________________
५०६
द्वितीये काण्डेसामर्थ्य तगृहे गृहीतमेव किन्तु स्वसंवेदनस्य "सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षमविकल्पम्"
] इति वचनात् अविकल्पाध्यक्षत्वमिति तद्गृहीतस्यागृहीतकल्पत्वाद् विवादसंभवस्तत्र आह च कीर्तिः–“पश्यन्नपि न पश्यति" [ ] इत्युच्यते, असदेतत् ; यतो यदि तत्सामर्थ्य निर्विकल्पकाध्यक्षविषयत्वात् गृहीतमप्यगृहीतकल्पं तर्हि तश्चित्तमपि तत एव तथा ५भवेत् अविशेषात् तथा च 'यद् दानादिचित्तं तद् बहुजनसेव्यतानिबन्धनम् यथा त्यागिनरपतिचित्तम् दानादिचित्तं च विवक्षितम्' इत्याद्यनुमानमगमकम्-आश्रयासिद्धत्वादिदोषात्-प्रसज्येत । अथा। विकल्पोत्पत्तेर्न दोषः, असदेतत् यतो यद्यहेतुको विकल्पश्चित्तवत् तत्सामर्थ्येऽपि भवेत् अथ न, तत्र चित्तेऽपि मा भूत् अविशेषात् । अनुभवाद् विकल्पोत्पत्तिर्नानिमित्तेति चेत् उभयत्र स्यान्न वा क्वचिदप्यनुभवस्याप्यविशेषात् । न च चेतोविकल्पप्रभव एवानुभवः समर्थो न तत्सामर्थ्य विकल्पोत्पत्ताविति १० वक्तव्यम् यतो येन खभावेन तञ्चित्तचेतनादिकं स्वसंवेदनाध्यक्षमनुभवति तेनैव चेत् तत्सामर्थ्य
त भयत्रापि विकल्पस्ततः प्रादुर्भवेत् । अथ रूपान्तरेण तद्युभयरूपतैकस्यानुभवस्येत्यविकल्पकैकान्तवादव्याघातः। न चैकेनैव स्वभावेनोभयानुभवेऽपि तत्सामर्थ्य न विकल्पमुत्पादयत्यनुभवोऽशक्तेरन्यत्र तदुत्पादयति विपर्ययादिति वक्तव्यम्, एकस्य शक्तेतररूपद्वयायोगात् । न चैकत्र शक्तिरेवान्यत्रा
शक्तिस्तस्येति ईश्वरस्यापि क्रमभाविकार्यविधायिन एकत्र शक्तिरेवापरत्राशक्तिरिति स्वभावमेदो न १५भवेदिति न नित्यकारणप्रतिक्षेपो भवेत् । अथ नानुभवमात्राद् विकल्पप्रभवः अन्यथा निर्णयात्मकानु
भववादिनोऽपि विस्तीर्णप्रघट्टकादौ वर्णपदवाक्यादेः सकलस्य निर्णयात्मनाऽध्यक्षेणानुभवात् स्मरणविकल्पानुदयो न भवेत् । अथार्च दर्शनपाटवाभ्यासप्रकरणाद्यपेक्षा त_न्यत्रापि सा तुल्येति, एतदप्यसत्; यतो दर्शनस्य पाटवं सञ्चेतनादौ तद्रहणयोग्यता तत्सामर्थ्य अपाटवं तदग्रहणयोग्यता तच्च दर्शनस्य दृश्यस्य च सांशतायामुपपत्तिमदिति कथं न सविकल्पकता? विकल्पजननाजनने तत्पाटवा२० पाटवे अपि नाभ्युपगमनीये सांशतापत्तिदोषादेव । अथाभ्यासादिसहायं दर्शनं विकल्पमुत्पादयति; नन्वेवमपि यदेव सञ्चेतनादौ दर्शनं तदेवचेत्, अन्यत्रोभयत्र विकल्पोत्पत्तिर्भवेत् अन्यथा 'नित्यस्यापि सहकारिसचिवमेकदैकत्र यद्रूपं तस्यान्यनान्यदा सद्भावेऽपि न तत्कार्यकरणं तदा तत्र' इति तस्य यद् दूषणं तदसङ्गतं भवेत् । किञ्च, यदपरमपेक्ष्य कार्यजनकं कचिद् दृष्टं तत् तत्सहकृतं कार्य
१-दने प्र-वा० बा०। २ अत्र धर्मकीर्तिकृते न्यायबिन्दौ “सर्वचित्तचैत्तानामात्मसंवेदनम्” इत्येतावदेव सूत्र दृश्यते-प०१ सू० १० पृ० ११ । ततः “प्रत्यक्षमविकल्पकम्” इत्यंशस्तत्सूत्रटीकानुसारी समुद्धृतो बोद्धव्यः । सा च टीकेयम् वर्तते-"तच ज्ञानरूपं वेदनमात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च तस्मात् प्रत्यक्षम्"-पृ० ११ पं० १४ । तट्टीकाटिप्पण्यपि यथा-"तत् प्रत्यक्षं खसंवेदनरूपं निर्विकल्पकं तत्र शब्दादियोजनाभावात् । कुतः । शब्दे संकेताभावात् । अभ्रान्तं च तद्विज्ञानं खरूपेऽविपर्यस्तत्वादु बाधकाभावाच्चेति"-पृ. ३३ पं. ५-६ । “सर्वचित्तचत्तानामात्मसंवेदनं प्रत्यक्षं निर्विकल्पकमिति"-सिद्धिवि.टी.लि. पृ. ५१ पं० २० ।
३ प्र०२४५५०१४-१५ । “अथ क्षणिकवादेनिर्विकल्पकैकवेद्यखात् तद् गृहीतकल्पवाद न दोषः," तदाह धर्मकीर्तिः"पश्यन्नपि न पश्यतीत्युच्यते” इति न दोष इति चेत् । न, तच्चित्तांशेऽपि तथावप्रसङ्गात् । तत्र विकल्पोत्सत्तेर्न दोष इति चेत् । न, स्मरणरूपतदनुत्पत्तेरनुत्तरत्वात् । तव विस्तीर्णप्रघट्टकानुभवे सकलवर्णपदाद्यस्मरणवदुपपत्तिरिति चेत् । न, मम विस्तीर्णप्रघट्टकस्थले वर्णादीनां तज्ज्ञानानां च व्यक्तिभेदाद् दृढसंस्कारस्यैव निश्चयस्य स्मृतिजनकलेन नियमसंभवात् , तव तु निरंशानुभवस्यांशे विकल्पजननाऽजननस्वभावभेदस्य, शक्तिभेदस्य, पाटवाऽपाटवादेर्वा न संभव इत्युक्तवात् ; 'एकस्यापि सहकारिसाचिव्येन तद्विकल्पस्यैव जनकत्वं, नान्यविकल्पस्य' इयभ्युपगमे स्थिरस्यापि सहकारिसाचिव्याऽसाचिव्याभ्यां कार्यजनकखाजनकलाभ्युपगमप्रसङ्गात् ; कुम्भकारादिसहकृतस्य मृदादेर्घटाद्यन्वय-व्यतिरेकदर्शनवदभ्यासादिसहकृतस्य निर्विकल्पस्य कदापि विकल्पान्वयव्यतिरेकाग्रहणेनाभ्यासादिसहकृतस्याविकल्पस्य विकल्पजनकत्वकल्पनाया अन्याय्यत्वाच"शास्त्रवा० स्याद्वादक. पृ. १५८ प्र. पं०७॥ ४ "स्वर्गप्रापण-" बृ० ल. टि. । ५ "सद्रव्यचेतनखादिरूपे"-बृ. ल.टि.। ६ "उत्पादे"-बृ. ल. टि। ७ "शक्तिभावात्"-बृ० ल. टि. । ८ "विस्तीर्णप्रघट्टकादौ"-बृ० टि० । विस्तीर्णप्रघट्टकादौ स्मरणविकल्पानुदये"-ल. टि०। ९-स्थान्यदा भां० मां० आ० हा० वि० ।