________________
ज्ञानमीमांसा |
५१३
]
]
भाविनि रूपादाविति चेत्, तेस्याविषयीकरणे तेनायुक्तम् अन्यथा नीलज्ञानं पीते प्रमाणं स्यात् foreteरणे भावविषयत्वं तस्यैव भवेत् तथा च "वर्तमानावभासि सर्व प्रत्यक्षम् " [ इति विरुध्येत । अथ वर्त्तमानविषयमपि भाविनि प्रवृत्तिविधानात् प्रमाणम् नः अविपयीकृते प्रवर्तकत्वासंभवात् प्रवर्तकत्वे वा शाब्दमपि सामान्यमात्रविषयं विशेषे प्रवृत्तिं विधास्यतीति न मीमांसकमतप्रतिक्षेपो युक्तः । यदि वा ( चा ) विषयेऽपि कुतश्चिन्निमित्ताद् ज्ञानं प्रवर्तकं तर्हि प्रत्यक्षं-५ पृष्ठभाविसामान्यमात्राध्यवसायिविकल्पस्य विशेषे प्रवर्तकत्वं भविष्यतीति न युक्तम् 'दृश्य-विकल्प(प्य) योरर्थयोरेकीकरणं तत्र प्रवृत्तिनिमित्तम्' इत्यभिधानम् । तन्न प्राध्ये तत् प्रमाणम् । दृश्यप्राप्ययोरेकत्वे तत् प्रमाणमिति चेत् कुत एतत् ? व्यवहारिणां तत्राविसंवादाभिप्रायात् अविसंवादि च ज्ञानं प्रमाणम् । तदुक्तम् - " प्रमाणमविसंवादिज्ञानम् अर्थक्रियास्थितिरविसंवादनम् " [ इति चेत्; ननु तदेकत्वं कस्य विषयः ? दर्शनस्येति चेत्, नः तस्य सामान्यविषयतया सविकल्प- १० कत्वप्रसक्तेः । विकल्पस्येति चेत्, नः अभ्यासदशायां विकल्पस्यानभ्युपगमात् । कथं च दृश्यप्राप्ययोरेकत्वं विकल्पस्यैव विषयो नाविकल्पस्य एकत्वस्यायोगादिति चेत् कथं विकल्पविषयः ? अवस्तुविषयत्वात् तस्येति चेत् दर्शनस्य को विषयः ? दृश्यमानक्षणमात्रमिति चेत् ननु यदि तत् सञ्चितपरमाणुस्वभावं तत्र दर्शने प्रतिभाति तदा तस्य सविकल्पकत्वमिति प्राक् प्रतिपादितम् । विविक्तैकैकपरमाणुरूपं चेत् सर्वशून्यताप्राप्तेर्न काचिदभ्यासदशा यस्यां दर्शनं प्रमाणं विकल्पविकलं १५ भवेत् । यथा चानेकपरमाण्वाकारमेकं ज्ञानं तथा दृश्य प्राप्ययोर्घटादिकमेकमिति तद्विषयं परमार्थतोऽभ्यासदशायां सविकल्पकमध्यक्षं किमिति नाभ्युपगम्यते ? अथाशक्यविवेचनत्वाच्चित्र प्रतिभासाप्येकैव बुद्धिः घटादिकस्तु चित्रो नैकस्तद्विपर्ययात्; ननु किमिदं बुद्धेरशक्यविवेचनत्वंम् ? यदि सहोत्पत्तिविनाशौ तदन्याननुभवो वा तदभ्युपगम्यते तदैकक्षणभावि सन्तानान्तरज्ञानेषु भिन्नरूपतयोपगतेष्वपि तस्य भावादित्यनैकान्तिको हेतुः । अथ सन्तानान्तराण्यपि नाभ्युपगम्यन्ते २० कथमवस्थाद्वयाभ्युपगमः ? व्यवहारेण तदभ्युपगमे तथैव सन्ताननानात्वोपगमादनैकान्तिकत्वं तदघस्थमेव । न च प्रतिभासाद्वैतवादोपगमात् तान्यपि पक्षीक्रियन्त इति नानैकान्तिकः एकशाखाप्रभवत्वहेतोरपि विपक्षविषयपक्षीकरणादनैकान्तिकत्वाभावप्रसक्तेः । न चात्राऽऽमताग्राह्यध्यक्षेण पक्षबाधनान्न पक्षीकरणसंभवः प्रकृतेऽपि युगपद्भाविनां नानाचित्तसंतानानां भेदावभासिस्वसंवेदनाध्यक्षेण बाधनादस्य समानत्वात् । अथानन्यवेद्यत्वमशक्यविवेचनत्वम् तदपि सुखादिभिः २५ क्रमेणैकसन्तानभाविभिर्व्यभिचारि । अथैषमपि पक्षीकरणम्ः नन्वेवं परिणाम्यात्मसिद्धेः 'यद् यथावभासते ' इत्याद्यनुमानमयुक्तम् हेतोरसिद्धताप्राप्तेः । अथ भेदाभेदात्मकत्वेन प्रतिभासनं तदभिमतं तर्हि दृश्य - प्राप्ययोरपि तदस्तीति कथं नैकत्वम् ? अथ नीलादिप्रतिभासानां नैकत्वं चित्रप्रतिभासात् न नानात्वं तदात्मकस्य वा तड्राहकस्याभावात् सर्वविकल्पातीतं तु तत्त्वमिति अत्रापि यद्येकत्वस्यैकान्तेन निषेधः साध्यस्तदा सिद्धसाध्यता अन्यथा चित्रप्रतिभासाभावात् । ३० कथञ्चिदेकत्वस्य तु निषेधेऽसिद्धश्चित्रप्रतिभासादिति हेतुः यतः पीतादीनां नीलप्रतिभासेनाविषयीकरणे सन्तानान्तरवदभावस्तथापि भावे न सन्तानान्तरनिषेधः तेषां च क्षणक्षयसाधने ग्राह्यग्राहकभाव इति न सर्वविकल्पातीतं तत्त्वं विषयीकरणे तदाकारेणापि तज्राहकाभावात् नापि नानात्वमित्यस्य विरोधः खपरग्राहकस्यैव तैग्राहकत्वात् सर्वथा तदाकारत्वे नीलमात्रं पीतमात्रं भवेदिति न चित्रप्रतिभासः कथञ्चित् तदाकारत्वे सिद्धं सविकल्पदर्शनम् । अथ सर्वविकल्पातीते तत्त्वे इदमप्य- ३५ वक्तव्यम् तर्हि न परस्यापि परतो गतिः किन्तु "स्वरूपस्य स्वतो गतिः” [ ] इत्ये
१ " भाविरूपादेः " - बृ० ल० टि० । २ तस्य भ-बृ० ल० वा० बा० । ३-क्षप्रभा-आ० हा० वि० । ४ विशेषप्रवर्तक- बृ० ल० विना । ५ पृ० १५ पं० २३ । ६ " विकल्पस्य " - वृ० ल० टि० । ७ अशक्यविवेचनत्वं तन्निराकरणं च प्रमेयक० मार्तण्डे भयन्तरेण चर्चितं दृश्यते - पृ० २५ प्र० पं० ६ । ८ " प्रथमपक्षे दूषणमेतत्" - बृ० ल० टि० । ९ " प्रत्यक्षबाधस्य" - बृ० ल० टि० । १०- विचेतन-वृ० । ११ “एकसन्तानसुखादीनाम् ” - बृ० ल० टि० । १२ पृ० ४८८ पं० २२ । १३ " अशक्यविवेचनत्वम् " - बृ० ल० दि० धृ० । १५ “ नानात्व” - बृ० ल० टि०
। १४ - रणेऽत
।
१६- कल्पं द-ल० आ० ।
६६ स० त०