________________
ज्ञानमीमांसा।
५२७
"भ्रान्तिसंवृतिसंज्ञानमनुमानानुमानिकम् ।
स्मार्ताभिलाषिकं चेति प्रत्यक्षाभं सतैमिरम्" ॥[ इत्यत्र 'स्मार्ताभिलाषिकं चेति' इति' शब्दपरिसमापिताद् विकल्पवर्गात् पृथक् 'सतैमिरम्' इत्यनेनाविकल्पस्यैवंजातीयकस्य प्रत्यक्षाभासत्वं प्रतिपादितम् । कल्पनात्वे वास्याऽभ्रान्तपदोपादानमेतद्यवच्छेदार्थ प्रत्यक्षलक्षणे न युक्तियुक्तं स्यात् । तन्न चतुर्थपक्षाभ्युपगमोऽपि न्यायोपपन्न इति नार्थ-५ सामर्थ्यानुद्भूतत्वादप्रत्यक्षता विकल्पानाम् । यच्च 'अर्थोपयोगेऽपि' इत्यादिदूषणमक्षजत्वे तेषां प्रतिपादितम् तदप्यसङ्गतम् । यतो यथा निर्विकल्पोत्पादकसामग्र्यन्तर्भूताश्चक्षुरादयः सहकारिणोऽन्योन्यसव्यपेक्षा अपि कार्योत्पादनेनैव परस्परतो व्यवधीयन्ते-तजननस्वभावत्वात् तेषां-तथा सविकल्पोत्पादका अपि । न चान्त्यावस्थाप्राप्तं निर्विकल्पोत्पादकं चक्षुरादिकमन्यनिरपेक्षमेव स्वकार्यनिर्वर्तकमन्यसन्निधिस्तु तत्र स्वहेतुनिबन्धनो नोपालम्भविषय इति वक्तव्यम् “न वै किञ्चिदेकं १० जनकम्" [
] इत्यादेर्विरोधप्रसक्तेः । अतश्चक्षुरादिवन्न स्मृत्याऽर्थस्य व्यवधानम् । न च क्षणिकत्वात् स्मृतिकाले अर्थस्यातीतत्वात् तया तस्य व्यवधानं क्षणिकत्वस्यास्मान् प्रत्यसिद्धत्वात् स्फटिकसूत्रे निराकरिष्यमाणत्वाच्च । यदपि अर्थस्य स्मृतिसापेक्षत्वे दृषणमभ्यधायि-'यः प्रागजनक'-इादि, तदप्यसङ्गतम् : उपयोगाविशेषस्यासिद्धत्वात् । तथाहि-भावानां द्विविधा शक्तिः प्रतिनियतकार्यजनने एका स्वरूपशक्तिरपरा सहकारिस्वभावा । तत्र प्राक्स्मरणात् स्वरूपशक्तिः१५ केवला न कार्य जनयति, यदा तु समासादितसहकारिशक्तिः खरूपशक्तिर्भवति तदा कार्यमाविर्भावयत्येव । न च स्वरूपशक्तेः सहकारिशक्त्या व्यतिरिक्तोऽव्यतिरिक्तो वा कश्चिदुपकारः क्रियते किन्तु संभूय ताभ्यामेकं कार्य निष्पाद्यते । तथाहि-अन्त्यावस्थाप्राप्तक्षणवत् सहकर्तृत्वमेव सर्वत्र सहकारार्थो न त्वतिशयाधानमिति क्षणभङ्गभङ्गे विस्तरेण प्रतिपादयिष्यते । यदपि 'विशेषणं विशेष्यं च' इत्यादि दूषणमभिहितम् तथा, 'सङ्केतस्मरणोपायम्' इत्यादि च तदपि प्रागेव निरस्तम् ।२० यदपि 'विकल्पाध्यक्षयोरेकविषयत्वे प्रतिभासभेदो न स्यात् दृश्यते च तदुक्तम्-'शब्देनाव्यापृताक्षस्य' इत्यादि तदप्यसङ्गतम्। शब्दाक्षप्रभवप्रतिपत्त्योर्विपयभेदस्य प्रसाधितत्वात् । शब्दजप्रतिपत्ती शब्दावेच्छेदेन वाच्यस्य कैश्चित् प्रतिभासोपगमात् कारणभेदादेकविषयत्वेऽपि प्रतिभासभेदस्य च कैश्चिदभ्युपगमान्नैकान्तेन तयोभिन्नविषयता । तन्न व्यवसायात्मकं विकल्परूपत्वादनक्षार्थजम् । व्यवसायस्य ज्ञानरूपत्वाद् ज्ञानग्रहणं न कार्यमिति चेत्, न; धर्मि निर्देशार्थ ज्ञानपदोपादानस्य २५ दर्शितत्वात् । व्यवसायात्मकग्रहणं तु धर्मनिर्देशार्थमिति न पुनरुक्तम् ।
[ केषांचित् न्यायसूत्रीयप्रत्यक्षलक्षणे प्रतिक्षेपः ] ननु फल-स्वरूप-सामग्रीविशेषणत्वेनासंभवान्नेदं लक्षणम् । तथाहि-प्रत्यक्षफलविशेषणत्वे इन्द्रियार्थसन्निकर्षजत्वादिषु ज्ञान-प्रत्यक्षशब्दयोः सामानाधिकरण्यानुपपत्तिः फलप्रमाणाभिधाय कत्वेन; ज्ञानं हि फलं प्रत्यक्षं तत्साधकतमत्वात् प्रमाणमिति कथं तयोः सामानाधिकरण्यम् ? न च ३० एवंभूतं फलं यतस्तत् प्रत्यक्षम् , 'यतः' इत्यस्याश्रुतत्वात् । तन्न फलविशेषणपक्षः।
अथैतद्दोपपरिजिहीर्षया स्वरूपविशेषणपक्षः समाश्रीयते सोऽप्ययुक्तः एतद्विशेषणविशिष्टस्य प्रत्यक्ष निर्णयस्याकारकस्य प्रत्यक्षत्वप्रसक्तेः, न चाकारकस्यासाधकतमत्वात् प्रत्यक्षत्वं युक्तम् । अथ कारकत्वं विशेषणमुपादीयते तथापि संस्कारजनके प्रसङ्गः। अथैवंविशिष्टमुपलब्धिसाधनं यत् तत् प्रत्यक्षम् । नन्वेवमप्यश्रुतपरिकल्पनाप्रसक्तिः । सामान्यलक्षणानुवादवारेण विशेषलक्षणविधानान्ना-३५ श्रुतकल्पनेति चेत्, न; एवमपि द्वितीयलिङ्गदर्शनेऽविनाभावस्मृतिजनके गोत्ववदर्थदर्शने च सङ्केत
१-क्षाभासित्वं वा० बा० ।-क्षावभासित्वं भां० मां०। २ "कल्पनापोढपदेनैव व्यवच्छिन्नत्वात्"-बृ० ल.टि.। ३ पृ. ५२५ पं० ३। ४ पृ० १२ पं० ५। ५ स्फुटि-वा० बा० भां. मां० विना । “स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद् व्यक्तीनामहेतुः"-न्यायद०३-२-१०। ६ पृ० ५२५ पं० १०। ७ पृ. ५२५ पं० १४ । ८ पृ० ५२५ पं० १६। ९ "शब्दविशिष्टतया"-बृ. ल.टि.। १०-त् कर-वा. बा. भा. मां० विना । ११ पृ. ५२४ पं० १०। १२ "ज्ञान"-बृ. ल. टि.। १३ “प्राप्नोति खरूपविशेषणपक्षे"-बृ. ल. टि.। १४ “स हि संस्कार जनयन् कारक एवेति प्राप्नोति अस्य प्रत्यक्षता"-बृ० ल• टि।