________________
५०२
द्वितीये काण्डेमपि शानं तथैव स्वविषयं विषयीकुर्यादिति तदुत्पत्त्यादिसम्बन्धकल्पनमनर्थकमासज्येत । न च तादात्म्यलक्षणस्तत्र तस्य सम्बन्धः तदाकोरेऽविकल्पकत्वस्य अविकल्पकत्वे वा तदाकारत्वस्य प्रसक्तेः। तदुत्पत्तिसम्बन्धवशात् तेन तद्रहणम् इत्येतदप्ययुक्तम् तदाकारस्य तज्ज्ञानोत्पादकत्वेन स्खलक्षणत्वप्राप्तेस्तज्ज्ञानस्य सविषयताप्रसक्तिदोषात् । न च स्ववासनाप्रकृतिविभ्रमवशादतदुत्पन्नमतदाकारं च ५तत् तद्विषयीकरोति अक्षसमनन्तरविशेषात् अन्यस्याप्युपजातस्य तथास्वविषयीकरणप्रसक्तेः सर्वत्र तदाकारतदुत्पत्तिप्रतिबन्धकल्पनावैयर्थ्यप्रसक्तेः । अतस्तदाकारविषयीकरणासंभवाद् विकल्प्यार्थाभावतो दृश्य-विकल्प्यावावेकीकृत्य प्रवर्तत इत्ययुक्तमभिधानम् । ततो न बलवान् विकल्प इति कथं तेनाविकल्पतिरस्कार इति अविकल्पकनिश्चयस्तदैव भवेत् न चैवम् अतो नाविकल्पस्य विकल्पेनैकत्वाध्यवसायः । किञ्च, विकल्पेऽविकल्पकस्यैकत्वेनाध्यारोप इति कुतो निश्चीयते? अस्पष्टास्खलक्षण१० ग्राहिणि स्पष्टस्खलक्षणग्राहित्वस्य प्रतीतेस्तध्यारोपावगतिरिति चेत् ; ननु यदि नाम तत्र तत्प्रतीतिः
अविकल्पारोपस्तु कुतः? स्पष्टत्वादेस्तद्धर्मस्य तंत्र दर्शनादिति चेत् तद्धर्मः स्पष्टत्वादिरित्येतदेव कुतः? तत्र दर्शनादिति चेत् ; अंत एव विकल्पधर्मोऽप्यस्तु अन्यथाऽविकल्पस्यापि मा भूत् । न च विकल्पव्यतिरेकेणाविकल्पमपरमनुभूयते यस्य स्पष्टत्वादिधर्मः परिकल्पेत एवमपि तत्र तत्परिकल्पने
ततोऽप्यपरमननुभूयमानं विशदत्वादिधर्माधारं परिकल्पनीयमित्यनवस्थाप्रसक्तिः। अथ किञ्चिज्ज्ञानं १५सविकल्पकमपरं निर्विकल्पकं राश्यन्तराभावात् विकल्पस्य चार्थसामोद्भूतत्वासंभवान्न विशद
त्वादिधर्मयोगः अविकल्पस्यापि तद्योगाभावे विशदत्वादिकं न क्वचिदपि भवेदित्यविकल्पस्यैव तदभ्युपगन्तव्यम् । भवेदेतत् यद्यर्थसामर्थ्यप्रभवत्वेन वैशद्यादेाप्तिः स्यात् तदभावे तन्न भवेत् न चैवम् अर्थसामोद्भूतेऽपि दूरस्थितपादपादिज्ञाने वैशद्यादेरभावात् योगिप्रत्यक्षे चार्थप्रभवत्वाभावेऽपि च भावात् । न च तदप्यर्थसामोद्भुतम् तत्समानसमयस्य चिरातीतानुत्पन्नस्य चार्थस्य २० तहणानुपपत्तेः। तथाहि-प्रागसर्वज्ञः सन् सुगतो विवक्षितक्षणे सर्वज्ञतामासादयंस्तत्समानसमयभाविनां भावानाम्-तज्ज्ञानं प्रत्यजनकत्वात् तेषाम्-ग्राहको न स्यात् एवमुत्तरोत्तरतद्विज्ञानक्षणा अपि स्वसमयार्थग्राहका न भवेयुः चिरतरविनष्टस्य भावकलापस्यासत्त्वेन तदकारणत्वान्न तं प्रति ग्राहकता भवेत् अनुत्पन्नस्य च पदार्थसमूहस्य कारणत्वासंभवात् तं प्रति ग्राहकता तस्य दूरोत्सारि
तैव । अथ चिरातीतं भावि च तत्कारणमभ्युपगम्यत इति नायं दोषः; नन्वत्राप्यभ्युपगमे येन २५ स्वभावेन तत् तदनन्तरभावि कार्यमुत्पादयति तेनैव यदि सुगतज्ञानमिदानीन्तनकालभावि जनयति तदैकस्वभावत्वान्नित्यादिवत् कार्यक्रमायोगात् पूर्वमेवैतदप्युत्पद्येत । अथ समनन्तरप्रत्ययस्य सुगतज्ञानहेतोरिदानीमेव भावान्न पूर्वमुत्पत्तिः, असदेतत्; यत आलम्बनकारणं चिरातीतसमयभावि तदैव तत्कार्यमुत्पादयितुं प्रभवति समनन्तरप्रत्ययस्त्विदानीमिति विरुद्धकारणसामर्थ्यानुविधायिनः कार्यस्योत्पत्तिरेव न भवेत् । अथान्येन स्वभावेन तर्हि सांशं तत् प्रसज्यत इति तदाहिणोऽपि ज्ञानस्य ३० सांशैकवस्तुग्राहकत्वेन सविकल्पकताप्रसक्तिः। एवं भाविकारणेऽपि वक्तव्यम् । तन्न योगिप्रत्यक्षमर्थसामर्थ्यप्रभवमभ्युपगन्तव्यम् अन्यथा पूर्वोक्तदोषप्रसक्तेः। तच्च तैदप्रभवमपि यथा विशदम्अन्यथा प्रत्यक्षत्वानुपपत्तेः-तथा विकल्पज्ञानमर्थसामर्थ्याप्रभवमपि यदि विशदं भवेत् तदा को विरोधः? विकल्पस्य वैशद्यमेव विरोधः। तदुक्तम्
"न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासिता। स्वप्नेऽपि स्मर्यते स्मार्त न च तत् तादृगर्थदृ"॥[
१-षयं निवि-ल०।-षयं वि-आ० । 'खविषयम्' इति पदस्य 'विषयीकुर्यात्' इति क्रियाया व्याप्यखेन द्वितीयान्तवात् 'सर्वमपि ज्ञानम्' इति पदेन सह नान्वयः इति ख्यापनाय आ. प्रती 'षयं' इत्यस्य शिरसि द्वितीयविभक्तिसूचकोऽको न्यस्तः। २-कारे विकल्पकत्वे वा ल. वा. बा. भां० मा. विना। ३-कल्पार्था-वा. बा. विना। ४-कल्पाव-भां. मां. हा. विना । ५“अविकल्पक"-बृ. ल. टि.। ६ “सविकल्पके"-. ल.टि.। ७"तत्र दर्शनादेव"-बृ. ल.टि.। -कल्प्ये त बृ० सं०। ९ “पदार्थसमूहम्"-वृ० ल.टि.। १.कार्योत्प-आ. हा०वि०। ११ भवति । बृ०। १२ "अर्थाप्रभवम्"-वृ.ल.टि.। १३-त्यक्षानु-वृ०। १४ "तथा चोक्तम्" इत्युल्लिख्योद्धृतोऽयं श्लोको वर्तते सिद्धिविनिश्चयटीकायाम्-लि. पृ. ९५५० १६ । “न विकल्पानुबन्धस्य"-शास्त्रवा० स्याद्वादक० पृ० १५७ द्वि. पं०३।