________________
द्वितीये काण्डे -
1
कथं दृरोत्सारितमेव । अत एव "नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयेः” [ इति सौगतमतमप्यपास्तम् । तथाहि किं कारणं विषय एव, उत कारणमेव विषयः ? प्रथमपक्ष रूपादिसंविदां चक्षुराद्यपि विषयो भवेत् तथा च 'यस्मिन् सत्यपि यन्न भवति तत् तदतिरिक्तहेत्वपेक्षं यथा कुलालाभावे सत्यप्यपरकारकसमूहे ऽभवन् घटः कुलालापेक्षः सत्यपि च रूपादौ कदाचिच ५ भवति रूपादिज्ञानम्' इत्यनुमानोपन्यासो व्यर्थः अध्यक्षत एव चक्षुराद्यधिगतेः । द्वितीयपक्षेऽपि 'भविष्यति रोहिण्युदयः कृत्तिकोदयादती तक्षपायामिव' इत्यस्यानुमानस्य भावी रोहिण्युदयोऽकारणत्वात् विषयो न स्यात् न हि भावी रोहिण्युदयः कृत्तिकोदयस्य परम्परयापि कारणम् । अथ भावी रोहिण्युदयः प्राग्भाविनः कृत्तिकोदयस्य कारणं प्रज्ञांकराभिप्रायेण कार्यस्य प्राग्भावित्वात् तर्हि 'अभूद् भरण्युदयः कृत्तिकोदयात्' इत्यनुमानमविषयं भवेत् । अथ भरण्युदयोऽपि कृत्तिकोदयस्य कारणं तेना१० यमदोषः ननु येन स्वभावेन भरण्युदयात् कृत्तिकोदयस्तेनैव यदि शकटोदयादपि तदा भरण्युदयादिव पश्चात् ततोऽपि भवेत् यथा वा शकटोदयात् प्राक् तथैव भरण्युदयादपि प्राग् भवेत् । अथान्यतरकार्य कृत्तिको दयस्तर्ह्यन्यतरस्यैव ततः प्रतीतिर्भवेत् न चैवमिति न युक्तं 'कारणमेव विषयः' इति पक्षाश्रयणम् । अथ कारणं स्वाकाराधायकं विज्ञाने विषय एवेति पक्षः अयमप्ययुक्तः यतः किं कारणमेव तदाधायकं तत्र, आहोखित् तत् तदाधायकमेवेति विकल्पद्वयानतिवृत्तिः । प्रथमविकल्पे १५ केशोन्दुकादिज्ञानं कुतः कारणात् तदाकारमुपजायते ? न तावदर्थात् तस्य तत्कारणत्वानभ्युपगमात् अभ्युपगमे वा तस्याभ्रान्ततापत्तेः । न समनन्तरप्रत्ययात् तस्य तदाकारता ( ताS ) योगात् । नेन्द्रि यादेः अत एव हेतोः । तन्न कारणमेव तदाधायकमिति पक्षाभ्युपगमः क्षमः । नापि तत् तदाधायकमेवेति पक्षोऽभ्युपगन्तुं युक्तः इन्द्रियस्यापि तदाधायकतापत्तेस्तज्ज्ञानविषयताप्रसक्तेः । अर्थस्य च सर्वात्मना तत्र स्वाकाराधाने ज्ञानस्य जडताप्रसक्तेः उत्तरार्थक्षणवदेकदेशेन तदाधायकत्वे सांगता - २० प्रसक्तेः । समनन्तरप्रत्ययस्य तत्र स्वाकाराधायकत्वान्न जडतापत्तिलक्षणो दोष इति चेत्, नः सैमनन्तरप्रत्ययार्थक्षणयोः द्वयोरपि स्वाकारापकत्वे तज्ज्ञानस्य चेतनाचेतनरूपद्वयापत्तेः । प्राक्तनज्ञानक्षणस्यैव तत्र स्वाकाराधायकत्वे सर्वात्मना तदाधाने तस्य पूर्वरूपताप्रसक्तिरिति कारणरूपतैव स्यात् तथा च पूर्वपूर्वक्षणानामप्येवं प्रसक्तेरेकक्षणवर्त्ती सर्वः सन्तानो भवेदिति प्रमाणादिव्यवहारलोपः ।
२५ किञ्च, तदाकारं तत उत्पन्नं च यदि समनन्तरप्रत्यये न तत् प्रमाणम् तदुत्पत्ति - सारूप्ययोर्व्यभिचार इति नार्थेऽपि तत् प्रमाणं भवेत् । तथा च
"अर्थेन घटयेदेनां नहि मुक्त्वार्थरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता" ॥ [
५१०
1
१ " नाकारणं विषयः इति वचनप्रामाण्यात्" -अनेका० टी० पृ० २०७०१ । स्याद्वादर० पृ० ७६९ पं० १९ आ० । बोधिचर्याव• प्रज्ञापार० पृ० ३९८ पं० १० । धर्मसं० पृ० १७६ द्वि० पं० १२ । स्याद्वा० पृ० १३४ पं० १८ । "तदुक्तम्-नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः " - पड्द० स० बृ० ० पृ० ३७ पं० ३ । " " नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः' इति हि सांगतानां मतम् " - शानवा० स्याद्वादक० पृ० १५१ प्र० पं० ८ ।
२ “ननु प्रज्ञाकराभिप्रायेण भाविरोहिण्युदयकार्यतया कृत्तिकोदयस्य गमकत्वात् कथं कार्यहेतो नास्यान्तर्भाव इति चेत् कथमेवमभूद् भरण्युदयः कृत्तिकोदयादित्यनुमानम् ! अथ भरण्युदयोपि कृत्तिकोदयस्य कारणं तेनायमदोषः । ननु येन स्वभावेन भरण्युदयान् कृत्तिकादयस्तेनैव यदि शकटोदयात् तदा भरण्युदयादिव अतोपि पश्चादसौ स्यात् । यथा च शकटोदयात् प्राक् तथैव भरण्युदयादपि " - प्रमेयक० पृ० ११० प्र० पं० ९-1
।
३ प्र० पृ० पं० २ । ४ " केशोन्दुकज्ञानस्य " बृ० ल० टि० ५- णमेव तत्तदा भ० मां० । - णमेतत् तदा आ० । ६-मः नापि ल० वा० वा० भ० मां० विना । ७ शास्त्रत्रा • स्याद्वादक० पृ० १५९ प्र० पं० १० । ८ मुक्तार्थ वा० वा० आ० हा० वि० । " तदुक्तम्" इत्युविख्योद्धृतं पद्यमिदमस्ति सिद्धिविनिश्चयटीकायाम् - लि० पृ० ११९ पं० १। " अर्थेन घटयन्येनां न हि मुक्तार्थरूपताम्" - प्रमेयक० पृ० २८ प्र० पं० । प्रमाणमी० पृ० ३३ पं० १० स्याद्वा० पृ० १३६ पं० २२ ।