________________
द्वितीये काण्डे -
स्थायां
रूपतयाऽननुभूयमानानामपि संभव इति विकल्पविकला सावस्था सिद्धा, असदेतत् यतस्तस्यामवस्थिरस्थूलस्वभावशब्दसंसर्गयोग्यपुरोव्यवस्थितगवादिप्रतिभासस्यानुभूतेः सविकल्पकज्ञानानुभव एव । नहि शब्दसंसर्गप्रतिभास एव सविकल्पकत्वम् तद्योग्यावभासस्यापि कल्पनात्वाभ्युपगमात् अन्यथाऽव्युत्पन्नसंकेतस्य ज्ञानं शब्दसंसर्गविरहात् कल्पनावन्न स्यात् । न च पूर्वकाल५ दृष्टत्वस्य वर्तमान समयभाविनि संयोजनाच्छब्दोले खाभावेऽप्यसदर्थग्राहितयाऽविशदप्रतिभासत्वात् तत् सविकल्पकम्, पूर्वकालदृटत्वस्य पूर्वदर्शनाप्रतीतावपि व्यापकाप्रतीतौ व्याप्यस्येव प्रतीतेरसत्त्वासिद्धेस्तत्सम्बन्धित्वग्राहिणोऽसदर्थताऽसिद्धेवैशद्याभावस्य तत्रानुपपत्तेः शब्दसंसर्गयोग्यप्रतिभासस्य विशदतया विकल्परूपस्याप्यध्यक्षतोपपत्तेः शब्दयोजनामन्तरेणापि स्थिरस्थूरार्थप्रतिभासं निर्णयात्मकं ज्ञानमध्यक्षमभ्युपगन्तव्यम् अन्यथा तस्य प्रामाण्यमेवानुपपन्नं भवेत् । तथाहि यत्रैवांशे १० नीलादौ विधिप्रतिषेधविकल्पद्वयं पाश्चात्यं तज्जनयति तत्रैव तस्य प्रामाण्यम् तदाकारोत्पत्तिमात्रेण प्रामाण्ये क्षणिकत्वादावपि तस्य प्रामाण्यप्रसक्तेः क्षणक्षयानुमानवैफल्यमन्यथा भवेत् विकल्पश्च शब्दसंयोजितार्थग्रहणं तत्संयोजना च शब्दस्मरणमन्तरेणासंभविनी तत्स्मरणं च प्राक्तत्सन्निध्युपलब्धार्थदर्शनमन्तरेणानुपपत्तिमत् तद्दर्शनं चाध्यक्षतः क्षणिकत्वादाविव निश्चयजननमन्तरेणासंभवि निश्चयश्च शब्दयोजनाव्यतिरेकेण नाभ्युपगम्यत इत्यध्यक्षस्य क्वचिदप्यर्थप्रदर्शकत्वासंभवात् प्रामाण्यं १५ न भवेत् । तस्मात् शब्दयोजनामन्तरेणाप्यर्थ निर्णयात्मकमध्यक्षमभ्युपगन्तव्यम् अन्यथाऽविकल्पाध्यक्षेण लिङ्गस्याप्यनिर्णयात् अनुमानात् तन्निर्णये अनवस्थाप्रसक्तेरनुमानस्याप्यप्रवृत्तितः सकलप्रमाणादिव्यवहारविलोपः स्यात् । अत एव "अश्वं विकल्पयेतो गोदर्शनात् न तदा गोशब्दसंयोजना तस्यास्तदाननुभवात् युगपद्विकल्पद्वयानुत्पत्तेश्च निर्विकल्पकगोदर्शनसद्भाव स्तदा " [
1
इति निरस्तम् गोशब्दसंयोजनामन्तरेणापि तद्दर्शनस्य निर्णयात्मकत्वात् अन्यथाऽश्वविकल्पनाद् २० व्युत्थितस्य गवि क्षणिकत्ववत् शब्दस्मरणासंभवतः स्मृतिर्न भवेत् अभ्युपगमनीयं चैतत् अन्यथा गोशब्दस्मरणस्यापि विकल्परूपत्वादपरतच्छब्दस्मरणमन्तरेण तद्योजनारूपस्य तस्यासंभवात् तत्स्मरणमभ्युपगन्तव्यम् तस्यापि चापरतच्छब्दस्मरणमन्तरेण तथाभूतस्यानुपपत्तेरपरतच्छब्दस्मरणमित्यनवस्थानान्न प्रथमशब्दस्मरणमिति न क्वचिद् विकल्पप्रसवो भवेत् । अथापरशब्दम्म रणमन्तरेणापि शब्दस्मरणसंभवान्नानवस्था तर्हि प्रथमशब्दस्मरणं तद्योजनं च व्यतिरेकेणाप्यश्वविकल्पनसमये २५ गोदर्शनस्य निर्णयात्मनः संभवात् कथमस्याविकल्परूपता सिद्धिमुपगच्छेत् ? यदपि 'निरंशवस्तुसामर्थ्योद्भूतत्वात् प्रथमाक्षसन्निपातजं निरंशवस्तुग्राहि निर्विकल्पकम्' इति, तदप्यसङ्गतम् ; निरंशंस्य वस्तुनोऽभावेन तत्सामर्थ्योद्भूतत्वस्य निर्विकल्पकत्वहेतोस्तत्रासिद्धेः । न च यत् निरंशप्रभवं तन्निरंशग्राहि, निरंशरूपक्षणप्रभवस्याप्युत्तररूपक्षणस्य तद्राहित्वादर्शनात् । न च 'ज्ञानत्वे सति' इति विशेषणान्नायं दोषः प्रत्यक्षेप्रभवविकल्पस्य ज्ञानत्वेऽपि तद्भावानुपपत्तेः उपपत्तौ वा हिंसाविरतिदान३० चित्तखसंवेदनाध्यक्षप्रभवनिर्णयेन तग्रहणोपपत्तेर्निश्चयविषयीकृतस्य चानिश्चितरूपान्तराभावात्
५०४
66
१ यथा व्यापक प्रतीतौ व्याप्यप्रतीतिर्नेति वैधर्म्यदृष्टान्तोऽयं तथा पूर्वदर्शनाप्रतीतावपि पूर्वकालदृष्टत्वस्य प्रतीत्यसत्त्वं नेति भावः " - बृ० ल० टि० । २" प्रत्यक्षज्ञानस्य " - बृ० ल० टि० ।
३ “किञ्च, एवं तस्य प्रामाण्यमेवानुपपन्नं स्यात्; यत्रैव हि पाश्चात्यं विधि - निषेधविकल्पद्वयं तज्जनयति तत्रैव तस्य प्रामाण्यम्, विकल्पश्च शब्दसंयोजितार्थग्रहणम्, तत्संयोजना च शब्दस्मरणाधीना, तच्च सम्बन्धितावच्छेदकप्रकारकसम्बन्धिग्रहरूपार्थधीजन्यमिति, न चेदेवम् गवानुभवाद् गोशब्द संयोजनावत् क्षणिकत्वानुभवात् क्षणिकत्वशब्दसंयोजनापि स्यात् । एतेन 'अश्वं विकल्पयतो गोदर्शनेऽपि तदा गोशब्दसंयोजनाभावाद् युगपद्विकल्पद्वयानुपपत्तेश्च निर्विकल्पकमेव गोदर्शनम्' इति निरस्तम्, गोशब्दसंयोजनामन्तरेणापि तद्दर्शनस्य निर्णयात्मकत्वात्, अन्यथा तत्स्मरणानुपपत्तेः, समानप्रकारकानुभवस्यैव समानप्रकारकस्मरणहेतुत्वात्, तत्संशयापत्तेश्च तत्प्रकारकनिश्चयस्यैव तत्प्रकारकसंशयविरोधित्वात्; अन्यथा क्षणिकत्वादावपि स्मरणासंशयप्रसङ्गात् ” — शास्त्रवा० स्याद्वादक० पृ० १५७ द्वि० पं० १३ ।
४-कत्वसं-भां० मां० । ५ यतो गोर्द - बृ० । ६- नुपपत्ते - वृ० ल० वा० वा० विना । ७स्तदेतन्नि बृ० ल० वा० बा० विना । ८- परं त-ल० वा० बा० भ० मां० विना । ९-शव-भां० मां० आ० हा० वि० । १० च नि-वृ० । ११ क्षभ - बृ० ल० वा० बा० । १२-नत्वे त-आ० हा ० बि० । १३ " प्रत्यक्षप्राहिता - " बृ० टि० ।