________________
ज्ञानमीमांसा।
५२५ इतोऽप्यक्षार्थजा न भवन्ति अक्षार्थसन्निपातवेलायां प्रथमत एव तेषामनुभृतेः यदि हि तदुद्भवास्ते स्युः स्मृतिमन्तरेणानुभवत उत्पद्येरन् । न चार्थोपयोगेऽपि तामन्तरेण उत्पद्यन्ते । तदुक्तम्
"अर्थोपयोगेऽपि पुनः स्मार्त शब्दानुयोजनम् ।
अक्षधीयद्यपेक्षेत सोऽर्थो व्यवहितो भवेत्"॥ [ यो हि यजन्यः स तदापात एव भवत्यविकल्पवत् न भवन्ति च तदापातसमये विकल्पा इति नार्थ-५ जन्यत्वं तेषां स्मृतिव्यवहितत्वात् । न चार्थस्य स्मृत्याऽव्यवधानं तस्यास्तत्सहकारित्वादिति वाच्यम् यतो यद्यर्थस्य ज्ञानजनकत्वं तदा तजनने किमित्यसौ स्मृत्यपेक्षः? न च तया विना ज्ञानस्योत्पत्तिस्तन्नार्थस्तजनकः । न च तदपेक्षस्य तस्य तजनकत्वं तस्यास्तत्र व्यतिरिक्ताव्यतिरिक्तोपकारजनकत्वेनाकिञ्चित्करत्वात् । तदुक्तम्
"यः प्रागजनको बुद्धरुपयोगाविशेषतः ।
स पश्चादपि तेन स्यादपायेऽपि नेत्रधीः" ॥[ अपि च, जात्यादिविशेषणविशिष्टार्थग्राहिविकल्पज्ञानम् न च जात्यादीनां सद्भावः तत्त्वेऽपि तद्विशिष्टग्रहणं बहुप्रयाससाध्यमध्यक्षं न भवति । उक्तं च
"विशेषणं विशेष्यं च सम्वन्धं लौकिकी स्थितिम । गृहीत्वा संकलय्यैतत् तथा प्रत्येति नान्यों" ॥ [ "संकेतस्मरणोपायं दृष्टसङ्कलनात्मकम् । पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् "॥ [
] इति। अतोऽर्थसन्निधानाभावेऽपि भावान्नार्थप्रभवा विकल्पाः। अथ मा भूवन राज्यादिविकल्पा अर्थप्रभवाः इदंताविकल्पास्त्वर्थमन्तरेणानुद्भवन्तः कथं नार्थप्रभवाः? तदुक्तम्-"नान्यथेदंतया" [ ] इति चेत्, न; इदंताविकल्पानामपि वस्तुप्रतिभासित्वासंभवात् न हि शब्दसंसर्गयोग्यार्थप्रतिभासिनो२० विकल्पा वस्तुनिश्चायका अन्यथा शब्दप्रत्ययस्याध्यक्षप्रतीतितुल्यता भवेत् । उक्तं च
"शब्देनाव्यापृताक्षस्य वुद्धावप्रतिभासनात् । अर्थस्य दृष्टाविव तदनिर्देशस्य वेदकम्" ॥ [ पदकम् ॥ [
] इति । तन्नार्थाक्षप्रभवत्वं व्यवसायस्येति प्रत्यक्षत्वमयुक्तम् ।
[नैयायिकैः सौगताक्षेपस्य प्रतिविधानम् ] अत्र नैयायिकाः प्रतिविदधति-किमिदं विकल्पत्वं परस्याभिप्रेतम् ? किं शब्दसंसर्गयोग्यवस्तुप्रतिभासित्वम्, आहोस्विदविद्यमानार्थग्राहित्वम्, किं विशेषणविशिष्टार्थावभासित्वम्, उताकारान्तरानुषक्तवस्त्ववभासकत्वम् ? तत्र यद्याद्यः पक्षस्तदा वक्तव्यम् किमिदं शब्दसंसर्गयोग्यार्थप्रतिभासित्वं विकल्पत्वं पारिभाषिकम् उत वास्तवम् ? यदि पारिभाषिकम् तदा न युक्तम् परिभाषाया
१ अटस• पृ० १२२ पं० २। तत्त्वोप० लि. पृ. ५१ पं० १२। सिद्धिवि० टी० लि. पृ. ७६ पं० १८ ॥ न्यायवा० ता० टी० पृ० १३६ पं० २१ । न्यायमज. आ० २ पृ० ९२ पं० २३ । २ अष्टस० पृ० १२२ पं० १० । तत्त्वोप० लि. पृ० ५१५०९। सिद्धिवि० टी० लि. पृ. ३५ पं० ११। न्यायवा. ता. टी. पृ० १३७ पं० १। न्यायमञ्ज. आ० २ पृ. ९२पं० १९ ।
___ तात्पर्यटीकायां तु-"दक्षापायेऽपि नेत्रधीः" इति पाठमाश्रित्य "अन्धानामपि रूपसाक्षात्कारप्रसङ्गः" इति भावो वार्णितो दृश्यते।
३ “सद्भावेऽपि"-बृ. ल.टि.। ४ सिद्धिवि.टी.लि. पृ. ३१५० १। न्यायवा. ता. टी.पृ. १३७ पं०९। न्यायमञ्ज. आ० २ पृ. ९३ पं०३ । पृ० ५१५५० १ टि. १।
५ "दृष्टसङ्कल्पनात्मकम् । पूर्वापरपरामर्शशून्यं तच्चाक्षुषं कथम्-"न्यायमञ्ज. आ० २ पृ० ९३ पं०७। पृ० ५१५५० ५।
६ "तत्रैतत् स्यात् । द्विविधा विकल्पाः छात्रमनोरथविरचिताः इदन्ताग्राहिणश्च नीलमित्यादयः तत्र पूर्वे मा भूवन् प्रमाणं कस्तेष्वर्थनिरपेक्षजन्मसु प्रामाण्येऽभिनिवेशः । इदन्ताग्राहिणां वर्थाविनाभूतत्वात् कथं न प्रामाण्यमिति”-न्यायमज. आ. २ पृ. ९३ पं०९। ७ पृ. २६.५० १७ टि. ११ ।