________________
ज्ञानमीमांसा।
५११
इत्यसङ्गतमभिधानम् । अर्थ यदाकारं यदुत्पन्नं यध्यवस्यति तत्र तत् प्रमाणम् नन्वत्रापि यदाकारं यदुत्पन्नं विज्ञानमेवार्थाध्यवसायं जनयति, उत तत् तमेव, आहोखिजनयत्येवेति कल्पनात्रयम् । आद्यकल्पनायां कारणान्तरनिषेधाद विकल्पवासनापि तत्कारणं न भवेत् एवं च निर्विकल्पकबोधाद यथा सामान्यावभासी विकल्पस्तथार्थादेव तथाभूताद भविष्यतीति किमन्तरालवर्तिनिर्विकल्पदर्शनकल्पनया? न चाविकल्परूपताविशेषेऽपि दर्शनादेव विकल्पोत्पत्तिर्नार्थाद् वस्तुस्वाभाव्यादित्युत्तरम्५ तस्य स्वरूपेणैवासिद्धेः । किञ्च, यथा(थाऽ)विकल्पादादविकल्पदर्शनप्रभवस्तथा दर्शनादपि तथाभूतात् तथाभूतस्यैवाविकल्पस्य प्रसव इति विकल्पवार्ताप्युपरतैव भवेत् । किञ्च, स्थिरस्थूरावभासि स्तम्भादिज्ञानं यद्यविकल्पकं कोऽपरो विकल्पो यस्तजन्यो भवेत् ? अथ 'स्तम्भः स्तम्भोऽयम्' इत्यनुगताकारावभासि ज्ञानं विकल्पः सामान्यावभासित्वात् ताद्यमप्यनेकावयवसाधारणस्थूलैकाकारस्तम्भावभासि विकल्पः किं न भवेत् सामान्यावभासस्यात्रापि तुल्यत्वात् ? अस्यापलापेऽपरस्याप्रति-१० भासनात् प्रतिभासविकलं जगत् स्यात् । न च स्तम्भप्रतिभासात् प्राग निरंशक्षणिकैकपरमाणु. गोचरमविकल्पकं ज्ञानं पुरुषवत् प्रतिभाति तथापि तत्कल्पने पुरुषपरिकल्पनापि भवेदिति न सौगतपक्षस्यैव सिद्धिः। किञ्च, निरंशक्षणिकानेकस्तम्भादिपरमाण्वाकाराद्यनेकं तद बिभर्ति स्वात्मनि तदा सविकल्पकमासज्येत अनेकानुविधानस्य विकल्पनान्तरीयकत्वात् । अथ भिन्नं प्रतिपरमाणु तदिष्यते भवेदेवमविकल्पकं किन्तु एकपरमाणुग्रहणव्यापारवन्नापरपरमाणुग्रहणाय व्याप्रियत इति तेषां पर-१५ लोकप्रख्यताप्रसक्तिः तेद्वेदनैश्च तस्यावेदनमिति तस्याप्यभावः । न चैकैकपरमाणुनियतभिन्नं वेदनमविकल्पकम् अन्यविविक्तैकपरमाणोरर्वाग्दशि अप्रतिभासनाद विवादगोचरस्य तज्ज्ञानस्य विकल्पजनकत्वासिद्धेः। तन्न प्रथमः पक्षो युक्तिसङ्गतः । इतश्चायमसङ्गतो यतो येन स्वभावेनाविकल्पकं दर्शनं स्वजातीयमुत्तरं जनयति तेनैव यदि विकल्पं तहविकल्पो विकल्पः प्रसज्येत विकल्पो वाऽविकल्पः अन्यथा कारणभेदः कार्यभेदविधायी न भवेतः स्वभावान्तरेण जनने सांशतापत्तिरिति ।२० अथ तत् तमेव जनयति तथासति धारावाहिनिर्विकल्पसन्ततिर्न भवेत् । अथ तत् तं जनयत्येवेति तृतीयपक्षाश्रयणं तथासति क्षणभङ्गादावपि निश्चय इति न ज्ञानसंततौ सत्त्वसमारोपः। न च रागादयस्तन्निबन्धना इति तद्व्यवच्छेदार्थमनुमितिनॆरर्थक्यमनुभवेत् । किञ्च, यदि व्यवसायवशात् निर्विकल्पकस्य प्रामाण्यव्यवस्था तर्हि तदुत्पत्तिसारूप्यार्थग्रहणमन्तरेणाध्यवसाय एव प्रमाणं भवेत् । अथ तथाभूतानुभवमन्तरेण विकल्प एव न भवेत् , असदेतत् तस्य तज्जन्यत्वासिद्धरुक्तविकल्पदोषानति-२५ क्रमात् । किञ्च, यदि तदाका दर्शनान्निर्णयप्रभवस्तदा स्खलक्षणगोचरो निर्णयो भवेत् निर्णयवद् वा सामान्यविषयमविकल्पकमासज्येत अन्यथा स्मृतिसारूप्याद दर्शनस्य सारूप्यसाधनमयुक्तं भवेत् । अथार्थलेशमात्रानुकारि स्मरणं तथापि स्खलक्षणविषयत्वं स्मरणस्य सर्वथा तदनुकारित्वमविकल्पकस्याप्यसिद्धम् अन्यथा तस्य जडतापत्तिरिति प्रतिपादनात् तथा च-"विकल्पोऽवस्तुनिर्भासाद विसंवादादुपप्लवः” इत्ययुक्ततया व्यवस्थितम् । अथ न लेशतोऽपि परमार्थतस्तदनुकारी विकल्पः३० प्रतिपत्रभिप्रायवशात् तु तदभिधानमिति न खलक्षणगोचरत्वम निर्विकल्पकस्यापि व्यवहार्यभिप्राय
१ "अथ यदाकारं यदुत्पन्नं यदध्यवस्यति तत्र तत् प्रमाणम् । नन्वत्र यदाकारं यदुत्पन्नं विज्ञानमेवाऽर्थाध्यवसायं जनयतीत्यर्थः, उत तमेवेति आहोखिजनयत्येवेति ? । आये विकल्पवासनापि तत्कारणं न भवेत् । एवं च निर्विकल्पकबोधाद् यथा सामान्यावभासी विकल्पः, तथाऽर्थादेव तथाभूनाद् भविष्यति, इति किमन्तरालवर्तिनिर्विकल्पककल्पनया ? । न चाविकल्पताविशेषेऽपि दर्शनादेव विकल्पोत्पत्तिः, नार्थात् , वस्तुखाभाव्यादित्युत्तरम् , तस्य खरूपेणैवासिद्धेः, 'स्तम्भः स्तम्भोऽयम्' इतिवत् स्थिरैकस्तम्भावगाहिज्ञानस्य सामान्यविषयत्वात् , ऊर्ध्वतासामान्यापलापे तिर्यक्सामान्यस्याप्यपलापाज्जगतः प्रतिभासवैकल्यप्रसङ्गात् , निरंशक्षणिकानेकपरमाण्वाकारस्य तस्य सांशलेनाभ्युपगन्तुमशक्यखात्, प्रतिविविक्तपरमाणुतद्भेदस्य दुःश्रद्धानखात् । किञ्च, यथाऽविकल्पादर्थादविकल्पदर्शनप्रभवः तथा दर्शनादपि तथाभूताद् विकल्पस्यैव प्रभव इति विकल्पकथाऽप्युच्छिन्ना । द्वितीये धारावाहिकनिर्विकल्पकसंततिर्न स्यात् । तृतीयेऽपि अत्यन्तायोगव्यवच्छेदः स्वभावभेदं विना दुर्घट इति न किञ्चिदेतत् । तस्मात् तदुत्पत्तिसारूप्यार्थग्रहणमन्तरेणाप्यध्यवसायस्य प्रामाण्यं युक्तम्, अनाद्यसत्यविकल्पवासनात एव तदुत्पत्त्यभ्युपगमे दर्शनस्याप्यहेतुखात् “यत्रैव जनयेदेना" इत्याद्यभ्युपगमव्याघातात् ।"-शास्त्रवा. स्याद्वादक. पृ. १५९ प्र. पं० १३ ।
२ "अर्थाध्यवसायमेव"-बृ० ल. टि. । ३ "अविकल्प"-बृ० टि० । ४ “मतुप्-प्रत्ययः"-बृ.टि.। ५ "अपरपरमाणुवेदनैः”-बृ० टि०। ६ "विज्ञानमेवार्थाध्यवसायं जनयतीत्ययम्"-बृ० ल• टि०। ७-शात् न निवा० बा०। ८-रादर्श-ल। ९-र्णयाप्र-ल.। १० पृ. ५०० पं० १४ दि० ८।
तद्भेदस्य दुःश्रद्धानबाच्छन्ना । द्वितीये धारावातिसारूप्यार्थग्रहणमन्तरणदेना" इत्याद्यभ्युपग