________________
५२०
द्वितीये काण्डे
निवृत्त्यर्थत्वात् ‘सं'शब्दोपादानस्य । तथाहि-सम्यग् निकर्षः संनिकर्षः सम्यक्त्वं तु तस्य यथोक्तविशेषणविशिष्टफलजनकत्वेन, नैतत् ; अव्यभिचारादिपदोपादानवैयर्थ्यप्रसक्तेस्तदर्थस्य 'सं'शब्दोपादानादेव लब्धत्वात् , न; अव्यभिचारादिविशेषणोपादानमन्तरेण तत्सम्यक्त्वस्य ज्ञातुमशक्तेः कारणस्य ह्यतीन्द्रियस्य सम्यक्त्वमसम्यक्त्वं वा सम्यगसम्यकार्यद्वारेणैव निश्चीयत इति तत्फलविशेषणार्थम५व्यभिचार्यादिपदोपादानं कारणसाधुत्वावगमाय न व्यर्थम् । नन्वेवमपि 'संशब्दोपादानानर्थक्यम्
अव्यभिचारादिपदोपादानादेव तत्फलस्य विशेषितत्वात्, न; 'संग्रहणस्य सन्निकर्षषट्कप्रतिपादनार्थत्वात् एतदेव सन्निकर्षषकं ज्ञानोत्पादे समर्थं कारणं न संयुक्तसंयोगादिकमिति 'सं'ग्रहणाल्लभ्यते । नन्वेवमपीन्द्रियग्रहणानर्थक्यम्, नः अनुमानव्यवच्छेदार्थत्वात् । तथाहि-'अर्थसन्निकर्षादुत्पन्नम्' इत्यभिधीयमानेऽनुमाने प्रसङ्ग इतीन्द्रियग्रहणमिन्द्रियविषयेऽर्थे सन्निकर्षाद् यदुत्पद्यते ज्ञानं तत् १०प्रत्यक्षमनुमानादिभ्यो व्यवच्छिनत्ति न चानुमानिकमिन्द्रियसम्बन्धादिन्द्रियविषये समुत्पद्यत इति । तथाप्यर्थग्रहणमनर्थकमिति चेत्, न: स्मृतिफलसन्निकर्षनिवृत्त्यर्थत्वात् । तथाहि-आत्माऽन्तःकरणसम्बन्धात् स्मृतिरुपजायत इति तजनकस्यापि प्रत्यक्षत्वं स्यादसत्यर्थग्रहणे न चेन्द्रियार्थसन्निकर्षजा स्मृतिः अतीतस्याऽपि स्मर्यमाणत्वात् तस्य च तदाऽसत्त्वात् । उत्पत्तिग्रहणं कारकत्वज्ञापनार्थम् । हानग्रहणं सुखादिनिवृत्त्यर्थम् ।।
१-कर्षः२ स-आ०। २ "कर्तृभूतम्”-बृ० टि.। ३ स्मृतिस-बृ०। ४-हणं न आ०। ५ "बीजादिवत् कारकोऽर्थसन्निकर्षः दीपादिवद् व्यञ्जकः"-वृ.टि.।
६ “अथ ज्ञानग्रहणं किमर्थ ? सुखादिव्यवच्छेदार्थम् । इन्द्रियार्थसनिकर्षात् सुखदुःखे अपि भवतः तद्वयुदासार्थमाह ज्ञानमिति” । ज्यायवा० पृ० ३६ पं० २२-।
"पृच्छति अथ ज्ञानेति । प्रत्यक्षसमाज्ञातलक्ष्यानुवादेन लक्षणे विधीयमाने ज्ञायत एवैतज् ज्ञानमिति, लोके साक्षा. त्कारिज्ञानहेतोः प्रत्यक्षलादिति भावः । उत्तरं सुखादिव्युदासार्थम् । तदेव हि लक्षणवाक्यमुच्यते यस्य लक्ष्यानपेक्षोऽतिव्याप्त्यव्याप्तिव्युदासो लक्षणपदेभ्य एव प्रतीयते । लक्ष्यानुरोधेन तु लक्षणव्यवस्थापनेऽन्योन्याश्रयत्वमगतिर्वेति भावः ।
सुखादीनां विज्ञानाभिन्नहेतुजत्वेन विज्ञानवादशक्यं व्यावर्तनमिति चेत् । न । अभिन्नहेतुजलासिद्धेः । न खलु यैव चन्दनस्पर्शज्ञानस्योत्पत्तौ सामग्री सैव सुखस्यापीति, अस्ति हि शीतातस्यापि चन्दनेन्द्रियसंयोगाच्छीतस्पर्शज्ञान मिति तद्वदेवास्य सुखमपि भवेत् । अवान्तरसामग्रीभेदेऽपीन्द्रियार्थमनस्कारजखाज ज्ञानजातीयत्वमिति चेत् । न । किञ्चित्कारणमेदेऽपि कार्यभेदस्यानाकस्मिकत्वोपपत्तेः । तदर्थत्वाच्च कारणभेदानुसरणप्रयासस्य । न चोपादानाभेदादभेद इति युक्तम् । भिन्नानामपि ज्ञानानामेकसमनन्तरप्रत्ययोपादानवस्य भवद्भिरभ्युपगतत्वात् । अपि चोपादानाभेदश्च कुतश्चित् कारणभेदात् कार्यभेदश्चेति को विरोधः । अत एवास्माकमभेदेऽप्युपादानस्य पिठरस्यौष्ण्यापराख्यस्य च वहिसंयोगस्य पूर्वरूपादिप्रध्वंसानां कारणानां भेदाद् भिन्नजातीया जायन्ते गन्धरूपरसस्पर्शा इति सिद्धान्तः । तस्मादर्थप्रवणेभ्यो ज्ञानेभ्यस्तदप्रवणतया भिन्नजातीयाः सुखादयो यथाखमनुकूलवेदनीयत्वादिभिलक्षणैरन्योन्यमपि भेदवन्तस्तीव्रसंवेगितया प्रमित्सानपेक्षमानसप्रत्यक्षवेदनीया इति रमणीयम्"।
__ न्यायवा० ता० टी० पृ० १२३ पं० २-। "अथवा सुखादिव्यावृत्त्यर्थ ज्ञानपदोपादानम् । इन्द्रियार्थसन्निकर्षोत्पन्नं हि सुखमपि भवति तत्र तजनक कारकचक्र प्रमाणं मा भूद् ज्ञानजनकमेव प्रमाणं यथा स्यादिति ज्ञानग्रहणम् ।
अत्र शाक्याश्चोदयन्ति न ज्ञानपदेन सुखादिव्यवच्छेदः कर्तुं युक्तः शक्यो वा सुखादीनामपि ज्ञानखभावखात् । ज्ञानस्यैवामी भेदाः सुखं दुःखमिच्छा द्वेषः प्रयत्न इति । कारणाधीनो हि भावानां भेदो भवितुमर्हति समानकारणानामपि तु मेदेऽभिधीयमाने न कारणकृतं पदार्थानां नियतं रूपमिति तदाऽऽकस्मिकत्वप्रसङ्गः । तदुक्तम् ।
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः। तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ इति । तस्माज ज्ञानरूपाः सुखादयः तदभिन्नहेतुजलादिति तदिदमनुपपन्नम् । प्रत्यक्षविरुद्धत्वाद्धेतोः । सुखादि संवेद्यमानमानन्दादिरूपतयाऽनुभूयते ज्ञानं विषयानुभवस्वभावतयेति प्रत्यक्षसिद्धभेदत्वात् कथमभेदे अनुमानं क्रमते । अत एव इदमपि न वचनीयम् । एवमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्त पश्यामः तत्र यथेष्टं सज्ञाः क्रियन्तामिति । संविदो विषयानुभवखभावतयैव प्रतिभासात् सुखादेश्च विषयानुभवखभावानुस्यूतस्याप्रतिभासात् । ज्ञानमेव विषयग्रहणरूपं प्रकाशते न सुखं दुःखं था । यस्तु सुखज्ञानं दुःखज्ञानमिति प्रतिभासः स ज्ञानखभावभेदकृत एव संशयज्ञानं विपर्ययज्ञानमितिवत् । उक्तमत्र संशय