________________
५१८
द्वितीये काण्डेयोगात् प्रामाण्यं न स्यात्-किमित्यर्थक्रियाऽदर्शने तत्समर्थरूपांऽप्रतिपत्तिर्येन प्रकृतविकल्पात् प्रवृत्तिर्न भवेत् । यदपि 'स्मर्यमाणस्यार्थस्य सत्त्वासिद्धेस्तदृत्तिस्मृत्यनन्तरभाविनोऽध्यक्षस्य सत्यता' इत्यादीतरेतराश्रयत्वं प्रेरितं तत् स्वसंवेदनेऽपि समानम् । तथाहि-संवेदनस्य सत्यत्वे तत्वसंवेदनस्य सत्यवेदिता तस्याश्च तत्सत्यतेति कथं नेतरेतराश्रयत्वम् ? 'यथा च लिङ्गनिश्चयाद विशदतनोरनु
तिरविशदावभासा पृथगवसीयते न तथा प्रकृतविकल्पात् पृथगविकल्पिका मतिः कदाचिदप्यनुभूयते' इति तत् सत्यमेव, निरंशक्षणिकैकपरमाण्ववभासस्थासत्त्वप्रतिपादनात् । यदपि “न चापि लिङ्गतः पश्चादिन्द्रियस्य प्रवर्तनम्" इत्यादि प्रत्यंगि(प्रत्यग्गि)रयोपन्यस्तम् तत् सर्वमयुक्ततया स्थितम् । यदपि 'जात्यादेरभावात् तद्विशिष्टार्थप्रतिपत्तिः सविकल्पिका न संभवति' इति, तदपि
प्रतिक्षिप्तत्वान्न पुनः प्रतिसमाधानमर्हति । यच्च 'फलयोग्यता परोक्षेति नाध्यक्षमतिर्निश्चयात्मिका १०तत्र प्रवर्तते' इति, तदपि प्रतिविहितमेव । यँच्च 'दर्शनपरिणत्यनवगंतं फलसम्बन्धित्वमवगच्छन्ती कथं
न भिन्नविषया' इति, तत् सिद्धमेव साधितम् तद्व्यतिरेकेण दर्शनपरिणतेरविकल्पिकाया अभावात् । यदपि 'रूपदर्शनाल्लिङ्गात् परोक्षार्थक्रियायोग्यताध्यवसायानुमानमुदयमासादयद् व्यवहृतिमुपजनयति' इति, तदप्ययुक्तम् फलजननयोग्यतायाः परोक्षत्वासिद्धेः । प्रतिभासमानरूपस्य चानिश्चितस्य लिङ्गत्वायोगादनुमानात् तन्निश्चये अनवस्थाप्रतिपादनात् अध्यक्षतस्तन्निश्चये च सिद्धं निर्णयात्मक१५मध्यक्षम् । यदपि 'अनिश्चयात्मकमध्यक्षमभ्यासदशायां प्रवृत्तिमुपरचयद् दृष्टम् तदप्यसङ्गतम्।
शब्दोल्लेखशून्यस्यापि सावयवैकरूपार्थाधिगतिस्वभावस्य सविकल्पकतया व्यवस्थापनात् तमन्तरेणाभ्यासदशायामपि प्रवृत्त्यनुपपत्तेः। यत् पुनः सर्वदाऽनुमानात् प्रवृत्त्यभ्युपगमे लिङ्गग्रहणाभावतोsध्यक्षेणाऽनवस्थादूषणमभ्यधायि तेद् युक्तमेव । यदपि 'पौर्वापर्येऽप्रवृत्तमध्यक्षं कथं तादृग्लिङ्ग
ग्रहणे क्षमम्' इति पूर्वपक्षमुत्थाप्य 'लोकाभिमानादेवाऽध्यक्षं लिङ्गग्राहि व्यवहारकृच्च तत्त्वतस्तु २० स्वसंविन्मात्रत्वान्न प्रत्यक्षानुमानभेदः' इत्युत्तराभिधानम्, तदप्यसङ्गतम्। प्रत्यक्षानुमानभेदस्यापारमार्थिकत्वे खसंवेदनमात्रस्याप्यपारमार्थिकत्वप्रसक्तेः सर्वशून्यतापत्तिरिति निर्विकल्पकत्वादिव्यवहारो दुरापास्त एव स्यात् । न च शून्यतैवास्त्वित्यभिधानं युक्तिसङ्गतम् प्रमाणमन्तरेण तदभ्युपगमस्याप्यघटमानत्वात् इत्युक्तत्वात् । तदेवं सकलबाधकापाये साधकप्रमाणविषयत्वात् सविकल्पकमध्यक्षं सिद्धमिति व्यवस्थितं प्रमाणं स्वार्थनिर्णीतिस्वभावज्ञानमिति। २५ अत्र च स्वस्य ग्रहणयोग्योऽर्थः स्वार्थ इत्यस्यापि समासस्याश्रयणाद् व्यवहारिजनापेक्षया यस्य यथा यत्र ज्ञानस्याविसंवादस्तस्य तथा तत्र प्रामाण्यमित्यभिहितं भवति तेन संशयादेरपि धर्मिमात्रापेक्षया न प्रामाण्यव्याहतिः । एतेन “प्रत्यक्षं कल्पनापोढमभ्रान्तम्" इति प्रत्यक्षलक्षणं सौगतपरिकल्पितमयुक्ततया व्यवस्थापितम् ।
[३ प्रमाणविशेषनिरूपणम् ]
[प्रत्यक्षम् ]
[प्रत्यक्षे निरूपयितव्ये पूर्व सौगतमतविरोधितया नैयायिकसम्मतस्य प्रत्यक्षलक्षणस्योपन्यासः]
तत्राऽऽहुर्नैयायिकाः-मा भूत् सौगतपरिकल्पितं निर्विकल्पकमध्यक्षं प्रमाणम् “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्” [न्यायद-१-१-४] इत्येतल्लक्षण
लक्षितं तु प्रत्यक्षं प्रमाणम् । अस्यार्थः-इन्द्रियं द्रव्यत्वकरणत्वनियताधिष्ठानत्वातीन्द्रियत्वे सत्य३५परोक्षोपलब्धिजनकत्वात् चक्षुरादि मनःपर्यन्तम् तस्यार्थः परिच्छेद्य इन्द्रियार्थः। “पृथिव्यादिगुणों
१-पाप्र-बृ० ल० वा. बा०। २“खसंवेदनसत्यवेदितायाः"-बृ. ल. टि०। ३ “सविकल्पसंवेदनम्"-बृ. ल० टि०। ४-सस्य स-आ० हा० वि० । ५ पृ. ४९६ पं० ३१ । ६ पृ. ४९६ पं० ३९ । ७ यच्च यद्दर्श-आ० । पृ. ४९८ पं० ३। ८-गतिफल-वा० बा०। ९पृ. ४९८ पं० २२। १० पृ. ४९९ पं० १३-११ तदयुहा० वि० । पृ. ४९९ पं० १५। १२ पृ. ४९९ पं० १८। १३ पृ. ४९९ पं० २०- १४ पृ. ४८८ पं० ११, टिप्पण । १५पृ. ४८८ टि०९।१६ “गन्ध-रस-रूप-स्पर्श-शब्दाः पृथिव्यादिगुणास्तदर्थाः"-ज्यायद०१-१-१४ ।