________________
ज्ञानमीमांसा।
विसंवादवुद्धि प्रति प्रत्यक्षाभासम्' इति तत्र दृश्यादिमात्र तदाभासत्वे वस्तुदर्शनमुच्छिद्यत । अथात्र प्रमाण-तदाभासधर्मद्वयमेकत्रोप्यभ्युपगम्यते प्रकृतेऽप्यभ्युपगम्यताम् । अथ नैमिरिकज्ञानेनाप्रतीयमानमेकत्वं तस्येति कथम् ? ननु निश्चिते शब्दे अनिश्चिता क्षणिकता तम्यत्यपि कथम ? अनुमानेन तत्रैव निश्चयात् तस्येति एतदन्यत्रापि समानम् । तदेवं निरंशत्वे वस्तुनस्तच्चित्तग्रहणे तंत्मामर्थ्यस्थापि ग्रहणप्रसक्तेर्विवादाभावस्तत्रैव भवेत् न चैवमिति सांश यस्तु तथाभृतवस्तुग्राहकं प्रमाण-५ मपि सांशं सत् सविकल्पकम् । अपि च, यदि निरंशवस्तुसामोद्भुतत्वात् कल्पनापोढमध्यक्षं स्वसंवेदनं तथाभूतवस्तुप्रभवत्वाभावात् संवेदनग्राहि निर्विकल्पकं च न भवेत् । अथ तादात्म्यं तत्र तन्निमित्तम्, न; सच्चेतनादेरिव स्वर्गप्रापणसामर्थ्यादेरपि ग्रहणप्रसक्तस्तदविशपात् । अथन तादात्म्याद ग्रहणमेवाभिन्नस्य किन्तु तादात्म्यादेव, असदेतत् : तादात्म्यादेव स्वरूपस्य ग्रह इत्यत्र प्रमाणाभावात् । अविकल्पकं दर्शनं प्रमाणमिति चेत्, न; सुपुप्तावस्थायां तत्प्रसङ्गात् तत्रापि चैतन्यमद्भावात् अन्यथा १० प्रबोधावस्थाविज्ञानमनुपादानम् अचेतनोपादानं वा भवेत् । न च तदनुरूपप्रवोधदर्शनाजाग्रद्विज्ञानोपादानं तत् विप्रकृष्टदेशकालस्यापि कारणत्वे तैमिरिकज्ञानस्यापि विप्रकृष्टदेशकालकारणप्रभवत्वसंभवात् निरालम्बनता न भवेत् अतोऽव्यवहितं कारणमभ्युपगन्तव्यम् । न च सुपुप्तावस्थायां विकल्पानुत्पत्तेर्न तत्प्रसङ्गः विकल्पवशात् तादात्म्ये सत्यपि तव्यवस्थायां बाह्यार्थेऽपि तत एव तयवस्थोपपत्तेर्विकल्प एव प्रमाणं भवेत् ।
किच, यद्यर्थप्रभवत्वात् ज्ञानमर्थग्राहकं तर्हि इन्द्रियादेरपि तत एव ग्राहकं भवेत् तद्व्यतिरिक्तबाह्यार्थग्राहकत्वं च तस्याभ्युपेयते। तथाहि-"प्रमाणतोऽर्थप्रतिपत्ती प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम्" [वात्स्या० भा० पृ०१पं० १] इत्यत्र भाप्ये प्रमातृ-प्रमेयाभ्यामर्थान्तरमर्थसहकार्यर्थवत् प्रमाण नैयायिकैाख्यातम् । तेन न तत्प्रभवत्वं तन्निमित्तम् तदभ्युपगमे वा शब्दज्ञाने शब्दवत् तत्समवायिकारणकर्णशष्कुल्यवच्छिन्ननभोदेशाख्यश्रोत्रेन्द्रिय-तत्समवाययोरपि प्रतिभासः स्यादित्याकाशसम-२० वायविषयानुमानोपन्यासो वैयर्थ्यमनुभवेत् अध्यक्षसिद्धेऽनुमानोपन्यासप्रयासस्य वैफल्यात् । न च समवायविषयाध्यक्षस्याविकल्पकत्वेन तद्गृहीतस्यागृहीतरूपत्वान्नायं दोपः शब्देऽप्यस्य समानत्वात् यतो नैकमेकत्र निर्णयात्मकमपरवान्यथेत्येकान्तवादिनो वक्तुं युक्तम् । एवं रूप-तत्सामान्य-समवायेष्वपि वाच्यम् । अथ न कारणमित्येवार्थग्रहः किन्तु योग्यतात; नन्वेवं किमनिमित्तमर्थस्य ज्ञानं प्रति कारणता परिकल्प्यते? अथ न तद्हणान्यथानुपपत्तेस्तत्प्रति तत्कारणतापरिकल्पनम् किन्त्व-२५ न्वय-व्यतिरेकाभ्याम्-'अर्थे सति तदवभासि ज्ञानमुपलब्धं तदभावे च न' इत्यन्वय-व्यतिरेकनिबन्धनोऽन्यत्रापि हेतुफलभाव इति, असदेतत् योगिज्ञानस्य सकलातीतानागतपदार्थसाक्षात्कारिणोऽतीतानागततत्पदार्थाभावेऽपि भावाभ्युपगमात् । न च सर्वेऽप्यतीतानागता भावास्तदा सन्ति सर्वभावानां नित्यताप्रसक्तेः। न च तद्विषयं तज्ज्ञानं न भवति 'सदसद्वर्गः कस्यचिदेकज्ञानालम्वनः अनेकत्वात् पञ्चाङ्गलिवत्' इत्यनुमानविरोधात् । एतेन “यस्य ज्ञाने प्रतिभासस्तस्य तत्र तत्कारणत्वं ३० निमित्तमभिधीयते नत्वप्रतिभासमानस्य समवायादेस्तन्निमित्तः प्रतिभासो भवतु इत्यासअयितुं युक्तम्" [
] इत्यध्ययनादिमतं निरस्तम् योगिज्ञानेऽकारणस्यापि प्रतिभासप्रतिपादनात् । 'तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपर्वत्' तथा 'प्राप्तार्थप्रकाशकं चक्षुः तैजसत्वात् प्रदीपवत्' इत्येतदप्यत एव निरस्तम् रूपप्रकाशकत्वं हि रूपज्ञानजनकत्वम् तच्च प्रदीपस्यासिद्धम् तस्य रूपैकज्ञानसंसर्गित्वात् । प्रयोगश्चात्र-प्रदीपस्तद्विज्ञानकारणं न भवति विषय-३५ त्वात् यो हि यद्विषयो नासौ तत्कारणं यथा त्रिकालाशेषभावविषययोगिज्ञानस्यातीतादिकोऽर्थः तथा च प्रदीपो विषयो यथोक्तरूपज्ञानस्य तस्मान्न कारणमिति तैजसत्वासिद्धौ च चक्षुपः प्राप्तार्थप्रकाश
१-त्राभ्यु-आ. हा०वि०। २"द्विचन्द्रज्ञानेनेकखमप्रतीतमिति"-वृ. ल. टि.। ३ "द्विचन्द्रदर्शने"-वृ. ले. टि.। ४ "खर्गप्रापणसामर्थ्य"-बृ. ल.टि.। ५-स्तत्र भ-वृ० ल• वा० बा०। ६ ग्रहण इ-आ. हा. वि.। . “खरूपग्रहण"-बृ० ल. टि०। ८ "स्वप्नज्ञानम्"-वृ० ल. टि.। ९-कार्यार्थ-ल. आ. हा. वि०। १० "अर्थप्रभवत्वादर्थग्राहकल"-वृ० ल. टि. । ११ “यथा शब्दे"-वृ० ल. टि० । १२ प्रशस्त. कं० पृ. ३९५० ५, पृ. ४० ५० ११ । न्यायसि. मु. का. ४२। १३-स्याप्यसि-वृ० भां० मा० ।