________________
ज्ञानमीमांसा ।
"वाग्रूपता चेद् व्युत्क्रामेत्" इत्यादि दोषाभिधानम् तदपि सिद्धसाध्यतया निरस्तम् । यच्च 'समानकायोर्वा भावयोर्विशेषणविशेष्यभावमिन्द्रियप्रतिपत्तिरधिगच्छति भिन्नकालयोर्वा' इति पक्षद्वेयेऽपि दोषाभिधानम् तदप्यसङ्गतम् यत्र हि समानासमानकालविशेषणविशिष्टोऽर्थः अबाधिताकाराक्षजप्रतिपत्तौ प्रतिभाति सा तद्राहिकाऽभ्युपगम्यते नाऽन्येति कुतोऽतिप्रसङ्गदोषावकाशः ? यथा च स्तम्भाकारोत्पन्नैकपरमाणुग्रहणप्रवृत्तं संवेदनं भिन्नदेशं परमाण्वन्तरमवभासयति - अन्यथा प्रति- ५ भासविरतिप्रसङ्गात् - तथा विशेषणग्रहणप्रवृत्तं भिन्नकालविशेष्यावभासि तदभ्युपगन्तव्यम् अन्यथा विशेषणविशिष्टार्थावभासाभावो भवेदित्युक्तं प्राक् । न च विशेषणविशेष्यभावस्यानवस्थानान्न समानकालयोरपि तयोस्तद्भावप्रतिपत्तिः अनेक धर्म कलापाक्रान्तस्य वस्तुनो विशिष्टसामग्रीप्रभवप्रतिपत्त्या प्रतिनियतधर्मविशिष्टतया ग्रहणात् । न चार्वागद्दग्दर्शने अशेषधर्माध्यासितवस्तुस्वरूपप्रतिभासः कस्यचित् कथञ्चित् कयाचित् प्रतिपत्त्या यथाक्षयोपशमं ग्रहणात् । न च तत्प्रतिपत्त्याऽगृह्य- १० माणस्यात्यन्तिकस्ततो भेदः असत्त्वं वा क्षणिकत्वादेरपि नीलप्रतिपत्त्या प्रतीयमानस्य तथत्वप्रसक्तेरित्युक्तत्वात् । यदपि 'पुरोवर्त्तिनि रूपे प्रवृत्तमक्षं यद्यतीते विशेषणादौ प्रतिपत्तिमुपजनयति अतिचिरमुपगतासु पदार्थ परम्परास्वपि प्रतिपत्तिमुपजनयेत्' तदप्ययुक्ताभिधानम् यतो यदेव ह्यक्षमतौ परिस्फुटमवभाति तत्रैवाक्षं प्रतिपत्तिमुपरचयतीति व्यवस्थाप्यते अन्यथैकस्तम्भपरिणत्यापन्नैकपरमाणुग्रहणज्ञानजननप्रवृत्तमक्षं तदपरपरमाणुग्रहणज्ञानजननवत् सकलपदार्थ ग्राहिज्ञानजननेऽपि प्रवर्तेत १५ भेदाविशेषात् भवदभ्युपगमेनानन्तरातीतक्षणग्रहणज्ञानजननप्रवृत्तं वा सकलातीतक्षणग्रहणज्ञानजनने वा प्रवर्तेत अतीतत्वाविशेषात् । अथ यदेव तज्ज्ञाने प्रतिभाति तज्जनन एव तस्य व्यापारः परिकल्प्यते तदितरत्राऽपि समानम् । न च विशेषणादयस्तदाऽसन्निहिता एवैकान्ततो येन तान् प्रति प्रत्यक्षबुद्धिर्निरालम्बना भवेत् निरन्वयक्षणक्षयस्य निषिद्धत्वात् कथञ्चिदनुगतस्य च प्रसाधितत्वात् । यदपि 'सुखादिव्यतिरिक्त स्याक्षप्रभवसंवेदनस्यार्थावभासकत्वं प्रतिपादितम्' तदपि सिद्ध- २० साधनमेव । यच्च 'सुखादिवद् विकल्पोऽपि नार्थसाक्षात्करणस्वभावः' इति, अत्र यद्यविशेषेण विकल्पमात्रमभिधीयते तदा सिद्धसाध्यता । अथ प्रकृतो विकल्पस्तदाऽसिद्धम् तमन्तरेणापरस्यार्थसाक्षात्कारिणोऽविकल्पस्याभावात् । यदपि 'यदि नाम पुरोवर्तिनमर्थ विकल्पमतिरुद्योतयति तथाप्यर्थक्रियासमर्थरूपापरिच्छेदान्न तत्र प्रवृत्तिमारचयितुं क्षमा' इति, तदप्ययुक्तम्; अर्थक्रियासमर्थरूपस्य तस्या एव परिच्छेदकत्वेन प्रवर्तकत्वात् अन्यथा प्रवृत्तेरभावप्रसङ्गात् - तीमन्तरेण कस्यचित् २५ प्रत्ययस्य तद्रूपपरिच्छेदकत्वेन प्रवर्तकत्वायोगादिति प्रतिपादनात् । अत एव 'यदि नयनप्रसरमनुसरन्ती प्रथमा मतिर्न तत्त्वं प्रत्येति पश्चादपि नैव प्रत्येष्यति स्मरणसहायस्यापि लोचनंस्याविषयतयैकत्वे प्रतिपत्त्यजनकत्वात्' इत्यादि सर्व प्रतिक्षिप्तम् स्थिरस्थूरार्थावभास्यक्षप्रभवसंवेदनस्य प्राप्तिपर्यवसानफलनिमित्तस्य स्वसंवेदनाध्यक्षतः प्रसिद्धेस्तथापि तत्त्वस्याक्षप्रतिपत्त्यविषयत्वे संवेदनस्य स्वसंवेदनाध्यक्षविषयताऽपि न भवेत् । अबाधितप्रतिपत्तिविषयत्वादिकं च सर्वमन्यत्रापि समानम् । ३०
५१७
अथ स्वसंवेदनं संवेदनाभावे न दृष्टमिति तत् तद्विषयम् संवेदनं तु विपर्ययान्न तद्विषयम्; ननु किं क्षणिक निरंशैकपरमाण्वाकारसंवेदनाभावे तन्न दृष्टम् उत तद्विपरीत संवेदनाभावे ! यद्याद्यः पक्षः स न युक्तः सर्वदा तदभाव एव तस्य दृष्टेः । अथ द्वितीयस्तदा विपर्ययसिद्धिः । यथा स्थिरस्थूराकारसंवेदनाभावेऽभवत् स्वसंवेदनं तद्विषयं सिध्यति तथा स्थिरस्थूरार्थाभावेऽभवत् संवेदनं किं न तद्विषयं सिध्यति येन लोचनाविषयत्वं तत्त्वस्य भवेत् ? यथा च पूर्वदेशदशादर्शना- ३५ नामग्रहणेऽपीदानीन्तनदर्शनेन स्वग्राह्यस्य तद्विवेकः प्रतीयते तथा तेन तस्य तत्संसृष्टता किमिति नावगम्यत इति न युक्तं पूर्वदर्शनाद्यप्रतीतौ तद् दृष्टतादिकं तस्य न प्रत्येतुं शक्यमित्याद्यभिधानम् । यदि च प्राप्याप्रतीतावपि दृश्यदर्शनेन स्वग्राह्यस्य तदेकत्वं प्रतीयते - अन्यथा तस्याविसंवादकत्वा
१ पृ० ४९१ पं० १ ।
२०४९३ ० २६–१ ३ " आत्यन्तिकभेद" - बृ० ल० टि० । ४ पृ० ४९४ पं० ७ । ५ वर्तते भे-आ० हा० वि० । ६-वर्तते अ-आ० हा ० वि० । ७ " विशेषणेऽपि " बृ० टि० । ८ पृ० ४९४ पं० १९ । ९ पृ० ४९४ पं० २१ । १० पृ० ४९४ पं० ३२ । ११ “ सविकल्पमतिम् " - बृ० ल० टि० । १२- नस्य वि-बृ० ल० विना । १३ पृ० ४९५ पं० ८ । १४ “ एकत्वस्य " - बृ० ल० टि० । १५ “पूर्वदेशदशादि" - बृ० ल० टि० ।