________________
ज्ञानमीमांसा ।
"विशेषणं विशेष्यं च सम्बन्धं लौकिकीं स्थितिम् । गृहीत्वा संकलय्यैतत् तथा प्रत्येति नान्यथा” ॥ [
५१५
]
इत्युक्तम् तदपि निरस्तं द्रष्टव्यम्; चित्रपतङ्गस्येवैकानेकात्मनो वस्तुनः प्रथमतयैव प्रतिभासनात् एवं कल्पनाया दूरापास्तत्वात् । यदपि -
"संकेतस्मरणोपायं दृप्रं सङ्कलनात्मकम् ।
पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम्" ॥ [
५
]
इत्यभिधानम्, तदप्यसङ्गतम् ; संकेतकालानुभूतशब्द स्मरणमन्तरेणापि व्यवसायात्मकस्य ज्ञानस्याक्षप्रभवस्य प्रतिपादनात् अन्यथा विकल्पानुत्पत्तेरित्युक्तत्वात् । तस्मात् पुरोवर्तिस्थिरस्थूलस्वगुणपर्यायसाधारणस्तम्भादिप्रतिभासस्याक्षप्रभवस्य निर्णयात्मनः स्वसंवेद्नाध्यक्षतोऽनुभूतेः स्वार्थनिर्णयात्मकमध्यक्षं सिद्धम् । न चेदं मानसम् एतद्व्यतिरेकेण निरंशैकपरमाणुग्राहिणोऽविकल्पस्य कदाचिदप्य १० ननुभवात् । यदि चायं स्तम्भादिप्रतिभासो मानसो भवेत् विकल्पान्तरतोऽस्य निवृत्तिर्भवेत् न चैवम् क्षणक्षयित्वमनुमानान्निश्चिन्वतोऽश्वादिकं वा विकल्पयतस्तदैवास्य प्रतिभाससंवेदनात् । ततोऽध्यक्षप्रमाणसिद्धत्वान्न सविकल्पकत्वे साधकप्रमाणाभावः । तथानुमानादपि सविकल्पकत्वमध्यक्षस्य नासिद्धम् । तथाहि यद् ज्ञानं यद्विषयीकरोति तत् तन्निर्णयात्मकतया अनुमानमिवान्यादिकम् विषयीकरोति च स्वार्थमध्यक्षमिति । न चाँस्याध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्यया- १५ पदिष्टत्वम् पक्षस्य चाध्यक्षबाधः साध्यविपरीतार्थोपस्थापकाध्यक्षस्य निषिद्धत्वात् । न च स्वार्थविषयीकरणं विज्ञानस्यासिद्धम् प्राक् तस्य प्रसाधितत्वात् । अतो नासिद्धो हेतुः । न च सपक्षावृत्तित्वादसाधारणानैकान्तिकः स्वार्थनिर्णयात्मकत्वेन प्रसिद्धेऽनुमाने अस्य वृत्तिनिश्चयात् । न चानुमानस्याप्यर्थविषयीकरणमन्तरेण तन्निश्चयस्वरूपता संभवति समारोपव्यवच्छेदकत्वादेः प्रामाण्यनिमित्तस्य तत्र निषिद्धत्वात् तदन्तरेण प्रामाण्यस्यैवायोगात् । न च निर्णयात्मकार्थविषयीकरणयोर - २० नुमाने साहचर्यदर्शनेऽपि विपर्यये वाधकप्रमाणाभावतः संदिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकः तदुत्पत्तिसारूप्यादेर्निर्णय स्वभावताव्यतिरिक्तस्यैकान्तवादे अर्थविषयीकरण निबन्धनस्य विज्ञानेऽसंभवात् तदसंभवस्य च प्राक् प्रतिपादितत्वात् । ततो न सन्दिग्धविपक्षव्यावृत्तिकोऽपि । अत एव न विरुद्धः विपक्षवृत्तेरेव विरुद्धत्वात् । ततोऽसिद्धविरुद्धानैकान्तिकादिदोषविकलाद् भवत्यतः साधनाद् विवक्षितसाध्यसिद्धिरिति न तत्साधकप्रमाणाभावान्निर्णयात्मकाध्यक्षाभावः । }
२५
नापि तद्वाधकप्रमाणसद्भावात् तस्यैवासिद्धेः। तथाहि —तद्वाधकमध्यक्षम् अनुमानं वा प्रकल्प्येत प्रमाणान्तरानभ्युपगमात् । न तावद्ध्यक्षं तद्बाधकं संभवति अविकल्पप्रसाधकस्य तस्य तद्वाधकत्वात् न च निरंशक्षणिकैकपरमाणुसंवेदनं स्वसंवेदनाध्यक्षतः सिद्धमिति प्राक् प्रतिपादितमिति नाध्यक्षं तद्वाधकम् । नाप्यनुमानं तद्वाधकं संभवति अध्यक्षाप्रवृत्तौ तत्पूर्वकस्य तैस्यापि तत्राप्रवृत्तेः । यदपि 'यद् यथा प्रतिभाति तत् तथा सद्व्यवहृतिमवतरति' इत्यादि निर्विकल्पकाध्यक्षप्रसाधकमनुमान- ३० मुपन्यस्तं तत्रापि प्रत्यक्षानुमाननिराकृतत्वं पक्षदोषः नामादिविशेषणोल्लेख विविक्ततया नाक्षमतिरुद्रातीति हेतोरसिद्धता च जातिगुणक्रियाद्यनेकविशेषणविशिष्टस्थिरस्थूराकारस्तम्भादिविषयाक्षज प्रत्ययस्यैकानेकस्वभावस्य विशेषणविशिष्टतया स्वसंवेदनाध्यक्षतो निर्णयात् अस्य च प्राक् प्रसाधितत्वात् । यदपि 'विशेषणपरिष्वक्तवपुषः संविदोऽध्यक्षत्वविरोधात्' इत्युक्तम् तदपि प्रलापमात्रम् ; स्वसंवेदनाध्यक्षप्रसिद्धे स्वरूपे विरोधायोगात् अन्यथाऽतिप्रसङ्गात् । यदपि 'सन्निहितमर्थमवतरत्य- ३५ ध्यक्षं नामादिकं च विशेषणमसन्निहितमिति न तद्योजनामवतरीतुं क्षमम्' इति तत्रापि यदि सन्निहितमर्थ मध्यक्ष मवतरेत् पक्ष्ममूलपरिष्वक्तमञ्जनादिकं सन्निहितं किं नावतरेत् ? अथ यत् प्रतिभास
१ अष्टस० पृ० ११९ पं० १० ।
२ "विशेषणं विशेष्यं च" इत्यादिकल्पनायाः " बृ० ल० टि० । ३ दृष्टसङ्क
आ० हा० वि० विना । ४- नाद्यथा आ० हा० वि० विना । ५- स्थूरस्व - बृ० वा० बा० । ६- हिणो वि-बृ० विना । ७ " स्वार्थविषयत्वादिति हेतोः " - बृ० ल० टि० । ८- स्य वा बृ० । ९ त्वादन्त बृ० ल० । १०- प्यादिनि-आ० हा ० वि० । ११ “ अनुमानस्य " - बृ० ल० टि० । १२ पृ० ४८८ पं० २२ । १३ पृ० ४८८ पं० २३ । १४ पृ० ४८८ पं० २५ ।