________________
द्वितीये काण्डे -
सामान्यविषयत्वेन व्यापारासंभवादिन्द्रियस्य च स्वलक्षणविषयत्वान्नोभयोरेक विषयत्वमिति न तज्जन्यमेकं ज्ञानं संभवति, नः तयोर्भिन्नविषयत्वस्य "व्यक्त्याकृतिजातयस्तु पदार्थः” [ न्यायद० २२-६५ ] इत्यत्र निषेत्स्यमानत्वात् तद्भावभावित्वाच्चोभयजन्यत्वं ज्ञानस्यावगतमेव । तथाहि चक्षुर्गोशब्दव्यापारे सति 'अयं गौः' इति विशिष्टकाले ज्ञानमुपजायमानमुपलभ्यत एव तद्भावभावित्वेन ५ चान्यत्रापि कार्यकारणभावो व्यवस्थाप्यते तच्चात्रापि तुल्यमिति कथं नोभयजं ज्ञानम् ? न चान्तःकरणाधिष्ठितत्वदोषश्चक्षुषः तेनाधिष्ठानात् शब्दस्य च प्रदीपवत् करणत्वात् । न ह्यत्काले शब्दस्य करणत्वमयुक्तम् श्रोत्रस्यैव तदा करणभावात् शब्दस्य तु तदा ग्राह्यत्वमेव गृहीतस्य चोत्तरकालमन्तःकरणाधिष्ठितचक्षुः सहायस्यार्थप्रतिपत्तौ व्यापार इति भवत्युभयजं 'गौः' इति ज्ञानम् । न चास्य प्रमाणान्तरत्वं युक्तम् उभयविलक्षणत्वात् शाब्देऽव्यपदेश्यविशेषणस्याभावात् प्रत्यक्षे च १० भावादस्य शाब्दत्वात् । न च शब्देनैव यज्जन्यते तच्छाब्दमिति शाब्दलक्षणे नियमः अपि च शब्देन यजनितं तच्छाब्दम् अस्ति च प्रक्रान्ते एतद्रूपमिति कथं न शाब्दम् ? न चैतन्नास्ति न चाप्रमाणम् अव्यभिचारित्वादिविशेषणयोगात् । न चानुमानम् पक्षधर्मत्वाद्यभावात् । प्रत्यक्षमप्येतन्न भवति शब्देनापि जन्यत्वात् । नाप्युपमानम् तल्लक्षणविरहात् । पारिशेष्यात् शाब्दम् । ननु शाब्दमपि न युक्तम् इन्द्रियेणापि जनितत्वात् नः शब्दस्यात्र प्राधान्यात् प्राधान्यं च तस्य प्रभूतविषयापेक्षया १५ यतोऽसौ न क्वचिद् व्याहन्यते तथा च प्रत्यपादि भाष्यकृता - " यावदर्था वै नामधेयशब्दांः” [१-१-४ वात्स्या० भा०] इति । न त्वेवमिन्द्रियं तस्य स्वर्गादौ प्रतिहन्यमानत्वात् । तस्मात् प्राधान्याच्छब्देनैव व्यपदेशः ।
५२२
व्यपदेशकर्मतापन्नज्ञाननिवृत्त्यर्थमव्यपदेश्यमिति विशेषणमिति केचित् प्रतिपन्नाः । तथाहिइन्द्रियार्थसन्निकर्षादुपजातस्य ज्ञानस्य शब्देनाऽनभिधीयमानस्य प्रत्यक्षत्वम् अयुक्तमेतत् प्रदीपेन्द्रिय२० सुवर्णादीनामभिधीयमानत्वेऽपि प्रत्यक्षत्वानिवृत्तेः । न च ज्ञानस्याभिधीयमानत्वे करणत्वव्याहतिः शक्तिनिमित्तत्वात् कारकशब्दस्य । न ह्यभिधीयमानार्थोऽन्यत्र तदैव परिच्छित्तिं न विदधाति । न चायं न्यायो नैयायिकैर्नाभ्युपगतः “प्रमेया च तुलाप्रामाण्यैवत्" [ न्यायद० २-१-१६] इत्यत्र प्रतिपादयिष्यमाणत्वात् । फलविशेषणपक्षेऽप्यभिधीयमानस्य स्वकारण व्यवच्छेदकत्वमस्त्येव । शब्दब्रह्मनिवृत्त्यर्थमेतदिति एतदप्ययुक्तम् अप्रकृतत्वात् । शब्दप्रमेयत्वेऽपीन्द्रियार्थसन्निकर्षोत्पन्नत्वं २५ ज्ञानस्य संभवति किमनेन विशेषणेन कृत्यम् ? तथाहि - इन्द्रियविषयभूतेन रूपेण शब्देन वा जनितं ज्ञानमिति कोऽत्र प्रत्यक्षत्वे विशेषः ? सर्वथा लक्षणं युक्तिमदेव विशेषणं चातिव्यास्यादिदोषनिवृत्त्यर्थ लक्षणे उपादेयम् न परपक्षव्युदासार्थम् ।
इन्द्रियार्थसन्निकर्षादुपजातं शब्देन चाजनितं व्यभिचारिज्ञानं न प्रत्यक्षव्यवच्छेदकमित्यव्यभिचारिपदोपादानम् । इन्द्रियजत्वं च मरीचिषूदकज्ञानस्य तद्भावभावित्वेनावसीयते । मरीच्यालम्बन
१ " प्रत्यक्ष - शाब्दो भयविलक्षणत्वं च न प्रमाणान्तर इत्याह" - बृ० टि० । “प्रत्यक्ष - शब्दोभयलक्षणत्वेन प्रमाणान्तरता गौरिति ज्ञानस्य नाभिधेया कुत इत्याह " -ल० टि० ।
२ भाष्ये तु " यावदर्थं वै नामधेयशब्दाः " - इति पाठोऽस्ति । न्यायवा० ता० टी० पृ० १२५ पं० १४ । ३ " प्रमेयता च तुलाप्रामाण्यवत् ” - न्यायवा० पृ० १९३ । “यथा तुला किल कलयति प्रमाणतां तथा प्रमेयतामपि तुलान्तराश्रयणेन ” बृ० ल० टि० । ४ " सामग्री प्रमाणतापक्षे न केवलम् " - बृ० ल० टि० । ५ अव्यपदेश्य पदस्य शब्दब्रह्मनिवृत्तिपरतां व्याख्यातुकामेन वाचस्पतिमिश्रेण "तत्र नामरहितम विकल्पकं नास्तीति ये विप्रतिपद्यन्ते तन्मतमपाचिकीर्षुरुपन्यस्यति भाष्यकारः" इत्यादिना वैयाकरणीयः शब्दब्रह्मवाद उपन्यस्तः अनन्तरं च सा निवृत्तिपरता " अयमभिसन्धिः-सामानाधिकरण्येन शब्दात्मकत्वं रूपादीनामभिधीयमानं शब्दब्रह्मात्मत्वं वोच्यते श्रूयमाणगौरित्यादिपदभेदात्मत्वं वा" इत्यादिना सविस्तरं दर्शिता - न्यायवा० ता० टी० पृ० १२५ पं० १२ तथा पृ० १२७ पं० ९ । ६-क्षणमुपाआ० हा० वि० । ७- न वाज बृ० विना । ८ " विशेषकम् ” – बृ० ल० टि० । भाष्यादिषु 'अव्यभिचारि' पदस्यैतद् व्यापत्यं दर्शितमस्ति - वात्स्या० भा० पृ० २० पं० २० - । न्यायवा० पृ० ३७ पं० ६ । न्यायवा० ता० टी० पृ० १३० पं० २२-१३२ पं० १४ । न्यायमज० आ० २ पृ० ८८ पं० ७ पृ० ९० पं० ६ ॥ ९ " इन्द्रिय " - बृ० ल० टि० ।