________________
द्वितीये काण्डे
अत्रानवतारात् । अथ वास्तवम् तदपि न, प्रमाणाभावात् । भवतु वा तस्य तद्रूपत्वं तथापि कथमनध्यक्षत्वम् ? अथार्थसामोद्भूतत्वात् तस्येत्युक्तम् विकल्पानां च तदसंभवान्नाध्यक्षता; ननु नीलादिज्ञानवच्छब्दार्थप्रतिभासित्वेऽपि कथं नार्थप्रभवत्वं तेषाम् ? स्वलक्षणातिरिक्तशब्दार्थस्याभावान तत्प्रभवत्वं तेषामिति चेत् । नन्वेवमसदर्थग्राहित्वं कल्पनात्वं प्रसक्तम् तच्च सामान्यादेः सत्त्वप्रति५पादनान्निरस्तम जातिविशिष्टस्यार्थस्य शब्दार्थत्वेन प्रतिपादनात् तदवभासिनो ज्ञानस्य कथमसदर्थविषयत्वेन कल्पनात्वं भवेत् ? न चार्थाभावेऽपि विकल्पानामुत्पत्तेर्नार्थजत्वम् अविकल्पस्याप्यर्थाभावेऽपि भावादनर्थजत्वप्रसक्तेः । अथ तदध्यक्षं प्रमाणमेव नाभ्युपगम्यते तर्हि विकल्पानामप्ययं न्यायः समानः तेऽप्यसदर्था अध्यक्षप्रमाणतया नाभ्युपगम्यन्ते असदर्थत्वं च विकल्पाविकल्पयोर्वाधकप्रमाणावसेयम् तच्च यत्र न प्रवर्तते तस्य कथमसदर्थता? एतेन द्वितीयो विकल्पः प्रति१० विहितः। अथ विशेषणविशिष्टार्थग्राहित्वं कल्पनात्वम् तदा किं तथाभूतार्थाभावात् तद्ब्राहिणो ज्ञानस्य विकल्पकत्वम्, आहोस्विद् विशेषणविशिष्टार्थग्राहित्वेनैवेति वक्तव्यम् आद्यविकल्पे सिद्धसाध्यता असदर्थग्राहिणः प्रत्यक्षप्रमाणत्वेनानभ्युपगमात् । न च द्वितीयपक्षादस्य पक्षान्तरत्वम् द्वितीयपक्षस्य च प्रतिविधानं विहितमेव । अथ द्वितीयः पक्षोऽभ्युपगम्यते सोऽपि न युक्तः नीलादिज्ञानस्यापि अप्रत्य
क्षत्वप्रसक्तेः। अथास्य न विशेषणविशिष्टार्थग्राहिता, ननु विशेषणविशिष्टार्थग्राहकत्वेनाध्यक्षत्वस्य को १५विरोधो येन तद्राहिणोऽध्यवसायस्यानध्यक्षता? अथ विशेषणविशिष्टार्थग्राहित्वे विचारकत्वमध्यक्षविरुद्धम् अर्थसामोद्भूतस्य विचारकत्वायोगात्, असदेतत् ; विशेषणविशिष्टार्थावभासिनस्तस्याविकल्पवत् विचारकत्वायोगात् स्मरणाद्यनुसंवंधान( संधान )समर्थस्य प्रमातुरेव विचारकत्वात् कथं विशेषणग्रहणादिसामग्रीप्रभवस्य तस्याप्रत्यक्षता? विशिष्टसामग्रीप्रभवस्यास्याप्रत्यक्षत्वे चक्षरूपा
लोकमनस्कारसापेक्षस्याविकल्पस्याप्रत्यक्षताप्रसक्तिःनच विशेषणादिसामग्र्यनपेक्षत्वादस्य प्रत्यक्षता २० प्रतिनियतस्वसामय्यपेक्षस्य विशेषणविशिष्टार्थावभासिनोऽपि प्रत्यक्षत्वाविरोधात् अन्यथा रूपज्ञान
स्यालोकाद्यपेक्षस्याध्यक्षत्वे रसज्ञानं सामग्र्यन्तरसापेक्षमनध्यक्षं स्यात् विभिन्नस्वभावसामग्रीसापेक्षत्वात् । न च विशेषणविशिष्टार्थग्रहणे विशेषणविशेष्यसम्बन्धलौकिकस्थितीनां परामर्शः यतो विशेषणविशेष्यतत्सम्बन्धानां न स्वतन्त्राणां विशिष्टार्थग्रहणात् प्रागवभासः अपि तु चक्षुरादिव्यापारे स्वतन्त्र
नीलग्रहणवत् विशेषणविशिष्टार्थग्रहणं सकृदेव; केवलं तत्र 'त्रयम्' इति प्रतिभासो विशिष्टार्थग्रहण२५स्यान्यथाऽसम्भवात् कथ्यते । न च यथावस्थितवस्तुग्रहणं कल्पना अतीतादिग्रहणवत् । न च
जात्यादित्रयस्याभिन्नस्य भेदाध्यवसायः दण्ड-शब्दयोर्भिन्नयोरभेदाध्यवसायो वा कल्पनाद्वयस्याप्यसंभवात् । तथाहि-न जात्यादित्रयस्य वस्तुनोऽव्यतिरेकादसत्त्वाद्वाऽभेदे भेदाध्यवसायः द्वयोरप्यनुपपत्तेः न हि जात्यादेरभेदे असत्त्वे वा तद्व्यवच्छिन्नवस्तुग्रहणसंभवः असतोऽभिन्नस्य वा अवच्छेद
कत्वानुपपत्तेः । न च तत्प्रतिभासेऽपि प्रतिभासविषयस्य द्विचन्द्रादेरिव प्रमाणबाधितत्वात तत्प्रति३० भासोऽप्रमाणम् यतो न द्विचन्द्रादेरिव जात्यादेः किञ्चिद् वाधकम् वृत्तिविकल्पादेस्तद्वाधकस्य निषेधात् । तन्न जात्यादित्रयस्याभिन्नस्य भेदप्रतिभांसः कल्पना । नापि दण्ड-शब्दयोरभेदाध्यवसायः यदि तत्राभेदप्रतिपत्तिस्तदैकप्रतिभासेऽवच्छेदकावच्छेद्यभावेन ग्रहणं न भवेत् किं हि तदपेक्ष्याव: च्छेदकमवच्छेद्यं वा अर्थान्तरापेक्षत्वात् तयोः । तथाहि-दण्डस्य दण्डिनं प्रति व्यवच्छेदकत्वेन
प्रतिभासो नैकत्वेन एवं वाचकस्याऽपि वाच्यप्रतिपत्तौ द्रष्टव्यम् । वाचकावच्छिन्नवाच्यप्रतिभासा३५ भ्युपगमवादिनामेतन्मतम् येषां तु तटस्थ एव वाचकः वाच्यप्रतिपत्तौ वाचकत्वेन प्रतिभातीति मतं
तेपाममेदाध्यवसायो दुरापास्त एव । अपि च, एवंवादिना तिरस्कृतस्वाकारस्याकारान्तरानुपक्तस्यार्थस्य ग्रहणं कल्पनेति चतुर्थपक्ष एवाभ्युपगतो भवेत् । न चायमभ्युपगमः सौगतानां युक्तः स्वसिद्धान्तविरोधात् । तथाहि-अविकल्पकमेतद्विज्ञानं भ्रान्तमध्यक्षाभासमभ्रान्तपदव्यवच्छेद्यं सौगतसमये प्रसिद्धम् । तथा च
१ "प्रत्यक्षस्य"-वृ० ल० टि०। २ पृ० ५२५ पं० २७। ३ प्र० पृ. पं० ११। ४-ग्राहित्वे-आ० । ५-तस्य तस्य वि-ल. भा. मां०। ६-हणवि-भां. मां। "वैधर्म्य-"बृ. ल. टि.। -यव-बृ. आ. हा. वि.। ९"विशिष्ट-"बृ० ल. टि.। १०-भासक-आ० हा० वि०। ११-पि पिण्ड-ल.। १२-स्तदेक-वा० बा० भां. मा. विना। १३ तदापे-बृ. आ. हा०वि०। १४-पेक्षाव-आ. हा• वि.।