________________
ज्ञानमीमांसा।
रूपादयस्तदर्थाः" ।
] इति तदर्थलक्षणन्यात् अर्थ इति लक्ष्य निर्देशः तदर्थन्वं लक्षणं तदर्थत्वं चेन्द्रियार्थत्वम् । ननु 'तदर्थाः' इत्यतावदेवास्तु तदर्थलक्षणं पृथिव्यादिगुणग्रहणं तु न कर्तव्यम्, न तदर्थत्वेन लक्षणेन ये संगृहीतास्तपां विभागार्थ पृथिव्यादिगुणग्रहणम । तथा चोक्ष्योतर:-"पृथिव्यादिग्रहणेन त्रिविधं द्रव्यमुपलब्धिलक्षणप्राप्तं गृह्यते गुणग्रहणेन सर्वो गुणोऽस्मदाधुपलब्धिलक्षणप्राप्त आश्रितत्व-विशेषणत्वाभ्याम्"[
] एवं च पृथिव्यादिगुणग्रहणं ५ लक्ष्यविभागसूत्रोपलक्षणार्थम् ; नन्वेवमपि रूपादिग्रहणं व्यर्थ गुणग्रहणेन संगृहीनत्वात् , नः विशेषलक्षणप्रतिपादनार्थत्वात् । तथा च प्रतिपादितम्-पृथिव्यादिगुणस्य सतश्चक्षुर्ग्राह्यत्वमेव यस्य तद्रूपं 'चक्षुर्ग्राह्यं यत् तद् रूपम्' इत्यभिधीयमाने घटादावतिप्रसक्तिस्तनिवृत्त्यर्थमबंधारणम् तथापि रूपत्वेऽतिप्रसङ्गः तन्निवृत्त्यर्थं पृथिव्यादिगुणग्रहणम् एवं रसादिष्वपि । “एकादिव्यवहारहेतुः सङ्ख्या" [प्रशस्त०भा०पू०१११ पं०३] इत्यादिविशंपलक्षणं वैशषिकमतप्रसिद्धं सर्वत्र द्रव्यम् । नन्वेवं १० रूपादीनामपि विशेषलक्षणं न वाच्यं तत्रैव प्रसिद्धत्वात् , नः अविप्रतिपत्तिज्ञापनार्थत्वात् रूपादयो हि बहुभिर्विषयत्वेन संप्रतिपन्ना इति पञ्चानामपि लक्षणाभिधानम पुरुषस्य चैतेऽतिशयेनासक्तिहेतवः एतावत्त्वत्रोपयुज्यते इन्द्रियविषयभूतोऽर्थः अर्थशब्देनाभिप्रेतः नार्थमात्रम् । तेन सन्निकर्षः प्रत्यासत्तेरिन्द्रियस्य प्राप्तिः तस्य च व्यवहितार्थानुपलब्ध्या सद्भावः सूत्रकृता प्रतिपादितः तत्सद्भावे च सिद्धे पारिशेप्यात् तत्संयोगादिकल्पना; परिशेपश्चेन्द्रियेण सार्द्ध द्रव्यस्य संयोग एव युतसिद्ध-१५ त्वात् १ गुणादीनां द्रव्यसमवेतानां संयुक्तंसमवाय एव अद्रव्यत्वे सति अत्र समवायात् २। तत्समवेतेषु संयुक्तसमवेतसमवाय एव अन्यस्यासंभवात् प्राप्तेश्च प्रसाधितत्वात् ३। शब्दे समवाय एवाकाशस्य श्रोत्रत्वेन व्यवस्थापितत्वात् शब्दस्य च गुणभावात् गुणत्वेन चाकाशलिङ्गत्वादाकाशसमवायित्वं निश्चितमिति समवाय एवेत्युक्तम् ।। शब्दत्वे समवेतसमवाय एव परिशेषात् ५। समवायाभावयोश्च विशेषणविशेष्यभाव एव परिशेषात् । लक्षणस्य च त्रैविध्यात् कथमेतल्लक्षणं २० व्यवच्छिनत्तीत्यन्यव्यवच्छेदार्थमिन्द्रियार्थसन्निकर्षः कारणमित्यभिधीयते कारणत्वेऽप्यसंभविदोपाशङ्कापरिजिहीर्षयाऽन्याननुयायि कारणवचनं नं त्वन्यानुयायिकारणनिवृत्तिः एवंभृतम्य इन्द्रियार्थसन्निकर्षस्यैव कारणत्वाभिधानम् नत्वन्तःकरणेन्द्रियसम्बन्धस्य तस्याऽव्यापकत्वात् अव्यापकत्वं तु सुखादिज्ञानोत्पत्तावसंभवात् । अथ 'निकर्ष'ग्रहणमेवास्तु 'संग्रहणं व्यर्थम्, नः संशयादिज्ञान
१ लक्षणनि-वा. बा०। २ "अत्र चोद्देशक्रमस्मारिता अर्था लक्ष्यतया प्रतिपत्तव्याः तेषां च लक्षणं तदा इति । तदिति अनन्तरलक्षितानीन्द्रियाणि परामृशति । तेषामिन्द्रियाणामा इन्द्रियैरर्थ्यमानत्वमर्थानां लक्षणम्”-न्यायवा. ता० टी० पृ० २२४ पं० १७-२० । तदर्थत्वं चेन्द्रिया-बृ० ल०। ३ तदर्थत्वं पञ्चेन्द्रिया-वा० बा० ।
४ "पृथिव्यादिग्रहणेन पृथिव्यप्तेजांसि बाह्यकरणग्राह्याणि अपदिश्यन्ते, गुणग्रहणेन च सर्व आथितो गुण इति सङ्ख्यापरिमाण-पृथक्व-संयोग-विभाग-परत्वाऽपरत्व-स्नेह-वेग-कर्मसामान्यविशेषा अनाश्रितश्च ममवायस्तद्धर्मत्वाद् गुण इति" -न्यायवा० पृ० ७२६०२१-२४ । न्यायवा० ता० टी० पृ० २२५ पं० १७
५ “गन्ध-रस-रूप-स्पर्श-शब्दास्तर्हि पृथङ् न वक्तव्याः गुणग्रहणेन ग्रहणात् । पृथिव्यादिगुणास्तदर्थी इति सूत्रे वक्तव्यम् । लघु चैवं भवतीति स एवार्थः सेत्स्यतीति । न कर्तव्यम् । गन्ध-रस-रूप-स्पर्ग-शब्दानां पृथगभिधानमिन्द्रिय. विशेषनियमज्ञापनार्थम् । इन्द्रियाणि गन्ध-रस-रूप-स्पर्श-शब्देषु तत्सामान्येषु नियतानि अन्यत्रानियतानि । तत्र पृथिव्यप्तेजांसि द्वीन्द्रियग्राह्याणि, शेषश्च गुणराशिः सत्ता-गुणत्वे च सर्वेन्द्रियग्राद्ये समवायोऽभावश्च तथा"-न्यायवा० पृ. ७३ पं० १-७ । न्यायवा० ता. टी. पृ० २२५ पं० २३।। ६ "चक्षु ह्यखमेवेति"-बृ. ल. टि. । -भूतोऽर्थश-भां० मा० विना । ८-कर्ष प्र-वा. बा. । ९"पृथक"-बृ० ल.टि.। न्यायवा० पृ. ३१५० १-1 न्यायवा० ता. टी. पृ० १०९५० ४-। न्यायमञ्ज० पृ. ७२ पं० २३॥ प्रशस्त. कं.पृ० १९५५० ९-१०"इन्द्रियादिना"-वृ० ल.टि.। ११ “द्रव्ये इन्द्रियसंयुक्त गुणानाम्"वृ० ल. टि.। १२ “रूपत्वादिषु"-बृ. ल. टि.। १३ “समवायोऽभावश्च विशेषणविशेष्येण ज्ञायते"-बृ. ल.टि.। १४ च तैर्विध्यात् वा. बा० । अत्रायमभिप्रायो भाति-कारणगर्भलेन कार्यगर्भलेन स्वरूपगर्भत्वेन च लक्षणस्य त्रैविध्यं न्यायगतलक्षणमीमांसायां प्रसिद्धम् । तद्यथा-कपालमयखादि जलाहरणादि कम्बुग्रीवादि च यथाक्रम कारणगर्भम् कार्यगर्भम् खरूपगर्भ च घटस्य लक्षणं भवितुमर्हति । अन्यश्चेदभिप्रायो ग्रन्थकारस्य स्यान् नहिं पर्यालोचकैरनुसन्धेयः। १५-ल्लक्षणव्य-भां० मा० आ०।-लक्ष्यं व्य-वृ० ।-लक्षं व्य-वा० बा०। १६ नन्वन्या-वा० वा. विना। १७-गुनया-वा. बा.।