________________
५१२
द्वितीये काण्डेवशात् तदनुकारित्वं न परमार्थतः "सर्वमालम्बने भ्रान्तम्" [ ] इत्यभिधानात् । ननु किमिति न परमार्थतोऽपि तदनुर्कोरि तेत् ? सामान्यावभासादिति चेत्; नवसावपि कुतः? अनाद्यसत्यविकल्पवासनातः नन्वेवं न दर्शनं विकल्पजनकमिति “यत्रैव जैनयेदेनां तत्रैवास्य प्रमाणता"
] इत्यसङ्गतं वचो भवेत् । न च तद्वासनाप्रबोधविधायकत्वेन तदपि तद्धेतुः इन्द्रि५यार्थसन्निधानस्यैव तत्त्रबोधहेतुत्वात् । न च वासनाप्रभवत्वेनाक्षजस्य भ्रान्ततैवं भवेत् अर्थस्यापि कारणत्वेनानुमानवत् प्रमाणत्वात् । न च निर्विषयत्वात् व्यवसायस्याप्रामाण्यम् अनुमानस्यापि तत्प्रसक्तेः प्रत्यक्षप्रभवविकल्पवत् तस्याप्यवस्तुसामान्यगोचरत्वात् । न च तद्राह्यविषयस्यावस्तुत्वेऽ. प्यध्यवसेयस्य स्खलक्षणत्वात् दृश्यविकल्पा(ल्प्या)वावेकीकृत्य ततः प्रवृत्तेरनुमानस्य प्रामाण्यम्
प्रकृतविकल्पेऽप्यस्य समानत्वात् अन्यथा “पक्षधर्मतानिश्चयः प्रत्यक्षतः क्वचित्" [ ] इति १० कथं वचो युक्तं भवेत् ? न च गृहीतग्रहणाद् विकल्पोऽप्रमाणम् क्षणक्षयानुमानस्यापि तत्प्रसक्तः
शब्दखरूपावभास्यध्यक्षावगतक्षणक्षयविषयत्वात् । न चाध्यक्षेण धर्मिखरूपग्राहिणा शब्दग्रहणेऽपिन क्षणक्षयग्रहणम् विरुद्धधर्माध्यासतस्ततस्तद्धेदप्रसक्तेः। प्रज्ञाकराभिप्रायेण तु लिङ्ग-लिङ्गिनोः साकल्येन योगिप्रत्यक्षतो व्याप्तिग्रहणेऽनभ्यासदशायां प्राप्ये भाविन्यनधिगतार्थाधिगन्तृत्वाभावादनुमानं प्रमाणं न भवेत् । अनिर्णीतमनुमेयं निश्चिन्वत् प्रमाणमनुमानं तह निश्चितं नीलं निश्चिन्वन् विकल्पस्तथा१५विधः किं न प्रमाणम् ? अथ समारोपव्यवच्छेदकरणादनुमानं प्रमाणं तर्हि नीलविकल्पोऽपि तत एव
प्रमाणं भवेत् । न च सादृश्यादेव समारोपः-येन तत्रानीलसमारोपो न भवेत्-किन्तु स्वागमाहितविकल्पाभ्यासवासनातोऽपि यथा 'सर्व सर्वात्मकम्' इति साङ्ख्यस्य एवं च नीलेऽनीलात्मकत्वसमारोपं व्यवच्छिन्दानो विकल्पः क्षणक्षयानुमानवत् कथं न प्रमाणम् ? दृश्यन्ते हि शुक्तिकारज्वादिषु रजत-सादिसमारोपास्तथाभूत विकल्पवशाल्लिङ्गानुस्मरणमन्तरेणापि निवर्तमानाः। २० अथ भवत्वसौ विकल्पः प्रमाणम् न च प्रमाणान्तरम् अनुमानेऽन्तर्भावात् , न; अनभ्यास
दशायां भाविनि प्रवर्तकत्वादनमानं प्रमाणमिष्टं तच्च निश्चितत्रिरूपाल्लिङ्गादुपजायते निश्चयस्य चानुमानान्तर्भावे त्रैरूप्यनिश्चयोऽप्यनुमानं तदपि निश्चितत्रैरूप्याल्लिङ्गात् प्रवर्तत इत्यनवस्थानात् अनुमानाप्रवृत्तिरेवेति कुतो विकल्पस्य तंत्रान्तर्भावः? अथ पक्षधर्मान्वयव्यतिरेकनिश्चायकं लिङ्गस्य
नानुमानं तर्हि प्रमाणान्तरस्याभावादध्यक्षं निर्णयात्मकं पक्षधर्मत्वादिनिश्चयः सिद्धः । अत एवं २५'अनभ्यासदशायामनुमानम् अभ्यासदशायां तु दर्शनमेव प्रमाणं न च तृतीया दशा विद्यते यस्यां विकल्पः प्रमाणं भवेत्' इति निरस्तम् अनभ्यासदशायामनुमानस्यैव तमन्तरेणाप्रवृत्तेस्तदपेक्षस्यैव तस्य प्रमाणत्वात् । न च भवतु प्रत्यक्षानुमानव्यतिरिक्तो विकल्पस्तथापि न तदपेक्षं दर्शनं प्रमाणं स्वत एव तस्य प्रमाणत्वात् अन्यथा विकल्पस्यापि विकल्पान्तरापेक्षया प्रमाणत्वादनवस्था दुष्परिहारा
अर्थविषयीकरणाद् विकल्पस्यान्यनिरपेक्षस्य प्रामाण्ये निर्विकल्पकस्यापि तथैव प्रामाण्यं भविष्यतीति ३० किं विकल्पापेक्षयेति वक्तव्यम् यतः संशय-विपर्ययोत्पादकमपि दर्शनमेवं प्रमाणं स्यात् तथा च
तत्राप्यर्थक्रियार्थी प्रवर्तेत । अथ जले 'जलमेतत्' इति निर्णयविधायि प्रमाणं तर्हि सिद्धं विकल्पापेक्षणं तस्येति वरं विकल्प एव प्रमाणमभ्युपगतस्तस्यैव प्रवृत्त्यादिव्यवहारसाधकतमत्वात् । यदपि 'अभ्यासदशायां दर्शनमेव विकल्पनिरपेक्षं प्रमाणम्' इति तत्र वक्तव्यं क तत् प्रमाणम् ? प्राप्ये
१-शादनु-आ. हा० वि०। २ “सर्वमालम्बने भ्रान्तमिति राद्धान्तात्"-सिद्धिवि० टी० लि. पृ. ५४ पं० १३ । ३-ति प-बृ०। ४"खलक्षणानुकारि"-बृ. ल.टि.। ५ "निर्विकल्पकम्"-बृ० ल.टि.६"विकल्पः"बृ. ल. टि.। ७ “यत्रैव जनयेदेताम्"-प्रमेयक० पृ. १० द्वि. पं० ५। “अत्रापरः सौगतः प्राह-यत्रैव जनयेदेना तत्रैवास्य प्रमाणतेति धर्मोत्तरस्य मतमेतत्"-सिद्धिवि०टी० लि. पृ. ९१ पं० १६ । शास्त्रवा० स्याद्वादक. पृ० १५१ द्वि. पं०६। ८ "दर्शनम्"-बृ० टि०। ९-पि कर-वा० बा० । १० "अनुमानस्यापि"-बृ० ल.टि.। ११-वसायस्य आ० हा० वि० । शास्त्रवा० स्याद्वादक० पृ० १५९ द्वि. पं० १२ । “न च तद्बाह्यस्य सामान्यरूपत्वेऽप्यध्यवसेयस्य स्खलक्षणरूपत्वाद् दृश्यविकल्प्यावर्थावेकीकृत्य ततः प्रवृत्तेरनुमानस्य प्रामाण्यं प्रकृतविकल्पेऽप्यस्य समानखात्"प्रमेयक. पृ० ११ प्र. पं० १० । स्याद्वादर० पृ. ८८५०६ आ० । १२ पृ. ७६ पं०३३-३४ । १३ "धर्मिणः"-बृ. ल.टि.। १४ "क्षणक्षय"-बृ० ल• टि.। १५ शास्त्रवा० स्याद्वादक० पृ० १६० प्र. पं० १- १६ एव च आ० हा० वि०। १७ “अनुमाने"-बृ. ल.टि.। १८ "सामानाधिकरण्यमेतत्"-बृ. ल.टि.। १९-वमनआ० हा०वि०। २० "दर्शनस्य"-बु. ल.टि.।