________________
ज्ञानमीमांसा।
वर्गप्रापणसामर्थ्यादेरपि तद्गतस्य निश्चयात् तत्र विप्रतिपत्तिर्न भवेत् । अथानुभवस्यैवायं यथावस्थितवस्तुग्रहणलक्षणः स्वभावविशेषो न विकल्पस्य तेनायमदोपस्तर्हि यथा दानचित्तानुभवः स्वसंवेदनाध्यक्षलक्षणस्तद्गतं स;व्यचेतनादिकं विषयीकरोति तथा स्वर्गप्रापणसामर्थ्यमपि तत्स्वरूपाव्यतिरिक्तत्वात् विषयीकुर्यात् ततश्च स व्यचेतनत्वादाविव तत्रापि विवादो न भवेत् । न चासौ नास्तीति शक्यं वक्तुम् चार्वाकादेस्तत्र विप्रतिपत्तिदर्शनात् । तथाहि-"यावजीवेत् सुखं जीव" [ ]५ इत्याद्यभिधानान्न स्वर्गः नापि तत्प्राप्तिहेतुः कश्चिद् भाव इति चार्वाकाः। "नैव दानादिचित्तात् स्वर्गः यदि ततो भवेत् तदनन्तरमेवासौ भवेत् अन्यथा मृताच्छिखिनः केकायितं भवेत् तस्मात् ततो धर्मस्तस्माच्च स्वर्गः" [
] इति नैयायिकादयः । “इष्टानिष्टार्थसाधनयोग्यतालक्षणौ धर्माधौं”[
] इति मीमांसकाः । उक्तं च शाबरे–“य एव श्रेयस्करः स एव धर्मशब्देनोच्यते" [मीमांसाद० १-१-२ शाब० पृ०४ पं०१५] अनेन द्रव्यादीनामिष्टार्थसाधन-१० योग्यता धर्म इति प्रतिपादितं शबरस्वामिना । भट्टोऽप्येतदेवाह
"श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः । चोदनालक्षणैः साध्या तस्मादेष्वेव धर्मता॥ एषामैन्द्रियकत्वेऽपि न तद्रूप्येण धर्मता ॥ श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः" ॥
[श्लो० वा० सू० २ श्लो० १९१-१३-१४ ] इति । एवमनेकधा विवाददर्शनान्न विवादाभावः स च स्वर्गप्रापणसामर्थ्यस्य दानचित्तादभेदे वस्तुस्वरूपग्राहिणा च स्वसंवेदनाध्यक्षेणानुभवे सद्रव्यचेतनत्वादाविव न युक्तः। अथ तच्चित्तादभिन्नं तत्प्रापण
१ निर्णयात् वा० बा०। २-द्रव्यं चे-ल. भा. मां। ३ “द्रव्यतः परमार्थतश्चेतनवम्"-बृ० ल. टि.। ४ "स्वर्गप्रापणसामर्थेऽपि"- बृ० ल. टि.। ५ "विवादः"-बृ. ल. टि.। ६ “यथाह
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः । भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥"-न्यायमञ्ज आ० ७ पृ. ४६७ पं० २४ ।
"तदेतत् सर्व बृहस्पतिनाऽप्युक्तम्" इत्युल्लिख्योद्धृते श्लोककदम्बके
__“यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥"
इत्युपन्यस्तवान् सायणमाधवः-सर्वदर्शनसं० पृ. १४ द. १५० १२२ । गुणरत्नसूरिरपि लोकायतमतविवेचने परावर्तितपूर्वार्धमेनमेव श्लोकमित्थमुद्धृतवान् “तदुक्तम्" इति कृखा
__ "यावज्जीवेत् सुखं जीवेत् तावद्वैषयिकं सुखम् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥"-षइद० स० बृ० वृ० पृ. ३०२ पं०२०।
-स्तस्मात् स स्व-आ० हा० वि०।-स्तन्मते च स्व-वा० बा०। ८-धनायो-आ० हा० वि० । षड्द. स० बृ• वृ० पृ. २८९ पं० २-११ ।
९ तत्त्वसं० पजि० पृ० ५८३ पं० ११-२० । “यद्यपि गोदोहनादिद्रव्यम् , यागादिक्रिया, नीचैस्वादिगुणश्च फलसाधनवाद् धर्मशब्देनोच्यते नापूर्वादय इति श्रेयस्करभाष्ये वक्ष्यते, तथापि तेषां फलसाधनरूपेण धर्मखात् फलस्य च जन्मान्तरादिभाविलाद्धर्मखरूपेण प्रत्यक्षविषयलं न संभवति"-१-१-२ शास्त्रदीपिका पृ० १९ पं० १८ । श्लो० वा. पार्थव्या० पृ० ४८ पं० २२ । ___य एव श्रेयस्करः स एव धर्मशब्देनोच्यते । कथमवगम्यते ? यो हि यागमनुतिष्ठति तं धार्मिकमिति हि समाचक्षते । यश्च यस्य कर्ता स तेन व्यपदिश्यते यथा पाचको लावक इति । तेन यः पुरुषं निःश्रेयसेन संयुनक्ति स धर्मशब्देनोच्यते । न केवलं लोके, वेदेऽपि “यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्" इति यजतिशब्दवाच्यमेव धर्म समामनन्तीति श्रेयस्करभाष्ये वक्ष्यत इत्यर्थः"-१-१-२ शास्त्रदीपिका युक्तिस्नेहप्रपूरणीसिद्धान्त पृ० १९५० २९ । १० “इन्द्रियगोचररूपतया"-बृ० ल• टि० । पूर्वार्धमस्येत्थम्-"द्रव्य-क्रिया-गुणादीनां धर्मलं स्थापयिष्यते"।
६५ स० त०