________________
ज्ञानमीमांसा।
५२१
न च तुल्यकारणजन्यत्वात् शान-सुखादीनामेकत्वमिति तन्निवृत्त्यर्थे ज्ञानग्रहणं न कार्यम् तुल्यकारणजन्यत्वस्यासिद्धत्वात् । वक्ष्यति च चतुर्थेऽध्याये-"एकयोनयश्च पाकजोः" [४-१-५ वात्स्या०भा०] । न च तेषामेकत्वमिति व्यभिचारः । प्रत्यक्षविरोधश्च सुप्रसिद्ध एव । तथाहिआल्हादादिस्वभावाः सुखादयोऽनुभूयन्ते ग्राह्यतया च ज्ञानं त्वर्थावगमस्वभावं ग्राहकतयाऽनुभूयत इति ज्ञान-सुखाद्योर्भेदोऽध्यक्षसिद्ध एव । विशिष्टादृष्टकारणजन्यत्वात् सुखादेः सुखादिजात्युत्पाद्य-५ त्वाच्चै न भिन्नहेतुजत्वमसिद्धं ज्ञान-सुखाद्योः अतो बोधजनकस्य ज्ञापनार्थ युक्तं ज्ञानग्रहणम् । ___अव्यपदेश्यग्रहणमप्यतिव्याप्तिनिवृत्त्यर्थम् व्यपदेशः शब्दः तेन इन्द्रियार्थसन्निकण चोत्पादितमध्यक्षम्-शाब्देऽनन्तर्भावात्-स्यात् तन्निवृत्त्यर्थमव्यपदेश्यपदोपादानम् । नन्विन्द्रियविपये शब्दस्य
विपर्ययादौ विषयानुभवखभावलमनुस्यूतमवभाति संशयो हि विषयग्रहणात्मकोऽनुभूयते अनिश्चितं तु विषयं गृह्णाति विपर्ययोऽपि विषयग्रहणात्मक एव विपरीतमसन्तं वा विषयं गृह्णाति न तु विषयग्रहणखभावं सुखं दुःखं चानुभूयते । अन्य एवार्य प्रायैकखभाव आन्तरो धर्मः सुखदुःखादिरिति घजानवद्विषयतयैव ज्ञानं भिनत्ति न खभावभेदेन संशयवदिति । तत्रैतत् स्यात् खप्रकाशत्वात् सुखादेन प्रायैकस्वभावत्वम् । अतश्च ग्राह्यग्रहणोभयस्वभावलाज ज्ञानमेव तदिति । मैवं वोचः । प्रकाशवं ज्ञानेऽपि प्रतिक्षिप्तं प्रतिक्षेप्स्यते तत् कुतः सुखादौ भविष्यति । न हि ग्रहणस्वभावं कश्चित् सुखमनुभवति ज्ञानवदिति । नन्वस्य प्रकाशवानभ्युपगमे सुखादेरुत्पादानुत्पादयोरविशेषात् सर्वदा सुखिवं न कदाचिद्वा स्यादिति । नैतदेवम् । उत्पन्नमेव सपदि सुखं गृह्यते ज्ञानेनेति कथमनुत्पन्नान्न विशिष्यते । प्रत्युत खप्रकाशसुखवादिनामेष दोषः स्वप्रकाशस्य दीपादेः सर्वान् प्रत्यविशिष्टत्वात् । क्वचित् सन्ताने खप्रकाशसुखोत्पादात् तेनैव खप्रकाशेन सुखेनान्योऽपि सुखी स्याद् यस्यापि सुखं नोत्पन्नमिति । किंच किमेकमेव ज्ञानं सर्वसुखदुःखाद्यशेषाकारभूषितमिष्यते उत किंचित् सुखात्मकं किंचिद् दुःखात्मकं ज्ञानमिति । आये पक्षे सर्वाकारखचितज्ञानोपजननादेकस्मिन्नेव क्षणे परस्परविरुद्धसुखदुःखादिधर्मप्रबन्धवेदनप्रसङ्गः । उत्तरस्मिस्तु किंचित् सुखज्ञानं किंचिद्दुःखज्ञानमिति यत्किंचिदसुखदुःखचितं विषयानुभवखभावमपि ज्ञानमनुभूयमानमेषितव्यमेव । तच्च न खच्छम् अपि तु केनचिद् घटादिना विषयेणोपरक्तमन्वयव्यतिरेकाभ्यां च घटाधुपजननापायेऽपि बोधस्वभावमनुवर्तमानं प्रतीयते । तदिदानीं सुखज्ञानमप्यनुभूयमानं सुखेन विषयभावजुषा घटादिनेवोपरज्यते इति गम्यते न स्वरूपेणैव सुखात्मकं ततो भिन्नरूपस्य बोधमात्रस्वभावस्य ज्ञानस्यान्यदा दृष्टवादिति । तस्मान्न बोधरूपाः सुखादयः । अभिन्नहेतुजलादिति चायमसिद्धो हेतुः समवायिकारणस्यात्मनः असमवायिकारणस्यात्मनः संयोगस्य अभेदेऽपि निमित्तकारणस्य सुखवज्ञानवादेर्भिन्नखात् । ननु सुखोत्पादात् पूर्वमनाश्रयं सुखवसामान्यं कथं तत्र स्यात् । कश्चापि सुखहेतुभिः कारकैः संसर्गः असंसृष्टं च कथं कारकं स्यात् । उच्यते । सर्वसर्वगतानि सामान्यानि साधयिष्यन्ते इति सन्ति तत्रापि सुखखादीनि योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः धर्माधर्मवत् । धर्माधर्मी हि सर्वस्य प्राणिनां सुखदुःखहेतोः जायमानस्य शाल्यादेः कार्यस्य कारणं तयोश्च तत्कारणैः बीजक्षितिजलादिभिः सहयोग्यतैव संसर्गः एवं सुखखादीनामपि स्यात् । तस्मानिमित्तकारणभेदा भिन्नानि ज्ञानसुखादीनि कार्याणि ।
निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् । विलक्षणा हि दृश्यन्ते घटादौ पाकजा गुणाः ॥ अपि च ज्ञानमिच्छन्ति न सर्वे ज्ञानपूर्वकम् । सुखदुःखादि सर्व तु विषयज्ञानपूर्वकम् ॥
विषयानुभवोत्पाद्या यत्रापि न सुखादयः । तत्रापि तेषामुत्पत्ती कारणं विषयस्मृतिः ॥ क्वचित्तु सङ्कल्पोऽपि सुखस्य कारणतां प्रतिपद्यते । तस्मात् सर्व सुखादि ज्ञानपूर्वकमेव । ज्ञानमपि ज्ञानपूर्वकमेवेति चेद् उपरिष्टान्निराकरिष्यमाणत्वात् । न हि गर्भादौ मदमूर्छाद्यनन्तरं वा ज्ञानमुपजायमानं ज्ञानान्तरपूर्वकं भवतीति वक्ष्यामः । तेन सुखादीनां वैलक्षण्योपपादनात् सुखादिव्यवच्छेदस्य सिद्धलात्"। न्यायमञ्ज० आ० २ पृ. ७४ पं० ११
१“एकप्रत्यनीकाः पृथिव्यां श्यामादयोऽग्निसंयोगेनैकेन एकयोनयश्च पाकजा इति"-पृ० ३६६ पं० १६।
"व्यभिचारादहेतुः ॥ एकप्रत्यनीकाश्च रूपादयः एकाग्निसंयोगविरोधिनः न चैषामेकत्वमिति अनैकान्तिकम् । एकयोनिखादेकं रागादयः शब्दवदित्यप्यनेनैव प्रत्युक्तम् । एकयोनयो रूपादयो न चैषामेकत्वमिति"।न्यायवा० पृ. ४५० ५० १६ ।
“एकयोनयो हि रूपादयो न चैषामेकलं, यदि पुनस्तत्र रूपादीनां परस्परभेदसिद्धये कश्चित् कारणभेद आस्थीयते स रागादिष्वपि समान इति भावः" । न्यायवा० ता० टी० पृ. ५८९ पं० ४ ।
२ "ज्ञानस्य ज्ञानजात्युत्पाद्यत्वात्"-बृ. ल. टि. । ३ “परः"-बृ० टि। ४ अव्यपदेश्यपदकृत्यचर्चा भाष्य-वार्तिक-तात्पर्यटीकासु उत्तरोत्तरमधिकतया विविधतया च कृता दृश्यते-१-१-४ वात्स्या० भा० पृ. २० पं०९। न्यायवा० पृ.३६ पं० २४ । न्यायवा. ता० टी० पृ. १२७ पं०६ । जयन्तस्तु तां सर्वामपि चचों संगृह्य, समीक्ष्य चातिपल्लवयांचकार-न्यायमज आ०२ पृ. ७७ पं० २१-पृ० ८० पं०६।
६७ सात