________________
५०८
द्वितीये काण्डे -
" कल्पनापोढमभ्रान्तं प्रत्यक्षम् " [ न्यायबिं० १-४] इत्यत्राभ्रान्तग्रहणानर्थक्यप्रसक्तेर्व्यवच्छेद्याभावात् । चन्द्रग्रहणमपि तत्र नास्तीति चेत्, न एकत्वाप्रतिपत्तावपि तत्प्रतिभासदर्शनात् । एकस्य द्वित्वविशिष्टतया तस्य ग्रहणान्मरीचिकाजलज्ञानवद् भ्रान्तं तदिति चेत्, नः द्वित्वे यथा विसंवादाभिप्रायात् तद् भ्रान्तं तथा चन्द्रमसि संवादाभिप्रायात् किमिति तत्रा (ना) भ्रान्तं प्रमाणेतरव्यवस्थाया ५ व्यवहार्यनुरोधतः समाश्रयणात् "प्रामाण्यं व्यवहारेण शस्त्रं मोहनिवर्तनम्" [ ] इति भवतैवाभिहितत्वात् । न चैकत्र ज्ञाने भ्रान्तेतरेंरूपद्वयमयुक्तम् व्यवहारिणा तथाश्रयणात् अन्यथैकचन्द्रदर्शनस्यापि 'चन्द्ररूपे प्रमाणता क्षणिकत्वे अप्रमाणता' इति रूपद्वयं न स्यात् क्षणक्षयेऽपि तत्प्रामाण्ये प्रमाणान्तराप्रवृत्तिर्भवेत् । चन्द्रमस्यप्यप्रमाणत्वे न किञ्चित् क्वचित् प्रमाणं भवेदिति सर्वप्रमाणव्यवहारलोपः । यस्य तु मतं दृश्य प्राप्ययोरेकत्वे अविसंवादाभिमानिनः प्रत्यक्षं प्रमाणम् १० ईतरस्य तयोर्विवेके सत्यनुभूतेऽपि न प्रमाणम् तस्य चन्द्रदर्शने चन्द्रप्रात्यभिमानिनः किमिति चन्द्र मात्रे तन्न प्रमाणम् ? विवेकानध्यवसायिनस्तु यदि तदननुभूतेऽप्येकत्वे प्रमाणं तर्हि यद् यथावभासते तत् तथैव परमार्थसद्व्यवहारावतारि यथा नीलं नीलतयावभासमानं तथैव सद्व्यवहारावतारि अवभासन्ते च क्षणिकतया सर्वे भावाः इत्यनुमानमसङ्गतम् हेतोरसिद्धताप्राप्तेः । अथ तं प्रत्येतदनुमानमेव नोपादीयते तर्हि कं प्रत्येतदुपादेयम् ? यस्तयोर्विवेकं मन्यते तं प्रतीति चेत्, न तं प्रत्यनु१५ मानानर्थक्यात् तदन्तरेणापि तदर्थनिष्पत्तेः यच्च तं प्रति भाविनि प्रवर्तकत्वादनुमानं प्रमाणं युक्तम् तत् "सर्वचित्त- चैत्तानामात्मसंवेदनं प्रत्यक्षम् ” [ ] इति वचनात् स्वरूपेऽभ्रान्तं बहिरर्थे “भ्रान्तिरपि सम्बन्धतः प्रेमा" [ ] इति वचनाद् भ्रान्तमित्येकमेव कथं द्विरूपम् ? किञ्च यदि तस्य न प्रत्यक्षं प्रमाणमस्ति कथमनुमानप्रादुर्भावः ? अस्ति चेत् तत् किंविषयमिति वाच्यम् ? साधनावभासि जलादिसाधनविषयं प्राप्यावभासि प्राप्यार्थक्रियाविषयमिति चेत्; २० ननु तदपि जलादिमात्रे प्रमाणम् स्वविषयकार्यजननसामर्थ्यादावप्रमाणम् अन्यथा विवादाभावात् शास्त्रप्रणयनं तदर्थमनर्थकं भवेदिति तदप्यंशेनैव प्रमाणम् । यत् पुनरभ्यधायि 'दृश्य-प्राप्ययोरेकत्वे
१० ४८८ टि० ९ ।
" तस्माद्यत्कल्पनापोढपदं प्रत्यक्षलक्षणे । भिक्षुणा पठितं तस्य व्यवच्छेयं न विद्यते ॥ अभ्रान्तपदस्यापि व्यावर्त्य न किंचन तन्मतेन पश्यामः । ननु तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमं द्विचन्द्रालातचक्रचलत्पादप|दिदर्शनमपोह्यमस्य परैरुक्तम् । सत्यमुक्तम् अयुक्तं तु कल्पनापोढपदेनैव तद्युदाससिद्धेः । तत्रापि निर्विकल्पकं ज्ञानमेकं चन्द्रादिविषयमेव विकल्पास्तु विपरीताकारग्राहिणो भवन्ति यथा मरीचिग्राहिणि निर्विकल्प के सलिलावसायी विकल्प इति । ननु तिमिरेण द्विधाकृतं चक्षुरेकतया न शक्नोति शशिनं ग्रहीतुमिति निर्विकल्पकमपि द्विचन्द्रज्ञानम् । यद्येवं तरङ्गादिसादृश्यरूषितमूषरे मरीचिचकं चक्षुषा परिच्छेत्तुमशक्यमिति तत्रापि निर्विकल्पक मुदकग्राहि विज्ञानं किमिति नेष्यते अभ्युपगमे वा सदसत्कल्पनोत्पातादिकृतः प्रमाणेतरव्यवहारो न स्यात् । अपि च न बाधकोपनिपातमन्तरेण भ्रान्तताऽवकल्पते ज्ञानानाम् । न च क्षणिकवादिमते बाध्यबाधकभावो बुद्धीनामुपपद्यते इत्यलं विमर्देन ।
इति सुनिपुणवुद्धिलक्षणं वक्तुकामः पदयुगलमपीदं निर्ममे नानवद्यम् । भवतु मतिमहिम्नश्चेष्टितं दृष्टमेतज्जगदभिभवधीरं धीमतो धर्मकीर्तेः " ॥
न्यायमअ० आ० २ पृ० ९९ पं० २३ । २ "शशि " - बृ० टि० । ३ शास्त्रमो - बृ० वि० । तत्त्वार्थछो० वा० पृ० १७३ श्लो० ६२ । “नान्तरीयकत्वादेकानुभवोऽन्यानुभवे मानमिति चेत् । न, चन्द्रग्रहणेऽपि तदेकत्वाग्रहणतस्तै मिरिकदर्शनेन व्यभिचारात्, द्विले तस्य भ्रान्तत्वेऽपि चन्द्रेऽभ्रान्तत्वात् प्रमाणेतरव्यवस्थाया व्यवहारिजनापेक्षत्वात् " प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम्” इति त्वयैवाभिहितत्वात् अन्यथैकचन्द्रदर्शनस्यापि चन्द्ररूपे प्रमाणता क्षणिकले चाप्रमाणता इति रूपद्वयस्याभ्युपगमविरोधात् " -- शास्त्रवा० स्याद्वादक० पृ० १५८ द्वि० पं० ६-९ । ४- रस्पद्व- बृ० । ५-हारिणां त-वा० बा० । ६- रूपेण प्र-बृ० भ० मां० । ७" चन्द्रदर्शन" - बृ० ल० टि० । ८ शास्त्रवा० स्याद्वादक० पृ० १५८ द्वि० पं० १०-1 ल० टि० । ११ " चन्द्रदर्शनम् " - बृ० ल० टि० । प्रमाणं तथा क्षणिकत्वेऽप्यननुभूते भविष्यतीति" - १४ " अनुमानम्" - बृ० टि० । १५ “विवेकप्रति१८ पृ० ४०१ गतं
९ " विसंवादाभिमानिनः " - वृ० ल० टि० । १० " वादिनः " - बृ० १२ “यथा विवेकानध्यवसायिनश्चन्द्रविषये एकत्वेऽननुभूतेऽपि दर्शनं बृ० ल० टि० । १३ “विवेकानध्यवसायिनम् " - वृ० ल० टि० । पत्तारं प्रति" - बृ० ल० टि० । १६ पृ० ५०६ टि० १ । १७- रूपे भ्रा- वृ० विना । पश्चमं टिप्पणमवलोकनीयम् । १९ “ विवेकाध्यवसायिनः " - वृ० ल० टि० ।