________________
ज्ञानमीमांसा।
५०७
निर्वर्त्तयतीति युक्तं मृदादिवत् कुम्भकाराद्युपकृतम् । न चाभ्यासादिसहायमविकल्पकं कदाचिद् विकल्पमुपजनयद् दृष्टमिति कथं तस्य सहकारिसचिवस्य विकल्पजनकताभ्युपगमः? । अथ सञ्चेतनादिविकल्पमविकल्पकमुत्पादयद् दृष्टमिति तदभ्युपगमः; स्यादेतत् यदि क्रमभाविहेतुफलभूतमविकल्पसविकल्पकं ज्ञानद्वयमवसीयेत न च तदवसीयते सांशैकविकल्पस्वभावस्य सामान्यविशेषात्मकवस्तुग्राहिणः प्रथममेवोपजायमानस्यैकस्यैव निश्चयात्। तथाप्यप्रतीयमानस्य पूर्वकालभाविनोऽपरस्या-५ विकल्पकस्याभ्युपगमे तत्राप्यपरस्य तथाभूतस्याभ्युपगम इत्यनवस्थाप्रसक्तिः ।
यदप्यविकल्पकस्याभ्यासादिसहायविकल्पजनने प्रघट्टकास्मरणं दृष्टान्तत्वेनोपन्यस्तम्, तदप्ययुक्तम् । यतो वर्णादीनां तज्ज्ञानानां च व्यक्तिमेदाद दृढसंस्काराण्येव निश्चयात्मकान्यपि ज्ञानानि स्मृतिजनकोनि नापराणीति प्रतिनियतविषयस्मृतिसंभवान्न सकलप्रघट्टकास्मरणदोषः अनिश्चयात्मकं तु ज्ञानं क्षणिकत्वादाविव न क्वचिद् विकल्पहेतुर्भवेत् इत्युक्तं प्राक् न च भवत्पंक्षे सच्चेतनादि-१० स्वर्गप्रापणशक्त्यादीनां परस्परं तदनुभवानां च भेदः येनेदमुत्तरं समानं भवेत् । तथाहि-सच्चेतनादितत्सामर्थ्ययोरभेदे तदनुभवादेकरूपादुभयत्र संस्कारः स्मरणं वा भवेत् न वा क्वचिदिति अन्यथा अनुभवस्य सांशतापत्तिरिति सविकल्पकत्वं भवेत् । तस्माद् दानचित्तादौ सच्चेतनत्वादिकमनुभूयते न स्वर्गप्रापणसामर्थ्यमित्यभ्युपगन्तव्यम् । अथ तच्चेतसो मूषिकालर्कविषविकारवदनन्तरं फलस्यानुपलम्भाद् अतत्फलसाधादसामर्थ्यसमारोपाद् वा तदनुभवेऽपि न विकल्पः । तदुक्तम्- १५
"एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः खयम् । कोऽन्यो न दृष्टो भागः स्यात् यः प्रमाणैः परीक्ष्यते"॥ [ "नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात्" ॥ [
] इति । अत्र च तात्पर्यार्थः-यद् यतोऽभिन्नं तस्मिन्ननुभूयमाने तदनुभूयते, यथा तस्यैव स्वरूपम् २० अभिन्नं च सच्चेतनादेश्चेतसः स्वर्गप्रापणसामर्थ्यम् तस्य ततो भेदे सम्बन्धासिद्धेः सामर्थ्यादेव तत्प्राप्तेश्वेतसस्तत्प्राप्तिं प्रत्यकारकत्वं च भवेत् निरंशस्य च वस्तुनोऽध्यक्षेणानुभवेऽननुभूतापरांशाभावान्न तत्र प्रमाणान्तरप्रवृत्तिः प्रयोजनवती अयं च निश्चयात्मकाध्यक्षवादिनो दोषः निश्चिते विपरीतसमारोपाभावात् निश्चयारोपमनसोर्बाध्यबाधकभावात् अविकल्पदर्शनानुभूते तु वस्तुन्यनिश्चयाद् भ्रान्तिनिमित्तगुणान्तरारोपसंभवात् तद्व्यवच्छेदार्थ प्रमाणान्तरप्रवृत्तिः सप्रयोजनैवेति, एतदप्य-२५ युक्तम् , यतस्तत्सामर्थ्यस्य यत् फलं सच्चेतसां तदेव, उतान्यदिति? प्रथमपक्षे उभयत्र निश्चयाभावः फलादर्शनस्याविशेषात् । द्वितीयपक्षे घट-पटवत् तद्भेदः । यदप्यसामर्थ्यसमारोपात् तन्निश्चयानुत्पत्तिरिति तत्रापि तत्सामर्थ्यानुभवो यद्यनिश्चितोऽप्यस्ति सर्व सर्वत्रानिश्चितमपि भवेदिति साङ्ख्यमताऽप्रतिक्षेपः । न च तत्सामर्थ्य तच्चेतसोऽभिन्नमिति तदनुभवे तस्याप्यनुभवः चन्द्रग्रहणेऽपि तदेकत्वाग्रहणतस्तैमिरिकदर्शनेन व्यभिचारात् । तस्यापि ग्रहणमिति चेत्, न; भ्रान्तेरभावप्रसङ्गतः ३०
१“उत्तरम्"-बृ. ल. टि. । २ "निर्विकल्पकस्य"-बृ० टि.। ३ "दृढसंस्काराण्येव स्मृतिजनकानीति योगः"-बृ० ल० टि०। ४-त्पक्षे तच्चे-आ० हा० वि०। ५ “खर्गप्रापणसामर्थ्य"-बृ. ल. टि. ।
६ “यथोक्तम्
तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भागः कोऽम्यो न दृष्टः स्यात् यः प्रमाणैः परीक्ष्यते ॥" इतिप्रशस्त. कं० पृ० २०८ पं०३।
"तदुक्तम्" इत्युल्लिख्योद्धृतवानिदं एकस्यार्थखभावस्य' इत्यादि पद्यं जयन्तभट्टः।-न्यायमज आ० २०९३५०१४ ।
"तदुक्तम्" इत्युल्लिख्य श्रीयशोविजयैरिदं पद्यद्वयमुद्धृतं वर्तते शास्त्रवार्तासमुच्चयस्य टीकायाम्-पृ० १५८ द्वि. पं० २-४।
७ "स्वर्ग-"बृ. ल.टि.। ८-त्यपका-आ. हा० वि०। ९-मित्तं गु-ल. वा. बा०। १० "चित्ततत्सामर्थ्ययोर्भेदः"-बृ. ल. टि.। ११ “चन्द्रैकखस्य तैमिरिकदर्शने"-ल. टि. । “चन्द्रकत्वस्य"-बृ.टि.।