________________
५१४
द्वितीये काण्डेतदपि न वक्तव्यम् तथा च विज्ञानाद्वैतमपि कुतः? न चान्यग्रहणविमुखज्ञानसंवेदनादेवमुच्यते अन्यत्राप्यस्य समानत्वात् । तदेवं चित्रप्रतिभासमभ्युपगच्छता चित्रमेकं ज्ञानमभ्युपगन्तव्यमिति अभ्यासदशायामपि व्यवसायात्मकमध्यक्षं सिद्धिमासादयेत् । ___ यदपि 'यद्यर्थग्रहणं व्यवसायोऽविकल्पे तथा नामकरणमथ जात्यादिविशिष्टार्थग्रहणं तत् ५ प्रत्यक्षेऽसंभवि' इत्युच्यते, तदपि निरस्तं द्रष्टव्यम् ; अर्थग्रहणस्य विकल्पस्वर्भावनान्तरीयकत्वात् । यदि ोकैकपरमाणनियतभिन्नदर्शने तन्नाम क्रियेत तदा स्यादेतत न चैवम स्थलैकप्रतिभासाभाव यदपि 'जात्यादिविशिष्टग्रहणं प्रत्यक्षेऽसंभवि' तदपि सदृशपरिणामसामान्याभ्युपगमे सिद्धम् तथाभूतस्य तस्याध्यक्षे प्रतिभाससंवेदनात् तथाभूतस्यापि तस्य निराकरणे "नो चेद्धान्तिनिमित्त-"
ईत्यादेस्तथा "अर्थेन घटयेदेनाम्” इत्याँदेश्चाभिधानमसङ्गतं भवेत् । तथाहि-शुक्तिका-रजतयोः १० कथञ्चित् सदृशपरिणामाभावे रूपसाधर्म्यदर्शनाभावाद् अन्यथाऽतिप्रसङ्गात्। अथ मरीचिकासु यथा जलाभावेऽपि तद्दर्शनं तथा तयोर्भविष्यति न च तयोस्तदर्शनं सत्यम् तत्परिणामस्य परमार्थतस्तत्रीभावात् इतरेतराश्रयदोषप्रसक्तेः । तथाहि-तत्परिणामस्य परमार्थतस्तयोः सत्त्वे तद्दर्शनस्य सत्यता ततश्च तत्परिणामस्य पारमार्थिकत्वमिति व्यक्तमितरेतराश्रयत्वमिति चेत्, असदेतत् सर्वभावे
वेवमव्यवस्थाप्रसङ्गात् । तथाहि-स्वसंवेदनमविकल्पमध्यक्षं तथाप्रतीतेयदि सिद्धिमासादयति तत १५एव सदृशपरिणामोऽपि सेत्स्यति अनवगतसम्बन्धस्यापि खण्डमुण्डादिषु समानप्रत्ययोत्पत्तेः तस्य
भ्रान्तत्वे संवेदनेऽपि तत्प्रसक्तेः । अथ सत्येव स्वसंवेदने तद्दर्शनमिति न भ्रान्तम्, न; इतरेतराश्रयदोषप्रसक्तेः। तथाहि-खसंवेदनस्य सत्यत्वे तदर्शनमभ्रान्तम् अतश्च तत्सत्यत्वमिति कथं नेतरेतराश्रयदोषः? अथ बाधकासद्भावान्नायं दोषः सदृशपरिणामस्य किं बाधकमिति वक्तव्यम् ? विशेषेभ्यस्तस्य भेदे सम्बन्धासिद्धिः अभेदे विशेषा एव न तत्सद्भाव इति बाधकमिति चेत्, न; एकान्त२०भेदाभेदपक्षस्य तत्रानिष्टस्त एव विशेषाः कथञ्चित् परस्परं समानपरिणतिभाज इत्यस्मदभ्युपगमात् । न च चित्रकविज्ञानवत् समानासमानपरिणतेरेकत्वविरोधः 'यदेवाहमद्राक्षं तदेव स्पृशामि आस्वादयामि जिघ्रामि' इति प्रतीतेर्गुणगुणिनोरेकत्वप्रतीतेः । न च यदेव रूपं दृष्टं तदेव कथं स्पृश्यते इन्द्रियविषयसंकरप्रसक्तेरिति वक्तव्यम् चक्षुर्ग्राह्यतास्वभावस्यैकस्य स्पर्शनादिविषयतास्वभावाविरोधात् । तथाहि-दूरादिदेशं सहकारिणमासाद्यैकोऽपि भूरुहोऽविशदतयेन्द्रियजे प्रत्यये प्रतिभाति २५ स एव निकटादिदेशसचिवो विशदतयेत्युपलब्धम् । न चाविशदं दर्शनमवस्तुविषयम् तस्य वस्तुविषयतया प्रतिपादितत्वात् । न च चक्षुःप्रभवे प्रत्यये रूपमेव चकास्ति नापरस्तद्वानिति वक्तव्यम् यतोऽत्रापि स्तम्भव्यपदेशाह रूपं किमेकं प्रतिभाति, उतानेकाऽनंशपरमाणुसञ्चयमात्रम् ? प्रथमपक्षेऽधोमध्योर्ध्वात्मकैकरूपवद्रसाद्यात्मैकैकस्तम्भप्रसिद्धिः । द्वितीयपक्षेऽपि किमेकमनेकपरमाण्वाकारं चक्षुर्ज्ञानम्, उतैकैकपरमाण्वाकारमनेकम् ? प्रथमपक्षे रूपाात्मैकवस्तुसिद्धिप्रसक्तिः ३० चित्रैकज्ञानवत् । द्वितीयेऽपि विविक्तज्ञानपरमाणुप्रतिभासस्यासंवेदनात् सकलशून्यताप्रसक्तिरिति
प्रतिपादितम् एतेन क्रियावतोऽपि भावस्याध्यक्षविषयता प्रतिपादिता । न चैकस्य देशाद् देशान्तरप्राप्तिहेतुः क्रिया न केनचित् प्रमाणेनावसातुं शक्येति वक्तव्यम् पूर्वपर्यायग्रहणपरिणामममुश्चताऽध्यक्षेणोत्तरपर्यायग्रहणात् यथा स्तम्भादावधोभागग्रहणमत्यजतोर्खादिभागग्रहस्तेन अन्यथा सकलशून्यतेत्युक्तत्वात् । यदपि
१ "परग्रहग्रहणसम्मुखज्ञानसंवेदनात् परतो गतिरित्येवम्"-बृ० ल.टि.। 'ग्रह' इत्यङ्कितं पदं ल. टि. नास्ति । २-हणव्य-बृ.। ३ "अविकल्पेऽपि वस्तुग्रहणस्य मतत्वान्नाममात्रेण भेदः"-बृ. ल. टि.। ४-भावानन्तरीयकत्वात् आ० हा० वि० ।-भावानान्तरीयकत्वात् ल०। ५क्रियते त-वृ० ल. वा. बा. विना । ६ पृ. ५०७ पं० १८। ७ पृ. ५१० पं० २७॥ ८-धाद-बृ०। ९ "इह किमपि कूटं संभाव्यते"बृ. ल.टि. । अत्र 'रूपसाधर्म्यदर्शनाभावाद् भ्रान्तिर्न स्यात् अन्यथातिप्रसङ्गात्' एतादृशपाठकल्पनया कूटलं शक्यं परिहर्तुम् । १. "रजत"-बृ. ल.टि.। ११ “शुक्तिकायाम्"-वृ० ल.टि.। १२-ति भ्रा-ल.। १३-सक्तिः आ. हा. वि.। १४-यमस्य बृ०। १५-द्यात्मकै-भां० मां०। १६-द्यात्मकैक-बृ० । १७ "प्रत्यक्षेण"बृ. ल. टि०।