________________
ज्ञानमीमांसा ।
५२३ स्वमपि तत एवावसीयते मरीचिदेशं प्रति प्रवृत्तेश्च । पूर्वानुभृतोदकविषयत्वे तु तद्देशैव प्रवृत्तिर्भवेन्न मरीचिदेशे । भ्रान्तत्वान्न तद्देशे प्रवर्तत इति चेत् य एवाभ्रान्तः स उदकस्मरणादुदकदेश एव प्रवर्तते अयं तु भ्रान्त इति अयुक्तमेतद् भ्रान्तिनिमित्ताभावात् । इन्द्रियव्यापार एव तन्निमित्त इति चेत् अयुक्तमेतत् तत एवेन्द्रियजत्वसिद्धेः । न च स्मृतिर्वाह्येन्द्रियजा दृष्टा इदं तु वाहन्द्रियजमिति न स्मृतिः । ननु कथमुदकज्ञानस्यालम्वनं मरीचयोऽप्रतिभासमानाः? उक्तमेतत् तेषु सत्सु५ भावादस्य । ननु यद्येतद् अनुदके उदकप्रतिभासं भवत्यन्यत्र किमिति न भवेत् ? न भवत्यन्यस्योदकेन सारूप्याभावात् तस्मादुदकसरूपा मरीचय एव देशकालादिसव्यपेक्षा उदकज्ञानं जनयन्ति । तथाहिसामान्योपक्रमं विशेषपर्यवसानम् इदमुदकम्' इत्येकं ज्ञानं तस्य सामान्यवानर्थः स्मृत्युपस्थापितविशेषापेक्षो जनकः तिरस्कृतखाकारस्थागृहीताकारान्तरस्य सामान्यविशिष्टस्य वस्तुनो विपर्ययजनकत्वे तथाविधस्येन्द्रियेण सम्बन्धोपपत्तेः कथं नेन्द्रियार्थसन्निकर्षजो विपर्ययः? नन्वस्य शब्दसहायेन्द्रियार्थ-१० सन्निकर्पजत्वेन नाव्यभिचारिपदव्यवच्छेद्यत्वम् अव्यपदेश्यपदेनैव निरस्तत्वात्, न प्रथमाक्षसंनिपातजस्य शब्दस्मरणनिमित्तस्येन्द्रियार्थसन्निकर्षप्रभवस्याशब्दजन्यस्याव्यभिचारिपदापोह्यत्वाभ्युपगमात्। अभ्युपगमनीयं चैतत् अन्यथोदकशब्दस्मृतेरयोगात् “यत्सन्निधाने यो दृष्टस्तदृष्टेस्तद्धनौ स्मृतिः”
इति न्यायात् । न च तरङ्गायमाणवस्तुसन्निधाने उदकशब्दस्य दृष्टिः किन्तूदकसन्निधान एव अतो मरु-जङ्गलादौ देशे क्वचिद्दरस्थस्य निदाघसमये तरङ्गायमाणवस्तुनः सामान्य-१५ विशिष्टस्य दर्शनम् तदनन्तरं तत्सहचरितोदकत्वानुस्मरणम् तस्मात् सामान्यवत्ताध्यारोपितोदकग्रहणम् तत उदकशब्दानुस्मृतिः ततोऽप्यनुस्मृतोदकसहायादिन्द्रियार्थसन्निकर्षात् 'उदकम्' इति ज्ञानम् अतो यत् पूर्वमुदकशब्दस्मृतेर्निमित्तं तत् इन्द्रियार्थसन्निकर्षजत्वेनाव्यभिचारिपदापोह्यमिति केचित् संप्रतिपन्नाः। - अपरे तु स्मर्यमाणशब्दसहायेन्द्रियार्थसन्निकर्षजमप्यव्यभिचारिपदापोह्यमेव मरीचिषु 'उदकम्' २० इति शब्दोल्लेखवज्ज्ञानं मन्यन्ते अव्यपदेश्यपदव्यवच्छेद्यं तु यत्र प्रथमतः एवेन्द्रियसनिकृष्टेऽर्थे संकेतानभिज्ञस्य श्रूयमाणाच्छब्दात् 'पनसोऽयम्' इति ज्ञानमुत्पद्यते तत्र शब्दस्यैव तदवगतौ प्राधान्यात् इन्द्रियार्थसन्निकर्षस्य तु विद्यमानस्यापि तवगतावप्राधान्यात् तदेवाव्यपदेश्यपदव्यवच्छेद्यं न पुनरवगतसमयस्मर्यमाणशब्दसचिवेन्द्रियार्थसन्निकर्षप्रभवम् तत्र तत्सन्निकर्षस्यैव प्राधान्याद वाचकस्य च तद्विपर्ययात् । ननु सामग्यां कस्य व्यभिचारः कर्तुः, करणस्य, कर्मणो वा? तत्र २५ स्वाारसंवरणेनाकारान्तरेण ज्ञानजननात् कर्मणो व्यभिचारः कर्तृ-करणयोस्तु तथाविधकर्मसहकारित्वादसाविति मन्यन्ते । भवत्वयं व्यभिचारः न त्वेतन्निवृत्त्यर्थमव्यभिचारिपदोपादानमर्थवत् अनिन्द्रियार्थसन्निकर्षजत्वादेव तन्निवृत्तिसिद्धेः । नहि ज्ञानरूपतेन्द्रियार्थसन्निकर्षजत्वे तत्र सिद्धे तस्माद् यद् अतस्मिंस्तदित्युत्पद्यते तद् व्यभिचारिज्ञानम् तद्व्यवच्छेदेन 'तस्मिंस्तत्' इति ज्ञानमव्यभिचारिपदसंग्राह्यम् । नन्वेवमपि ज्ञानपदमनर्थकम् अव्यभिचारिपदादेव ज्ञानसिद्धेः व्यभिचारित्वं ३० हि ज्ञानस्यैव तद्व्यवच्छेदार्थमव्यभिचारित्वमपि तस्यैवेति ज्ञानपदमनर्थकम् , न; इन्द्रियार्थसन्निकर्षोत्पन्नस्याज्ञानरूपस्यापि सुखस्याव्यभिचारात् तन्निवृत्त्यर्थ ज्ञानपदमर्थवत् । किं पुनः सुखं व्यभिचारि?
तास्मस्तत्'
अव्यभिचारिपना
धारित्वमपि
१ "तद्भावभावितातः"-वृ. ल. टि० । २ "परः"-बृ. ल. टि.। ३ "परः"-बृ. ल. टि० । ४ "शब्दः"-बृ. ल.टि.। ५ "वस्तु"-बृ. ल.टि.। ६ “जगलो निर्जले देशे” इत्यादि-हैम० अनेका. ३,६४४ । ७-वन्नाध्या-बृ०। ८-कारं सं-आ० हा० वि०। ९ "व्यभिचारः"-बृ० टि.। १० "तथाहिमरीचिकायां जलज्ञानस्येन्द्रियार्थसन्निकर्षों नास्ति तद्धि जलं परिच्छिनत्ति न च जलं तत्र विद्यते येन खार्थसन्निकर्षः स्यात् तेन तन्निवृत्तयेऽव्यभिचारिपदं न कार्यमिति"-वृ० ल.टि०। ११ “परः"-वृ. ल.टि.।
"व्यभिचाराव्यभिचारी हि ज्ञानस्य धर्मो न सुखादेः अतस्तदुपादानात् तद्धर्मयोगि ज्ञानं लभ्यत एव किं ज्ञानग्रहणेन । नैतदेवम् । सुखस्यापि सव्यभिचारस्य दृष्टलात् । किं पुनः सुखं व्यभिचारवद् दृष्टम् ? यदेतत् परदाराभिमर्शादिनिषिद्धाचरणसंभवं सुखं तद् व्यभिचारि । ननु सुखस्य कीदृशो व्यभिचारः ? ज्ञानस्यापि कीदृशो व्यभिचारः? अतस्मिंस्तथाभावः सुखस्यापि अतस्मिंस्तथाभाव एव । किं परपुरन्ध्रिपरिरम्भसंभवं सुखं सुखं न भवति ? किं शुक्तिकायां रजतज्ञानं ज्ञानं न भवति ! ज्ञानं तु तद् भवति किन्तु मिथ्या । इदमपि सुखं भवति किन्तु मिथ्या । ननु न सुख मिथ्या तदपि हि आनन्दस्वभावमेव ।