्यक्ष प्रमाणमिन्द्रियार्थसन्निकर्षजज्ञानजनकत्वात् इन्द्रियार्थसन्निकर्षजं च पञ्चपलरेखादिज्ञानं तद्भावभावित्वात् अत इन्द्रियादिसहकारि तत् सुवर्णादि
पञ्चपलरेखादिज्ञानमुत्पादयत् प्रत्यक्षं प्रमाणम् । सुवर्णवदिन्द्रियार्थजज्ञानमुत्पादयन्तः सर्व एव भावा: २५प्रत्यक्षप्रमाणतामाबिभ्रति । स्मृति-संशय-विपर्ययादीनां चेन्द्रियार्थसन्निकर्षेण सह व्यापारे विशिष्ट
फलजनकत्वेन प्रत्यक्षतोपेयते। तथाहि-संशय-विपर्यययोरपि बाह्य विषये स्वालम्बने स्वावच्छेदकत्वेनेन्द्रियार्थसन्निकर्षेण सह व्यापारादात्मप्रत्यक्षवादिनां चात्मनो विशेषणत्वेन विशिष्टप्रतीतिजनकत्वेन प्रत्यक्षत्वात् । न च तयोः सूत्रोपात्तविशेषणयोगिता सन्दिग्धविपर्ययस्वभावत्वात् । अतिव्याप्तिरपि यदेन्द्रियार्थसन्निकर्षाल्लिङ्गाद गतिमदिन्द्रियं प्रतिपद्यते तदा सकलसूत्रोपात्तविशेषणयोगात् सन्नि३० कर्षलक्षणलिङ्गालम्बनस्य ज्ञानस्य तथाविधफलजनकस्य प्रत्यक्षताप्रसङ्गात् । एतच्च 'इन्द्रियस्यार्थ' इति समासोश्रयणे दूषणं द्रष्टव्यमिति स्वरूपविशेषणपक्षे अनेकदोषापत्तिः।
अथ ज्ञानप्रामाण्यवादिभिर्निर्णयस्य प्रामाण्यमिष्यत एवेति नानिष्टप्रेरणावकाशः । तथाहितत्सद्भावे विषयोधिगतिरिति लोकस्याभिमानः यच्च तथाविधविषयाधिगमे करणं तत् प्रमाणम् । निर्णये च सति तदधिगतिरिति स एव प्रमाणम् अत एव नाश्रुतसूत्रान्तरकल्पनादोषानुषङ्गोऽपि, ३५ नैतत् सारम् । यतो निर्णये सति योऽयं विषयाधिगत्यभिमानः स किं साधकतमत्वान्निर्णयस्य उत
१"विपर्ययज्ञानस्य"-बृ. ल.टि.। २ “अनुमानजनके प्रसङ्ग इत्यर्थः"-बृ. ल.टि.। ३ "सन्निकर्षस्य"-बृ० ल. टि.। ४ “यदि हि इन्द्रियात् प्राक् किञ्चिदन्यदपि भवेत् तदा इन्द्रियं तस्य सहकारि कुर्यात् । न च किञ्चित् प्रसिद्धं तदा तदुपग्राह्यस्याभावात्"-बृ. ल. टि.। ५ "गुरुवपरिमाणज्ञानसाधनं तुला प्रमाणम् ज्ञानविषयो गुरुद्रव्यं सुवर्णादि प्रमेयम् । यदा सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सुवर्णादि प्रमाणम् तुलान्तरं प्रमेयमिति" इत्यादि-वात्स्या. भा० पृ. ११३ पं०८-११ । न्यायवा० पृ. १९३ पं०८-११॥ न्यायवा. ता० टी० पृ. ३६४ पं० २२-पृ. ३६५५०८।६-त् यथा भां. मां०। ७"तुला"-बृ० ल.टि.। ८ यथा सु-भां• मां०। ९-रमेतेना-बृ० सं० । १० "तुलायास्तु प्रमेयलम्"-बृ. ल.टि.। ११-त्वादित इ-वा० बा०। १२-सानाश्रय-बृ० ल. विना। १३-यावग-बृ०।