________________
ज्ञानमीमांसा।
५०३
इति चेत्। ननु स्वप्नावस्थायां पुरोवर्तिहस्त्याद्यवभासमेकं शानमनुभूयते अपरं तु स्मरणक्षानम् तत्र पूर्वोल्लेखतयोपजायमानस्य यदि वैशद्यवैकल्यम् नैतावता सर्वविकल्पस्य पुरोवर्तिस्तम्भाद्युल्लेखवतो वैशद्याभावः तत्र तैस्य खसंवेदनाध्यक्षतः प्रतीतेः । न चाविकल्पकं तदिति वक्तव्यम् स्थिरस्थूलपुरोव्यवस्थितर्हेस्त्याद्यवभासिनः स्वप्नदशाज्ञानस्याविकल्पकत्वे अनुमानस्यापि सांशवस्त्वध्यवसायिनो निर्विकल्पकत्वप्रसक्तेर्विकल्पवार्ताविरतिरेव स्यात् । अत एव 'प्रथमं निर्विकल्पकं निरंशवस्तुग्राहकं ५ तदर्थसामोद्भूतत्वात् तदुत्तरकालभावि तु निर्विकल्पकज्ञानप्रभवमर्थनिरपेक्षं सांशवस्त्वध्यवसायि सविकल्पकमविशदं लघुवृत्तेस्तु निर्विकल्पकज्ञानवैशद्याध्यारोपात् तत्राध्यक्षत्वाभिमानो लोकस्य' इति एतदपि निरस्तं द्रष्टव्यम् विकल्प एव पूर्वोक्तन्यायेन वैशद्योपपत्तेर्निर्विकल्पकस्य च निरंशक्षणिकपरमाणुमात्रावसायिनः कदाचिदंप्यनुपलब्धेस्तत्र वैशद्यकल्पनाया दुरापास्तत्वात् । ____ अथ संहृतसकलविकल्पावस्थायां पुरोवर्तिवस्तुनिर्भासि विशदमक्षप्रभवं ज्ञानमविकल्पकं संवेद्यत १० एव तथा चाध्यक्षसिद्ध एव ज्ञानानां कल्पनाविरह इति नात्र प्रमाणान्तरान्वेषणमुपयोगि। तदुक्तम्"प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति" ॥ [
] इत्यादि। तथा पुनरप्युक्तम्
"संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना।
स्थितोऽपि चक्षुषा रूपं वीक्षते साक्षजा मतिः” ॥ [ न ह्यस्यामवस्थायां नामादिसंयोजितार्थोल्लेखो विकल्पस्वरूपोऽनुभूयते । न च विकल्पानां खसंविदित
१-हस्ताद्य-वृ० । २ "स्वप्नज्ञाने पुरोवर्सनेकपावभासरूपतया"-बृ. ल. टि. । ३ "वैशद्यस्य"- बृ० ल• टि। ४-हस्ताद्य-बृ० । “खप्नदशायामपि स्मरणविलक्षणस्य पुरोवृत्तिहस्त्याद्यवभासिनो बोधस्य निर्विकल्पकत्वे अनुमानस्यापि सांशवस्तुग्राहिणस्तथालप्रसङ्गे विकल्पवार्ताया एव व्युपरमप्रसङ्गात्"-शास्त्रवा० स्याद्वादक. पृ० १५७ द्वि. पं. ४-५। ५-रपेक्ष सां-बृ० भ० मा०। ६-दनु- आ० हा० वि०। ७“प्रत्यात्मवेद्यः सर्वेषां विकल्पा नामसंश्रयः॥ इति पश्चिमार्धम्"-बृ.टि. । “प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः॥ इति"-ल. टि.। “यदाह न्यायवादी
प्रत्यक्ष कल्पनापोडं प्रत्यक्षेणैव सिध्यति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः॥ संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साऽक्षजा मतिः॥
पुनर्विकल्पयन् किञ्चिदासीद् मे कल्पनेशी । इति वेत्ति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥ इत्यादि, तदपाकृतमवसेयम्"-अनेका० पृ. २०७ पं० ११-१८ ।
"यदाह न्यायवादी धर्मकीर्तिर्वार्तिके-प्रत्यक्षमित्यादि तदपाकृतमवसेयमिति योगः । प्रत्यक्षं प्रस्तुतम् कल्पनापोढमियेतत् प्रत्यक्षेणैव सिध्यति । कथमित्याह-प्रत्यात्मवेद्यो यस्मात् सर्वेषां प्रमातृणाम् , विकल्पो नामसंश्रयः शब्दानुविद्ध इत्यर्थः॥ तथा, संहृत्य सर्वतश्चिन्तां विकल्परूपाम् , स्तिमितेन अन्तरात्मना प्रसन्ननिर्व्यापारेण, स्थितोऽपि सन् , चक्षुषा रूपमीक्षते पश्यति यया बुद्धया सा अक्षजा मतिः॥ ईक्षिला पुनर्विकल्पयन् किश्चित् पश्चात् आसीद् मे कल्पना ईदृशी एवंभूता इति वेत्ति, न पूर्वोक्तावस्थायां चक्षुषा रूपेक्षणलक्षणायाम् इन्द्रियाद् गतो ॥ इत्यादि यदाह न्यायवादी तद् अपाकृतम् अपास्तमबसेयम्"-अनेका० टी० पृ. २०८ पं० ११-२०।
प्रमेयकमलमार्तण्डे "विकल्पो नामसंश्रयः" इति पाठो वर्तते । नामसंश्रयः "शब्दः संश्रयः कारणं यस्य विकल्पस्य सः"-पृ. ९ द्वि. पं. ८ टि. ३८।।
अयं श्लोकः सिद्धिविनिश्चयटीकायामुद्धृतोऽस्ति-लि. पृ. ३१ पं०१९ । “यथाह" इति निर्दिश्य वाचस्पतिमिश्रः श्लोकस्यास्य पूर्वार्धमुद्धृतवान्-न्यायवा० ता० टी० पृ० १५४ पं० ९-१० । स्याद्वादर पृ० ८२ पं० १९-२० आ०। शास्त्रवा० स्याद्वादक० पृ. १५७ द्वि०५०६। ८ सप्तमं टिप्पणं विलोकनीयम् ।
"संहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना । स्थितोपि चक्षुषा रूपं खं च स्पष्ट व्यवस्यति ॥" -तत्त्वार्थश्लोकवा० पृ. १८६ श्लो. १३ । प्रमेयक• पृ. ९ द्वि. पं० ७ । “परेण हि यासौ तदवस्थोपवर्णिता "सहत्य सर्वत्र चिन्ताम्" इत्यादिना"-सिद्धिवि. टी.लि. पृ. ३४ पं० २५। स्याद्रादर. पू. ८२ पं० १२-१३ भा• । शासवा० स्याद्वादक. पृ. १५७ द्वि. पं०८।९-जितोर्थो-बृ.।