________________
५१६
द्वितीये काण्डेयोग्य वस्तु तदेवावतरेत्। ननु स्तम्भादिकं व्यवहितमपि योग्यम् अञ्जनादिकं त्वतिसन्निहितमप्ययोग्यमित्येतदेव कुतः? स्तम्भादेः प्रतिभासनात् तत् तत्र योग्यं नेतरत् विपर्ययादिति चेत्, न इतरेतराश्रयदोषप्रसक्तेः। तथाहि-प्रतिभासनात् स्तम्भादि योग्यं ततश्च तत्प्रतिभासनमिति कथं नेतरेतराश्रयत्वम् ? अथ न योग्यतातस्तत्प्रतिभासनव्यवस्था किन्तु तत्प्रतिभासनात् तद्योग्यता ५ व्यवस्थाप्यते तर्हि तत्प्रतिभासनं कुतो व्यवस्थाप्यम् ? स्वसंवेदनादिति चेत्, ननु यत्प्रतिभासः संवेद्यते तत् तत्र योग्यमितरच्चायोग्यमिति व्यवस्थायां तत्सन्निधानासन्निधाने क्वोपयोगिनी? एवं च यद्यसन्निहितस्यापि नामादिविशेषणस्याध्यक्षमतौ प्रतिभासः को विरोधोऽध्यक्षत्वेन? विरोधे वा चिरातीतभविष्यदर्थराशेरसन्निहितस्य बुद्धसंवेदने प्रतिभासनाध्यक्षताविरोधस्तस्यापि भवेत् । अथ विशदत्वात् तज्ज्ञानस्य नाध्यक्षताविरोधः तद् विशेषणविशिष्टार्थावभासिन्यप्यध्यक्षशाने १० समानम् । एतेन 'उपाधीनामुपाधिमतः पूर्वकालत्वे उपाधिमद्राहिणा ज्ञानेनासन्निहितत्वेनाग्रहणान्न
तद्विशेषणविशिष्टार्थग्राहिण्यध्यक्षमतिर्विशदा संभवति' इति प्रत्युक्तम् बुद्धज्ञानेऽप्यनेन न्यायेन वैशद्याभावतोऽनध्यक्षतापत्तेः । न चासन्निहितस्यापि विशेषणस्याध्यक्षप्रतिभासे सकलस्याप्यसन्निहितस्य प्रतिभासप्रसक्तिः यतो यस्यैवाऽसन्निहितस्यापि प्रतिभासः संवेद्यते तदेव तत्र प्रतिभातीत्य
भ्युपगन्तव्यम् अन्यथा अनन्तरातीतार्थक्षणस्याध्यक्षप्रतिभासे चिरतरातीतस्याप्यतीततया प्रति१५भासप्रसक्तिरित्यनाद्यतीतजन्मपरम्पराप्रतिभास्याग्दृगध्यक्षं भवेत् । यच्च 'वाचोऽव्यापितयाऽपदार्थात्मतया च नार्थदेशे सन्निधिरिति तदर्शने न सा प्रतिभाति' इति तत् सिद्धमेव साधितम् । यच्च 'व्यवहितायास्तु वाचः प्रतिभासे निखिलातीतार्थपरम्परा प्रतिभासताम्' इति तदसङ्गतम् न ह्येकस्य व्यवहितस्य प्रतिभासे अतीतक्षणवत् सकलस्य व्यवहितस्य चिरातीतक्षणस्येव प्रतिभासः संभवीत्युक्तत्वात् । यच्च 'समनन्तरप्रत्ययाद्' बोधरूपतेव वाग्रूपताऽपि वाचकस्मृतिसन्निहितोदया २० भविष्यति' इति तद्युक्तमेव । यच्च 'हेतुविषयभेदादक्षस्मृतिप्रभवसंवेदनस्मरणयोर्भेदप्रसक्तिः' इति,
तदसङ्गतमेवः चक्षुरूपालोकमनस्कारप्रभवस्य यथा रूपज्ञानस्य हेतुभेदेऽप्येकसामग्रीप्रभवत्वादमेदस्तथा विशिष्टशब्दस्मरणमनस्कारसचिवसामग्रीप्रभवस्य 'रूपम्' इत्यल्लेखवतो विशदस्यैकतया प्रतीयमानस्य किमिति मेदो भवेत् ? यथा हि चक्षुषो रूपग्रहणप्रतिनियमः बोधाञ्चिद्रूपता आलोकाद विशदतेत्याद्यनेकधर्माकान्तस्य रूपज्ञानस्यैकरूपतया प्रतिभासनादेकता तथा विशिष्टाच्छब्दस्मरण२५मनस्काराद 'रूपम्' इति विशिष्टोल्लेखाक्रान्तस्यैकतया प्रतीयमानस्य बोधविशेषस्यैकरूपता युक्ति
सङ्गतैव सामग्र्यन्तर्गतकारणभेदेऽपि सामग्रीलक्षणस्य कारणस्याभिन्नत्वात् । यदपि 'तटस्थवाग्रपताविशिष्टा वा अर्थमात्रा गृह्यन्ते वापतापन्ना वा' तत्पक्षद्वयमप्यनभ्युपगमान्निरस्तम् विशिष्टशब्दवाच्यतया तु विशिष्टक्षयोपशमसव्यपेक्षेन्द्रियजप्रतिपत्त्याऽर्थमात्रा गृह्यन्ते एव तद्वाच्यत्वं चार्थमात्राणां कथंचिदनन्यभूतो निजो धर्म इति प्रतिपादितं शब्दप्रामाण्यं व्यवस्थापयद्भिः केवलं ३० तद्वाच्यताप्रतिपत्तिस्तासां मैतिः श्रुतं वा? इत्यत्र विचारः स च यथास्थानं निरूपयिष्यते । अक्ष.
प्रभवा तु 'रूपमिदम्' इति प्रतिपत्ती रूपशब्दवाच्यताविशिष्टार्थग्राहिण्येका स्वसंवेदनाध्यक्षतोऽनुभूयत एव अस्या अपलापे खसंवेदनमात्रस्याप्यपलापप्रसक्तेः शून्यतामात्रमेव स्यात् । न च शब्दगोचरोऽर्थ इन्द्रियाविषयः सामान्यविशेषात्मनस्तस्याक्षप्रभवप्रतिपत्तौ प्रतिभासनात् । न च प्रतिभासमानस्याविषयत्वम् अतिप्रसङ्गात् । यच्चे 'न संविदन्तरप्रतीतोऽर्थः संविदन्तरप्रतीतस्य ३५ विशेषणम्' तद्युक्तमेव विशिष्टशब्दवाच्यताविशेषणस्य रूपस्य 'रूपमिदम्' इत्येकप्रतीतिविषयत्वा
भ्युपगमात् । अत एव 'केयं तदनुरक्तता' इति विकल्पत्रये यद् दोषाभिधानं तदनभ्युपगमादेव निरस्तम् । यदपि 'यदि नामपरिणद्धस्य सकलार्थस्य संवित् तदार्थसंवेदनमेव न भवेत्' इति दोषाभिधानम् तदप्यनभ्युपगमान्निरस्तम्नहि शब्दानुविद्धार्थप्रतिपत्तिरेव सविकल्पिका तथाभ्युपगमे
सविकल्पप्रतिपत्त्युत्पत्तिरेव न भवेदित्युक्तं प्राक् । 'अर्गृहीतसंकेतस्य पुंसोऽर्थप्रतिपत्तिनिर्विकल्पिका' ४० तथा 'अश्वं विकल्पयतो गोप्रतिपत्तिः गोशब्दोल्लेखविकला' इति, अत्रापि प्रतिविहितमेव । यदपि
१-भासा-आ० हा० वि०। २ पृ. ४८९ पं०९- ३ पृ. ४८९ पं० १६- ४ मतिश्रु-बृज भी मां० विना। ५ पृ. ४९० पं०४। ६ पृ. ४९.पं. ७-९। ७ पृ. ४९. पं० १३ । “नाना परिणद्धः संबद्धः वाक्संसृष्ट इति भावः"-वृ० ल.टि.। ८पृ० ४९० पं०१७॥ ९पृ. ४९. पं० १९।