________________
५२४
द्वितीये काण्डे -
यत् परयोषिति । ननु कस्तस्य व्यभिचारः ? ज्ञानस्य क इति वाच्यम् ? अतस्मिंस्तदिति भावः स सुखेऽपि समानः । किं पराङ्गनोत्पन्नं सुखं न भवति ? मरीचिषूदकज्ञानं किं न ज्ञानम् ? अथातस्मिंस्तदितिभावाद् ज्ञानत्वेऽपि तद् व्यभिचारि असुखसाधने पराङ्गनादौ सुखस्य भावात् समानं व्यभि चारित्वमिति सुखनिवृत्त्यर्थ ज्ञानपदमर्थवत् । एतच्च केचिद् दूषयन्ति नहि तापादिखभावं पराङ्गनायां ५ सुखमुत्पद्यते अपि त्वाल्हादस्वरूपम् यथा खललनायाम् सुखसाधनत्वादेव चासक्तिहेतुत्वादधर्मोत्पादकत्वेन तस्या भाविनि काले दुःखसाधनत्वम् । न च यस्यैकदा दुःखजनकत्वं तस्य सर्वदा तद्रूपत्वमेव अन्यथा पावकस्य निदाघसमये दुःखजनकत्वांच्छिशिरेऽपि तजनकत्वमेव स्यात् एवं देशाद्यपेक्षयापि न नियतरूपता भावानाम् । उक्तं च भाष्यकृता - "सोऽयं प्रमाणार्थोऽपरिसङ्ख्येयः” [ वात्स्या० भा० पृ० १ पं० १२ ] इति । ततो व्यभिचाराभावान्न सुखनिवृत्त्या ज्ञानपदोपादानमर्थ - १० वत् । न चैवमनर्थकमेवैतत् धर्मिप्रतिपादनार्थत्वादस्य ज्ञानैपदोपात्तो हि धर्मी इन्द्रियार्थसन्निकर्षजत्वादिभिर्विशेष्यते अन्यथा धर्म्यभावे वाऽव्यभिचारादीन् धर्मास्तत्पदानि प्रतिपादयेयुः ? न च विशेषणसामर्थ्याद्धर्मिणः प्रतिलम्भ इति वक्तव्यम् तथाभ्युपगमे 'प्रत्यक्षं प्रत्यक्षम्' इत्येव वक्तव्यं शेषस्य सामर्थ्यलभ्यत्वात् । यथोक्तविशेषणविशिष्टं संशयज्ञानं भवति 'व्यभिचारिप्रतियोगि अव्यभिचारि' इति कृत्वा न चैतत् प्रत्यक्षव्यवच्छेदकम् न चास्येन्द्रियार्थसन्निकर्षजत्वं नास्ति तद्भावितया १५ तज्जन्यत्वस्य तंत्र सिद्धेः अतस्तद्व्यवच्छेदार्थ व्यवसायात्मकपदोपादनम् । व्यवसीयते अनेनेति व्यवसायो विशेष उच्यते विशेषजनितं व्यवसायात्मकम् संशयज्ञानं तु सामान्यजनितत्वान्नैवम् अथवा निश्चयात्मकं व्यवसायात्मकम् संशयज्ञानं त्वनिश्चयात्मकम् अत एव विपर्ययाद् भिन्नम् व्यवस्यति व्यवसायः अन्यपदार्थव्यवच्छेदेनैक पदार्थालम्बनत्वमस्य तद्विपरीतस्तु संशयः ।
[ निर्विकल्पकस्यैव प्रत्यक्षत्वमामनतां सौगतानां नैयायिकसम्मते विकल्पप्रामाण्ये प्रतिक्षेपः ] २० ननु च विकल्परूपत्वान्न व्यवसायात्मकस्येन्द्रियार्थजत्वम् कथमस्य प्रत्यक्षफलता ? न च व्यवसायात्मकस्याप्यध्यक्षता जैनमतानुसारेण व्यवस्थापनीया तेनानै (ने) कान्तात्मकस्य वस्तुनोऽङ्गीकृतत्वात् भवतस्त्वेकान्तवादिनस्तद्युक्तितः तद्व्यवस्थापनासंभवात् । कुतः पुनर्विकल्पस्यानर्थजत्वम् ? शब्दार्थ प्रतिभासस्वभावत्वात् । नहि विकल्पोऽर्थ सामर्थ्यापेक्षः समुपजायते निर्विकल्पकं त्वर्थसन्नि धानापेक्षं तत्सामर्थ्यसमुद्भूतत्वात् प्रत्यक्षं प्रमाणम् । तदुक्तम् - "यो ज्ञानप्रतिभासमन्वयव्यतिरेकावनु२५ कारयति” [ ] इत्यादि । अथ शब्दार्थः तिभासित्वेऽपि किमिति विकल्पानां नार्थत्वम् ? रूपादेरर्थस्य स्वलक्षणत्वेन व्यावृत्तरूपत्वात् शब्दार्थत्वानुपपत्तेः विकल्पप्रतिर्भास्याकारस्य तु तद्व्यतिरिक्तस्यार्थत्वानुपपत्तेः सदसद्रूपस्य नित्यत्व सत्त्वाभ्यां तस्य ज्ञानजनकत्वनिषेधत् अनुगतस्य चाशब्दार्थत्वात् स्वलक्षणस्य च सर्वतो व्यावृत्ततयाऽनुगतत्वासंभवादनर्थजा विकल्पाः ।
यद्येवं शुक्तिकायां रजतज्ञानमपि न मिथ्या तदपि विषयानुभवखभावमेव । ननु विषयानुभवस्वभावमपि तद् ज्ञानं विषयं व्यभिचरति । सुखमपि तर्हि इदमानन्दखभावमपि विषयं व्यभिचरत्येव । किमसुखसाधनेन तद् जनितम् ? ज्ञानमपि किमज्ञानसाधनेन जनितम् ? ननु ज्ञानं ज्ञानसाधनेन जनितमसत्येन प्रत्यक्षबाधितेन रजतादिना । सुखमपि सुखसाधनेन जनितमसत्येन तु शास्त्रबाधितेन परवनितादिना । किं परवनितादि न सत्यम् ? तत्रापि ज्ञानजनकं सत्यम् असत्यं प्रत्यक्षबाधितत्वात् । परवनिताद्यपि सुखसाधनमसत्यं शास्त्रबाधितत्वात् । ननु शास्त्रेण किमत्र बाध्यते ? ज्ञानेऽपि प्रत्यक्षेण किं बाध्यते ? विषयो मिथ्येति ख्याप्यते । शास्त्रेणापि सुखस्य हेतुर्मिथ्येति ख्याप्यते । किं स विषयः सुखहेतुर्न भवति ? यथा त्वेष विषयः कलुषस्य ज्ञानस्य हेतुस्तथा सोऽपि कलुषस्य कटुविपाकस्य सुखस्य हेतुरिति तथाविधं सुखमपि व्यभिचारि भवत्येवेति अलमतिकेलिना ” न्यायमञ्ज० आ० २ पृ० ७६ पं० १८
१- त्वाच्छशि-ल० वा० बा० । २-नपदोपपत्तो हि बृ० ३ " संशये " - बृ० टि० । “ संशय " -ल० टि० । ४ वात्स्या० भा० पृ० न्यायवा० ता० टी० पृ० १४४ पं० ३। न्यायमज० आ० २ पृ० ९० पं० ७ । ५-त्मकमसंश-आ० हा ० वि० ।
६ " ' ननु च' इत्यादेरुत्तरं कुत इत्यादिना निगदति" - बृ० टि० ।
९- नकत्वानि -आ० हा ० वि० । हेतुता निरुपाख्यत्वात् " - बृ० टि० ।
१० “यत् सत् तत् तावत् परेण
।-नपदोत्पत्तौ हि ल० वा० बा० । २१ पं० ५ । न्यायवा० पृ० ३७ पं० १६ ।
७" परः " बृ० टि० । ८-भासस्या -ल० । नित्यमिष्टम् नित्यस्य च हेतुता नास्ति असतोऽपि न